Page #1
--------------------------------------------------------------------------
________________
नन्दनवानकल्पलर-90
शासनसम्राजामिह समुदाय मेरुपर्वतीपम्ये । कल्पनरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
४सङ्कलन
उत्तरायणम् वि.सं. २०६३
Jain Eucaly
GavateespendedROly
कीर्तित्रयोayog
Page #2
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतर १८
शासनसमाजामिह समुदाय मेरुपर्वतौपम्य । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
उत्तरायणम् वि.सं. २०६३
सङ्कलनम् कीर्तित्रयी
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ॥ अष्टादशी शाखा । (संस्कृतभाषामयम् अयन-पत्रम् ॥)
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०६३, ई.सं. २००७
मूल्यम् : रू. १००/
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 26622465
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 65312526
मुद्रणम् : क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद ॥
दूरभाष : 079 - 27494393
Page #4
--------------------------------------------------------------------------
________________
प्रास्ताविकम् वर्तमानस्य समाजस्य समयस्य च बृहती समस्याऽस्ति शिक्षणस्य । शिक्षणस्य दारिद्यमेव सर्वत्र प्रसृतमनुभूयते । बाह्यदृष्ट्या यद्यपि शिक्षणस्य प्रमाणं वृद्धि गतमस्ति तथापि तदक्षरज्ञान एव पर्यवसितं दृश्यते, न तस्य साफल्यं परिणमनं वाऽनुभूयते, नाऽपि शिक्षणाज्जायमानं तेजः कस्याऽपि मुखे विलसद् दृश्यते । आडम्बरस्तु दृश्यते, न किन्तु तेजः । अत्र कारणं त्वेतावदेव यदद्यत्वे शिक्षणं स्वकीयान्मूलभूताल्लक्ष्याच्च्युतं जातम् । शिक्षणं तु शिक्षकाणां धर्म आसीद् यदद्य व्यवसायरूपेण तैः परिकल्प्यते । विद्यार्थिनां कृते तु विद्या उपासनीयाऽऽसीत् , किन्तु तैरप्येषाऽऽजीविकाया साधनत्वेन परिकल्पिता ।
शिक्षणस्य मुख्य लक्ष्यमासीदस्ति चाऽपि, विद्यार्थिनां सत्त्वस्योज्जागरणम् , तेषां विचारशीलतायाः सम्यग् विकसनम् । यत्र विचारोऽस्ति तत्र विवेको जागृतो भवत्येव । यत्र च विवेकस्तत्र जीवनस्य सौन्दर्यं विकसति । वर्तमानकाले तु विपरीता स्थितिर्दृश्यते । “सर्वे गुणाः काञ्चनमाश्रयन्ते''-इत्येतादृशं विकृतविचारं विचारविषं वा सिच्यते आबाल्यात् । एतच्च विषं विवेकं नाशयति ।
सम्प्रति सर्वत्र-आहारे, विहारे, व्यवहारे, विचारे, व्यवसाये, भोगोपभोगे, वस्त्रपरिधाने, परिचये चेत्यादिषु-विवेकस्याऽभाव एव परिलक्ष्यते । नैतावदेव किन्तु येषां देवालयतुल्यो महिमा विद्यते तेषु विद्यालयेषु महाविद्यालयेषु चाऽपि ! तत्र कीदृशा दिवसाः कीदृश्यश्च स्पर्धा आयोज्यन्ते ? एतादृशैरायोजनैः किं विद्यार्थिनां सात्त्विकता, तेजस्विता, विचारौन्नत्यं वा सिद्ध्यति परिपुष्यति वा ? एतादृशान्यायोजनान्यध:पतनं निमन्त्रयन्ति । नितान्तं भौतिकताया एव पुरस्कारो गानं वा सर्वत्र क्रियते । समानताया उद्घोषणयाऽऽन्दोलनेन वा परस्परं समादरस्य संस्कारा अस्माभिर्नाशिताः ।
आङ्ग्लैर्भारतवर्षे शासनं कृतम्। 'भारतीयानां मनःस्थितिः परिवर्तनीया' - इत्येषाऽऽसीत् तेषां मनीषा । 'मेकोले' इत्यभिधो जनोऽत्राऽऽगतः । सर्वत्र सर्वेक्षणं कृतवान् । स्वदेशे गत्वा स नेतृणां पुरः स्वाभिप्रायं प्रदर्शितवान् यद् - "यदि भारतीयानां संस्कृतौ परिवर्तनमभीप्सितं तर्हि तेषां शिक्षणपद्धतौ परिवर्तनमनिवार्यम् । न तद्विना किमपि कर्तुं शक्यम् ।" ईदृश आसीन्महिमाऽस्माकं शिक्षणस्य शिक्षणपद्धतेर्वा । लोकजिह्वासु कालिदास-माघ-बाण-धनपालादिमहाकवीनां काव्यानां श्लोकानां गानं श्रूयमाणमासीत्, लोकहृदयेषु च महावीर-बुद्ध-कृष्णप्रमुखाणां महापुरुषाणां जीवनमादर्शरूपेण संस्थितमासीत् । ततः प्राप्यमाणानां संस्काराणां तेजो विलसदासीत् । किन्तु, अद्य? किं गानं श्रूयते ? के वाऽऽदर्शरूपेण संस्थिताः ? सर्वं लज्जास्पदमेव ! आङ्ग्लैः स्वकार्य साधितम् । पाश्चात्यानामनुकरणेऽस्माकं मौढ्यस्य मूलमत्रैवाऽस्ति ।
अतः शिक्षणेनैव जीवनं, परिवारः, कुटुम्बः, समाजः, ग्रामः, नगरं, राज्यं-राष्ट्रं वा
Page #5
--------------------------------------------------------------------------
________________
परिष्कारं प्राप्नोति । शिक्षणमेव यदि भ्रष्टं स्यात् तर्हि ततो विचारशीलं विवेकशीलं वा यौवनं नैवोत्पत्स्यते ! भ्रष्टशिक्षणाज्जायते उन्मत्तं यौवनं, यच्च स्वपरोभयहितं नाशयति ।
अद्य यत्किमपि चित्तसङ्क्लेशजनकं व्यथोत्पादकं वा घटते तदेवोन्मत्तताया विवेकशून्यतायाश्च प्रमाणमस्ति ।
स्वातन्त्र्यं सर्वेषामभीष्टमेव, नाऽत्र संशयो नाऽपि विरोधः । किन्तु स्वातन्त्र्यं यदा विवेकमण्डितं भवति तदा तद् दीप्यतेऽनुसरणीयं चाऽपि सम्पद्यते । विवेकदानं तु शिक्षणस्य कार्यम् ।
___पुनः समालोचनीया शिक्षणपद्धतिः । अत्यावश्यकमिदम् । नैतद्विना संस्कृतेः, संस्काराणां संस्कृतस्य चाऽपि संरक्षणं संवर्धनं च कथमपि शक्यम् । किन्तु क एतत् श्रोष्यति ? कस्य पुरः पूत्कुर्महे ?!
कीर्तित्रयी
फाल्गुनशुक्लपञ्चमी जामनगरम्
.. . लेखकेषु वाचकेषु च सूचना १. सुरुचिपूर्ण शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम् । २. पत्रस्यैकस्मिन्नेव पार्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् । ३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) ४. अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । ५. वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्य
स्यात्। ६. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः
प्रतिभावो भवतु ।
Page #6
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
MIRE
NMENTA
एच. वि. नागराजरा
- मैसूरु -
नमो वीतरागाय । नवनन्दनवनकल्पतरुं जनमानसनुतविज्ञगुरुम् । अभिवीक्ष्य निरन्तरमातनुते हृदयं मम नर्तनमद्य मुदा ॥
कीर्तित्रयी जयति लोकहितैषिणीयं वाग्भिः सदा विदधती बहुधर्मलाभम् । हासं कदाचन कदाचन बाष्पधारां
सन्तन्वती जनमुखे ससुखेडसुखेडपि ॥ प्राकृतसंस्कृतवचनै रीतिं नीतिं च सकललोकस्य । यो बोधयति समस्तान् स जयतु नन्दनवनकल्पतरुः ॥
प्रा. अभिराजराजेन्द्रमिश्रः
हरिद्वार नन्दनवनकल्पतरोः सप्तदशोऽङ्कः समवाप्तः । आचार्यचरणैविरचितां वर्धमानस्तुतिमधीत्य गादीभूतं मनो गौरवेण । हन्त, प्राकृतभाषाऽद्याऽपि जीवतितरां महता वैभवेन ।
वस्तुतो नन्दनवनकल्पतरुः संस्कृतभाषायाः सौष्ठवज्ञापने रुचिरमैतिचं किञ्चिद् विरचयति । सर्वोत्तमेयं संस्कृतपत्रिका प्रतिपाद्यगुणवत्ता-परिशुद्धिदृष्ट्या । अन्यथा तु प्रतिपदं त्रुटिनिचिताभिः पत्रिकाभिः काऽप्यन्यैव संस्कृतभाषा निर्मीयते ।
भवतां श्रमैः नन्दनवनकल्पतरुः स्वसंज्ञासार्थकतां साधु चरितार्थयतीति समाऽनुभवः ।
nak
Page #7
--------------------------------------------------------------------------
________________
वाचकानांप्रतिभावः
प्रा. डॉ. वासुदेव पाठकः 'वागर्थः'
अहमदाबाद
'नन्दनवनकल्पतरुः' इत्यस्य १७तमः अङ्कः सम्प्राप्तः । उपकृतोऽहम् ।
वाचनवैविध्यं तु अस्त्येव, प्रास्ताविकं वस्तुतः विचार्यम् । अस्य लेखस्य हिन्दीभाषानुवादः, आङ्ग्लभाषानुवादश्च कार्यः । कारयित्वा, बहुधा प्रचारः कर्तव्यः, राष्ट्रस्य हितचिन्तां कृत्वा । भारतस्य औदार्यं धर्मस्वीकारविषये इति सत्यस्य अवगणनां कृत्वा, अन्यथा प्रचारं कुर्वाणा: लज्जां न अनुभवन्तीति आश्चर्यम् ।
अस्माकं तथाकथिताः नेतारः, स्वकीये स्वार्थे रममाणाः 'वोट'स्य राजकारणे रताः । राष्ट्रस्य संस्कृतेः, संस्काराणां वा रमणस्य वार्ताऽपि तैर्न विचार्यते ।
कतिपयैः सामयिकैः एतस्य विरोधः प्रकटीकृतः, किन्तुं तत् सर्वं अरण्ये रोदनं भवति । अन्धानां कृते दर्पणदर्शनमिदम् अस्तु । अस्माभिः प्रयतितव्यम् इति शास्त्राज्ञा शिरोधार्या ।।
धन्यवादैः प्रणमामि ॥
Page #8
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
श्रीविजयशीलचन्द्रसूरिमहाभागाः,
भवद्भिः प्रेषिता नन्दनवनकल्पतरोः सप्तदशी शाखा प्राप्ता । " दिने दिने सा ववृधे
शुक्लपक्षे यथा शशी ॥ "
अस्य वाक्यस्य अनुसरणं सत्यमेव प्रतिभाति नन्दनवनकल्पतरोः शाखायाः कृते ।
प्रियसन्मान्यसूरिमहाभागाः,
डॉ. महेश्वरः द्विवेदी नन्दपुरम् ।
नन्दनवनकल्पतरोः सप्तदशोऽङ्कः प्राप्तः । तदर्थं बहुधन्यवादः ।
संस्कृतम् आदिकालादपि ज्ञानविज्ञानसंस्कारचरित्रशिक्षादीनां भाषा अस्ति । अद्यापि जगत् आशापूर्णदृष्ट्या संस्कृतदिशि पश्यति । वैज्ञानिकाः अपि संस्कृतग्रन्थेभ्यः इदानीमपि जगतः हिताय विनूतनाः अंशाः प्राप्तुं शक्याः इति अङ्गीकुर्वन्ति ।
सम्पादकीयः आशयः मह्यम् अरोचत् ।
मुनिकल्याणकीर्तिविजयस्य 'स्वाध्याय' विभागे प्रकाशितः मङ्गलवादः नितरां सन्तोषकरः । मुनिधर्मकीर्तिविजयस्य ‘बोधकथा' 'गृहस्वामिनीचयनम्' च अस्माकं कर्तव्यं स्मारयति । एतादृशीकथाः अस्मादृशानां शिक्षकाणां महदुपयोगिन्यः भवेयुः इति तर्कयामि । सर्वेऽपि विषयाः ज्ञानवर्धकाः सन्तः मह्यम् अत्यन्तम् अरोचन्त ।
प्रा. अलकेशः दवे
अहमदाबाद
7
Page #9
--------------------------------------------------------------------------
________________
वाचकानांप्रतिभावः
नन्दनवनकल्पतरोः नूतनाङ्कः सुन्दरः । यत् तस्य चिन्तनसूत्रेप्रस्तावनारूपेण लिखितं तत्तु अतीव योग्यम् । तस्मिन् स्रेस्तानांधर्मपरिवर्तनवृत्तीनां गर्हणा यथायोग्यं विहिता एवमेव लेखान्ते भारतसर्वकारस्य प्रशंसाऽपि एतत्सन्दर्भे विहिताऽस्ति ।
विशेषः, अस्याः पत्रिकायाः पठनं कृत्वा संस्कृतछात्राणाम् अध्यापकानां च वितरणं जनोऽयं करोति येन संस्कृतस्य प्रचारोऽपि भवति ज्ञानस्य चाऽपि ।
प्रा. व्यासः मधुसूदनः एम्.
मोडासा
HAK
नपाई
-
-
-
-
-
-
-
-
-
-
-
-
नन्दनवनकल्पतरोः सप्तदशी शाखा प्राप्ता ।
प्रास्ताविके भारतसर्वकारेण वेटिकनाधीशस्य कठोरमुपालम्भंदत्त्वा पोपविधानं यत्प्रत्यादिष्टं तत्प्रशंसाहम् । भारते स्ता: सेवामिषेण धर्मान्तरणप्रवृत्तिं कुर्वन्ति, तन्निन्दनीयम् । तेषां प्रलोभनेन भारतीयैः स्वधर्मो न त्याज्यः कदापि, सर्वथा स्वधर्म एव पालनीय इति शम् ।
-
-
-
-
-
-
-
प्रा. राजेशकुमार मिश्रः
-
उत्तराञ्चलम्
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
Page #10
--------------------------------------------------------------------------
________________
कृतिः
विविधनामगर्भच्छन्दोमयमुक्तकश्रीपार्थजिनेश्वराष्टकम्
स्तवनानुवादः
अनुक्रमः
वाचकवर्य श्रीयशोविजयगणि-प्रणीतस्य
श्रीवर्धमानजिनस्तवनस्य संस्कृतानुवादः
श्रीपञ्चसूत्रपद्यानुवादः
पञ्चमं प्रव्रज्याफलसूत्रम्
सद्गुरुस्तवनम् उत्कर्षसाधनषट्कम् ।।
भारतमातृवन्दनम्
कर्ता
स्व. प्रवर्तकमुनिश्रीयशोविजयः
विजयशीलचन्द्रसूरिः
उपाध्यायो भुवनचन्द्रः
For Private Personal Use Only
पृष्ठम्
डॉ. आचार्यरामकिशोर मिश्रः
१
प्रा. वासुदेव वि. पाठकः 'वागर्थः' १७
४
प्रा. वासुदेव वि. पाठकः 'वागर्थ:' १९
२०
Page #11
--------------------------------------------------------------------------
________________
Woremony
A
AD
PPPppyTTPPPOOR
अनुक्रमः
कृतिः
कर्ता
पृष्ठम्
उजालकान
प्रा. अभिराजराजेन्द्रमिश्रः २२
प्रा. अभिराजराजेन्द्रमिश्रः २४
नवरत्नसमशितकम् आस्वादः - चिन्तनधारा
GROO
मुनिरत्नकीर्तिविजयः ३७
पत्रम्
मुनिधर्मकीर्तिविजयः ३९
काव्यानुवाद
मुनिकल्याणकीर्तिविजयः ४२
भारतीयजीवनमूल्यज्ञानाय प्रचारायच संस्कृतस्य साम्प्रतिकी आवश्यकता
डॉ. धर्मेन्द्रजैनः ४४
ग्रन्थसमीक्षा
'नाट्यनीराजनम्'
डॉ. रूपनारायणपाण्डेय: ५०
(कथाद्वादशी)
डॉ. रूपनारायणपाण्डेयः ५३
For Priv 10 Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Dovy PPPPPPY
Pargyrong
अनुक्रमः
कृतिः
कर्ता
पृष्ठम्
स्मरणम् । बार बार हसामि
मुनिधर्मकीर्तिविजयः ५६
मुनिरत्नकीर्तिविजयः
५७
(कथा) अहो मातृत्वम् ।।
गुरुदृष्टिः मिथ्याभिमानः
मुनिधर्मकीर्तिविजयः
मुनिधर्मकीर्तिविजयः
६२
स्वमार्गे चलनम्
मुनिकल्याणकीर्तिविजयः ६४
उत्तमं शासनम्
मुनिकल्याणकीर्तिविजयः ६६
अमरफलम्
डॉ. आचार्य रामकिशोरमिश्रः
७२
Page #13
--------------------------------------------------------------------------
________________
अनुक्रमः
RAMDHAN
कृतिः
कर्ता
पृष्ठम्
(संस्कृतवार्ता
गान्धीधाम (कच्छ)नागारे संस्कृतप्रदर्शनी संस्कृतसम्मेलन च
७५
मर्म-नर्म
७७
प्राकृत-विभागः
श्रीमहावीरजिषथुई ते धन्ना जेहिं दिट्टी सि
मुनिरत्नकीर्तिविजयः
८०
प्राकत-विभाग
उन्दलाचार
P. डॉ. आचार्यरामकिशोरमिश्रः
८२
कथा
12
For private & Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
বিভিIKEggश्रीपार्श्वजिनेश्वराष्टकम्
स्व. प्रवर्तकमुनिश्रीयशोविजयः
(एकादशाक्षरचरणं त्रिष्टुभि बन्धुवृत्तम्) पार्श्वजिनं भवभीतिनिरासम् मायिकपाशविनाशनदक्षम् ॥ देशनवारिनिवारिततापम् बन्धुमहं सकलस्य नतोऽस्मि ॥१॥
(त्रयोदशाक्षरचरणमतिजगत्यां मायावृत्तम्) लोकाधीशैभक्तिभरणाऽऽन्तपादम् यरिंमश्चेतो लग्नमपापं भविता ते ॥ सर्वानन्दप्राप्तमुदारं भविबन्धो त्यक्त्वा मायां लोभमपि त्वं भज पार्धम् ॥२॥
(द्वादशाक्षरचरणं जगत्यां तामरसवृत्तम्) सुरहृदयालिनिपीतमरन्दोपमशुभदेशनवाचमुदारम् ॥ कलुषनिदाघहरं जनतायास्तव मुखतामरसं जिन ! जीयात् ॥३॥
१. भत्रयशोभितपादपिनद्धं गद्वयवर्णसुवर्णितबन्धम् । बन्ध्वभिधं प्रथितं भुवि
विज्ञैर्दोधकसंज्ञमिदं प्रथितञ्च ॥ उट्टवणिका यथा ॥ ॥ ॥ ऽऽ ।। २. माभिख्यः पूर्वं तगणस्स्याद्यदि पश्चात्पश्चात्तस्मात्स्याद्यगणस्साख्यगणाढ्यः ।। गान्त्योत्कृष्टा
विज्ञमनोमोदददैषा माया प्रोक्ता विज्ञजनैः पदरम्या तु ॥ उट्टवणिका यथा 555 5।
।ऽऽ ऽऽ पदमत्तमयूरमित्यपि वदन्ति ॥ ३. नगणविलास इतः परमेव । जगणनिबन्धकृतिः सुभगा च ॥ भवति ततः परमेव
जकारो यगणयुतो यदि तामरसं तत् ॥ उट्टवणिका यथा ॥ ।। II I55
Page #15
--------------------------------------------------------------------------
________________
४.
५.
(त्रयोदशाक्षरचरणमतिजगत्यां प्रबोधितावृत्तम्) (मञ्जुभाषिणीत्यपि)
परिभूतमानसतया मनोभुवा हृतधर्मशेवधिचयाश्शरीरिणः ॥ भवता जिनेन्द्र ! सहसा प्रबोधिता - स्सुखमाप्नुवन्ति मदमाननिद्रया ॥ ४ ॥
(चतुर्दशाक्षरचरणं शक्वर्यामपराजितावृत्तम्)
जिनवरवृषभः फणीन्द्रसुचिह्नितो गुणमणिनिक जगत्पतिरीश्वरः ॥ सकलसुरनरेश्वराद्यपराजिता - तुलबलधरणो दधातु शिश्रियम् ॥५॥
सगणो भवेत् प्रथमेव गुम्फितो । जगणस्ततस्सगणशोभितस्ततः । जगणः पुनर्गुरुयुतो यदा तदा । कथिता बुधैरिह वरा प्रबोधिता ॥ उट्टवणिका यथा ॥IS IS | 5 ISIS नगणयुगयुता रकारविराजिता । सगणयुतपदा लघुप्रविमण्डिता । भवति गुरुयुता बुधप्रवरैरियम् । स्वरविरतिरुदाहृता त्वपराजिता । उट्टवणिका यथा III III SIS IS 15 यत्र राभिधो गणः पुरस्ततो जसंज्ञकोऽथ । राभिधेन मण्डितो गणेन जस्ततः पुनस्तु ॥ कीर्तितो रसंज्ञको गणश्च लान्तिमं बुधेन । चित्रसंज्ञमीरितं बुधप्रमोददायकन्तत् ॥ Safe यथा SIS 515 151 51st
६.
(षोडशाक्षरचरणमष्ट्यां चञ्चलावृत्तम्)
चञ्चला बुधेह चञ्चला सुतादिवर्ग एष ते भवत्यवश्यमेव मोहपाशबन्धनेन ॥ दुःखदावदाहदानकारणं सदाश्रयेह तद्भवोदधिप्रघोरदुःखनाशपार्श्वमाशु ॥६॥
(विंशत्यक्षरचरणं कृत्यां चित्रनामकं वृत्तम्)
लोभमोहमानकालसर्पसंकुले भवाख्यकाननेऽत्र कर्मवर्गवैरिपातितो जनो भृशं विदूनचेतसा तु ॥
२
*******#*#*#*#*#####
Page #16
--------------------------------------------------------------------------
________________
त्वत्पदाब्जसेविनां निरीक्ष्य दु:खभारनाशमप्यहो न चित्रमेतदेव भाति यत्तथापि सेवते भवन्तमाशु ॥७॥
(अथ स्तुत्यनामगर्भो बीजपूरः) जगज्जन्तुसमुद्धार ! जप्य ! पार्षद्यमुत्कर ! । जराश्वभ्र ! शुभाकार ! जयाह्लाद ! यशस्कर ! ॥८॥ श्रीनेमीश्वरसूरिराज्यसमये तस्य प्रतापादिदं स्तोत्रं श्रोत्रसुखावहं विरचितं श्रीपार्श्वनाथस्य यत् ॥ तेनाऽऽकल्पमिहाऽऽश्रयन्तु सुधियः श्रीपार्श्वनाथं जिनम् सद्धर्मप्रतिपन्नभावनगरे स्तुत्यं वरं श्रेयसे ॥९॥ श्रीपार्श्वस्तवनं पठन्ति भुवि ये ते प्राप्तपुण्याशया लोकाः श्लोककदम्बपुष्पकलिता धर्मद्रुमाः सर्वदा ॥ श्रीमन्नीतिफला भवन्ति विनयप्रोदूढमूलाश्चिरम् कल्याणावलिवल्लिवेष्टनकृतच्छायाः सुसेव्याः सताम् ॥१०॥
इतिश्रीवसुमतीहारायमाणकीर्तिलतासम्वेष्टितापरचारित्रमूर्तिधर्मकल्पद्रुमश्रीविजयनेमिसूरिपादारविन्दमकरन्दतुन्दिलमिलिन्दायमानयशोविजयमुनिकृतं
विविधनामगर्भच्छन्दोमयमुक्तकश्रीपार्श्वजिनेश्वराष्टकं समाप्तिमभजत् ॥
...
७. (अस्य चञ्चलानामकस्य वृत्तस्य चित्रसंज्ञतया प्रसिद्धत्वात् चित्रसंज्ञतया एव लक्षणं
लिख्यते ।) पूर्वमेव राभिधो गणस्ततो भवेज्जसंज्ञको गणस्तु । राभिधस्ततो भवेज्जसंज्ञको गणः पुनश्च राभिधोऽथ ॥ जाभिधो भवेद् गणः पुनः पुनर्गुरुस्ततो भवेल्लघुश्च एक एव चेत्तदा प्रतीहि चित्रनामकं बुध ! त्वमत्र ॥
उठ्वणिका यथा 15 15 15 151 55 151 ।
חחח
Page #17
--------------------------------------------------------------------------
________________
Owne
coo00000
| स्तवनानुवादः वाचकवर्यश्रीयशोविजयगणि-प्रणीतं
श्रीवर्धमानजिनस्तवनम्
गिरुआ रे गुण तुम तणा, श्रीवर्धमान जिनराया रे; । सुणतां श्रवणे अमी झरे, मारी निर्मल थाए काया रे...
तुम गुणगण गंगाजले, हुं झीलीने निर्मल थाउं रे; अवर न धंधो आदरुं, निशदिन तोरा गुण गाउं रे...
झील्या जे गंगाजले, ते छिल्लर जल किम पेसे रे ?; मालती फूले मोहियो, ते बाउल जइ नवि बेसे रे...
एम अमे तुम गुण गोठy, रंगे राच्या ने वळी माच्या रे; ते किम परसुर आदरे, जे परनारी वश राच्या रे...
तुं गति तुं मति आशरो, तुं आलंबन मुज प्यारो रे; वाचक जश कहे माहरे, तुं जीवजीवन आधारो रे...
Page #18
--------------------------------------------------------------------------
________________
संस्कृतानुवादः
गुरवो रे जिन ! ते गुणाः, श्रीवर्धमानजिनराज ! रे श्रवणं श्रवणसुधाझरं, विमलीस्यान्मम कायः रे
त्वद् गुणगणगङ्गाजले, स्यामहममलः खात्वा रे त्वद् गुणगानेऽनिशं रमे, कृत्यं सकलं हित्वा रे
प्रातः शुचिगङ्गाजले, निविशति कः पल्वलके रे सक्तो यो मालतीसुमे, स नोपविशेद् बब्बुलके रे
तव गुणगोष्ठ्यां हे प्रभो ! संलीनोऽस्म्यहमेवं रे कथमिव परनारीरतं, वन्दै सोऽहं देवं रे
त्वं गतिरथ मतिराश्रय - स्त्वं हृदयालम्बनमेव रे जीवस्त्वं जीवनेशिता, वाचकयशसो देव ! रे
Asans
विजयशीलचन्द्रसूरिः
_...१
२
३
४
५
Page #19
--------------------------------------------------------------------------
________________
श्रीपञ्चसूत्रपद्यानुवादः पञ्चमं प्रव्रज्याफलसूत्रम्
__ अनुवादक: उपाध्यायो भुवनचन्द्र
सिद्धिं समभ्युपगतो विधिना ह्यनेन ब्रह्मत्वमेष लभते वमङ्गलाढ्यम् । क्षीणाशुभो जनिजरामरणादिमुक्तः कर्मानुबन्धकरशक्तिवियुग भवेच्च ॥१॥
प्रोद्भूतशुद्धनिजरूपमयोऽक्रियश्च सांसिद्धिक प्रकृतिसंस्थित एष पूर्णः । ज्ञानं च दर्शनमनन्तमवाप्य सिद्धो लोकोत्तरं कमपि सँल्लभते पदं सः ॥२॥
शब्दो न रुपमपि नो न च गन्ध एषः स्पर्शो न वा न च रसः किल भाव्यतेऽसौ । सत्ता तु केवलमरूपवती प्रसिद्धा संस्थानमित्थमिति न व्यपदिश्यतेऽस्याः ॥३॥
वीर्यं त्वनन्तमपि चाऽत्र न कार्यशेषस्तस्मादिहाऽस्ति परमा कृतकृत्यता हि । बाधा भवन्ति विगताः खलु चात्र सर्वाश्छिन्ना यदत्र सकला बत सत्यपेक्षाः ॥४॥
Page #20
--------------------------------------------------------------------------
________________
सत्ता किलेयमभितः स्तिमिता प्रशान्ता संयोगमुक्त मिति चाऽत्र सुखं प्रकृष्टम् । आनन्द एष परमो विदुषां मतोऽस्ति दुःखस्य मूलमियमेव भवत्यपेक्षा ॥५॥
संयोगमात्रमिह पर्यवसानहेतु संयोगजातमिह यन्न फलं हि तत्स्यात् । यरमादिदं नियमतो विनिपातशीलं मोहादबोधजनता बहु मन्यते तत् ॥६॥
मोहाद्विपर्ययमतिस्तदनु प्रवृत्तिमिथ्येत्यपर्यवसिताश्च ततस्त्वनाः । मोहो ह्ययं भगवता गदितोऽस्ति भावशत्रुः परोऽस्य विगमो हि मता विमुक्तिः ॥७॥
मुक्तस्य नो भवति केन सहाऽपि योगो नास्त्येव तस्य नभसाऽपि हि कोऽपि योगः । नैजं स्वपमधितिष्ठति सिद्धजीव आधार एव नभसोऽपि च नास्ति कश्चित् ॥८॥
सत्तान्तरं न खलु गच्छति सत्पदार्थ एतत्त्वचिन्त्यमति केवलिगम्यतत्त्वम् । एतद्धि निश्चयनयाश्रयणेन गूढतत्त्वावबोधरसिकेन विचारणीयम् ॥९॥
Page #21
--------------------------------------------------------------------------
________________
योगा भवन्ति सकला हि वियोगवन्तः सिद्धस्य नो भवति तन्नभसा वियोगः । तल्लक्षणाननुगमान्न किलैष योगः सिद्धस्य नास्ति नभसोऽपि च काऽप्यपेक्षा ॥१०॥
लोकान्तदेशगमनं सहजस्वभावात् सौख्यस्वभाव इच चाऽयमपि स्वभावः । कर्मक्षये प्रकटितश्च भवेत्स्वभावः । सर्वं समञ्जसमिति प्रकृतं श्रयामः ॥११॥
नैवोपमाऽस्ति किल सिद्धसुखस्य विश्धे तस्य प्रमाणमथ चाऽनुभवः किलैकः । स्यान्नूनमेष बत सिद्धिगतस्य तस्य नाऽन्यस्य चेति नियता स्थितिरत्र बोध्या ॥१२॥
सर्वज्ञभाषितमिदं सकलं स्वरूपं तन्नाऽन्यथा भवितुमर्हति निश्चयेन । तेषां निमित्तमपि नाऽनृतभाषणेऽस्ति नैवानिमित्तमपि संभवतीह कार्यम् ॥१३॥
प्रस्तूयते तदपि सिद्धसुखस्य किञ्चिद्
बोधाय लौकिकनिदर्शनमात्रमेतत् । K यादृक् सुखं सकलशत्रुविनाशतः स्याद्
यादृक् च सर्वविधरोगसमाप्तितः स्यात् ॥१४॥
For Private & Gersonal Use Only
Page #22
--------------------------------------------------------------------------
________________
सर्वार्थलाभसमये च सुखं नु यत् स्यात् सर्वाभिलाषपरिपूर्तिवशाच्च यत् स्यात् । तस्मादनन्तगुणमेव सुखं तु मुक्तौ स्याद् भावशत्रुविलयादिक हेतुभिर्हि ॥१५॥ युग्मम् ॥
भावारयो जगति सन्ति च रागमुख्याः कर्मादयश्च विदिताः किल भावरोगाः । लाभो मतः परमलब्धिगणस्य नूनमिच्छा तु केवलमनिच्छपदस्य चात्र ॥१६॥ .
.
एतत्सुसूक्ष्ममिति सिद्धिसुखं न गम्यं सिद्धेतरेण किल तात्त्विक भावसारम् । न ज्ञायते यतिसुखं गृहिणा यथा वा रुग्णेन वा बत निरामयतासुखं तु ॥१७॥
मोक्षे सुखं किल नितान्तमचिन्त्यरूपमेकं तु सिद्धमनुलक्ष्य च साद्यनन्तम् । किन्तु प्रवाहमनुलक्ष्य भवेदनादि मुक्तौ यतो भगवतां स्थितिरीदृशी हि ॥१८॥
भव्यत्वमस्ति विविधं तु तथाप्रकारं वैविध्यमस्य फलभेदवशात्तु लक्ष्यम् । भेदोऽन्यथा न सहकारिषु संभवेन्नु सापेक्षभाव इह सर्वनियामको यत् ॥१९॥
Page #23
--------------------------------------------------------------------------
________________
तत्त्वार्थबोधविषये श्रयणीय एषोऽनेकान्त एच स तु भवेदिह चैवमेव । भव्यत्वनैकविधताश्रयणेन सिद्धोअनेकान्तवाद इति सुन्दरजैनदृष्टिः ॥२०॥
एकान्त आपतति चेतरथा तु नूनमेकान्ततश्च विघटेत् सकला व्यवस्था । एष त्वनार्हत इति त्यजनीय एव सिद्धिश्च संभवति संसरतो हि जन्तोः ॥२१॥
एकान्ततो न खलु सिध्यति बन्धनं हि मुक्तिश्व बन्धरहितस्य तु शब्दमात्रम् । जीवस्य बन्धनमिदं प्रवहत्यनादिकालादतीतसमयेन च तुल्यमेतत् ॥२२॥
बद्धो न पूर्वमथ तस्य च बन्धनं चेत् वैयर्थ्यमेव फलितं हि ततोऽस्य मुक्तेः । यस्मात् पुनश्च खलु संभवति प्रसङ्गो बन्धस्य चेति मतमेतदसाधु भाव्यम् ॥२३॥
बद्धरय बन्धवियुतस्य न तत्र भेदो बन्धे त्वनादिमति नाऽपि च मुक्त्यभावः । योगो नादिरपि नाशमुपैति नूनं न्यायोऽत्र काञ्चनमृदोर्विनियोजनीयः ॥२४॥
१०
Page #24
--------------------------------------------------------------------------
________________
पूर्वं तु बन्धरहितोऽस्ति ततो दिदृक्षा तस्याश्च बन्धनमिति प्रवदन्ति केचित् । नैवं यतो न घटते खलु साऽप्यदृष्टे स्वाभाविकीति कथने न निवृत्तिरस्याः ॥ २५॥
तस्या निवृत्तिरपि चेत् स्थितिरात्मनोऽपि न स्याद्यतः सहजलक्षणनाश एषः । सांसिद्धिकी भवितुमर्हति सा दिदृक्षा भव्यत्वतुल्यकथनं च न नीतियुक्तम् ॥२६॥
भव्यत्वमस्ति नहि केवलजीवमात्रमेषा स्वभावघटिता बत जीवभूता । नो केवला यत इहाऽस्ति हि भाविकाले संयोग इत्यपि मतं न समञ्जसं स्यात् ॥२७॥
चेत् केवला प्रथमतो न ततस्तु शक्यः केनाऽपि योग इति नो विकृतिप्रसङ्गः । किं वाऽन्ययोगभवनोत्तरतोऽपि तस्याः सत्ता किलाssपतति साहजिकत्वतस्तु ॥२८॥
योगादनन्तरमियं च निवर्तते तत्स्वाभाव्यतः कथनमित्यपि न प्रमाणम् । नव्यः पदार्थ इति शास्त्रविरोधदोषो
दोषः प्रमाणविरहः किल कल्पितायाम् ॥ २९॥
११
Page #25
--------------------------------------------------------------------------
________________
योगो वियोग इतरेण य आत्मनः स्यात् तेनैव तस्य तु भवेत् परिणामभेदः । हेतुर्हि बन्धनविमुक्ति गते तु भेदे सिद्धः सुसंगततया परिणामभेद: ॥३०॥
एतच्च सर्वनयशुद्धतया विशुद्धानाऽऽरोपमुख्यनयमुख्यतया विबोध्यम् । द्रव्यास्तिकं समधिकृत्य गतोऽधिकार: पर्यायदृष्टिमधिकृत्य तु कथ्यतेऽथ ॥३१॥
कमैव कारणमलं भवमोक्षभेदे नैवात्मभूतमथ नाऽपि च कल्पितं तत् । यद्यात्मभूतमथ कल्पितमेव तत्स्यान्मोक्षे भवे च न भवेत् किल कोऽपि भेदः ॥३२॥
विध्यातदीप इव सन्ततिभङ्गरूपो मोक्षोऽपि नो भवति सङ्गतिभाग विचारे । सदस्तुनोऽपि विलयोऽभिमतो मतेऽरिम्नुत्पाद एवमसतोऽपि भवेत् सुमात्यः ॥३३॥
एतन्मते पुनरपि प्रभवो भवस्य न स्यात् समञ्जसमिदं विदुषां हि दृष्टौ । नानादिता च घटतेऽत्र मते भवस्य नो कार्यकारणनिबन्धकृता व्यवस्था ॥३४॥
१२
Page #26
--------------------------------------------------------------------------
________________
तादृश्वभावपरिकल्पनमप्ययुक्तमन्त्यक्षणस्य हि निरन्वयता निवृत्तेः । नष्टे च वस्तुनि कथं भवतु स्वभाव ? आद्य क्षणस्य विषयेऽपि विचिन्त्यमेतत् ॥३५॥
युक्तं भवेदिदमपि क्षणसात्वयत्वे न स्वीकृतं परमिदं क्षणवादपक्षे । मुक्ते: स्वरूपमिति सिध्यति नाऽत्र पक्षे सूक्ष्मोऽयमर्थ इति सूक्ष्मधिया विभाव्यः ॥३६॥
एवं ह्यपर्यवसितं सुखमत्र मोक्षे श्रेष्ठं किलैतदत एव सुखं प्रसिद्धम् । औत्सुक्यमत्र न समस्ति तु लेशमात्रं सौख्यं त्वनन्तमिति नास्ति तुलाऽस्य लोके ॥३७॥
लोकाग्रसंस्थितविशुद्धतरप्रदेशे सिद्धा वसन्ति वरसिद्धशिलाख्यभूमौ । एकोऽस्ति यत्र खलु तत्र गता अनन्तास्तिष्ठन्ति शाश्वततयोज्झितकर्मणस्ते ॥३८॥
निष्कर्मणामपि गतिः पुनरुर्ध्वमेव पूर्वप्रयोगवशतो भवतीति बोध्यम् । अन्तर्जलं पतति लेपयुता एलाबुलेपव्यये सहजमूर्ध्वमसौ यथेयात् ॥३९॥
१३
Page #27
--------------------------------------------------------------------------
________________
ऊर्ध्वं ततोऽपि नहि याति च सिद्धजीवो नाऽधो गतागतमसौ कुरुते पुनश्च । ईदृक्रवभावनियमोऽपि भवेदलाबुदृष्टान्ततो विशद इत्यवधारणीयम् ॥४०॥
एषा गतिर्निगदिता परमस्पृशन्ती वेगप्रकर्षवशतस्तुलनातिगा च । भव्यात्मनां जगति नाऽपि च शङ्कनीया व्युच्छिन्नतैवमिह यत् तदनन्तसंख्या ॥४१॥
प्रमादनन्तगुणितेऽयमनन्तसंख्या यस्या निदर्शनमलं समयावली स्यात् । भव्यत्वमप्यमुकजीवगतं नु शक्तिमात्रं यतो न परिपाकमिदं प्रयाति ॥४२॥
काष्ठं यथोचितमपि प्रतिमाविधानसंस्कारमेव लभते न कदापि किञ्चित् । जीवेषु केचिदिह सन्ति तथा प्रकारा बोध्यं किलैतदिह सद्व्यवहारदृष्ट्या ॥४३॥
तत्त्वाङ्गमेव च नयो व्यवहार एषः शुद्धिं प्रवृत्तिविषयां यदसौ विधत्ते । संपादयेदिति स निश्चयसाधनं चाऽनेकान्तसिद्धिरनयैव भवेत्सुनीत्या ॥४४॥
१४
Page #28
--------------------------------------------------------------------------
________________
एषोऽस्तु केवलमलं परिशुद्धरूप आज्ञा त्वियं भगवतस्तु समन्तभद्रा । गम्या कषादिनिक्षोत्तरणात् त्रिकोटिशुद्ध्या रं पुनबन्धकमुख्यसत्त्वैः ॥४५॥
आज्ञाप्रियत्वमुदितं किल लिङ्गमेषां तस्याऽपि लिङ्गमखिलाऽप्युचिता प्रवृत्तिः । यत्रौचितीरहितता न तदा प्रिया सा संवेगसाधकमिदं नियमात् प्रियत्वम् ॥४६॥
देया न चेयमितराय यथोक्तलिङ्ग - व्यत्यासतोऽस्य च भवेत् सुगमा परिज्ञा । एषोऽप्रदाननियमस्तदनुग्रहाय न्यासो जलस्य हितकृन्न यथाऽऽमकुम्भे ॥४७॥
एषोच्यते हि करुणा नितरां विशुद्धा युक्ताऽविराधनफलाऽऽयतिसौख्यदात्री । त्रैलोक्यनाथबहुमानविशेषभावानिःश्रेयसप्रवरमङ्गलसाधयित्री ॥४८॥
श्रीमबृहत्तपगणेऽहिपुरीयपक्षे श्रीपार्श्वचन्द्रमुनिनायकसत्कवंशे । संविज़मुख्यमुनिराट्कुशलाद्यचन्द्रशिष्यो बभूव मुनिसत्तम दीपचन्दः ॥४९॥
-
१५
Page #29
--------------------------------------------------------------------------
________________
श्रीप्रीतिचन्द्र इति तस्य हि शिष्यवर्यस्तच्छिष्यलेशभुवनादिमचन्द्रनामा । सत्पाठकेतिपदयुक् किल पञ्चसूत्रं शास्त्रं महाशयमनूदितवान् समोदम् ॥५०॥
प्रद्युम्नसूरिरतिसौहृदभाक् च शीलचन्द्रेतिसूरिरिह भूरिगुणः प्रसिद्धः । श्रीमत्तपागणविभूषणतां दधानौ सूरी इमाविह सहायकतां व्यधाताम् ॥५१॥
श्रीपञ्चसूत्रक मिति प्रथिताभिधानं सत्प्राकृतं प्रवरशास्त्रमगाधभावम् । यत्कथ्यते खलु चिन्तनसूरिदृब्धं यदासते च गुणतो बत हारिभद्रम् ॥५२॥
वर्षेऽक्षिकायवियदक्षिमिते(२०६२)ऽनुवादो ध्रांगद्धरापुरि कृतोऽस्य सतां प्रियः स्तात् । यत्किञ्चिदत्र सुकृतं समुपार्जितं स्यात् तेनाऽस्तु मे सुविशदः सुकृतानुबन्धः ॥५३॥
जैनमंदिर नानी खाखर - ३७०४३५ जि. कच्छ, गुजरात
| धर्मश्चेन्नाऽवसीदेत, कपालेनाऽपि जीवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥
Page #30
--------------------------------------------------------------------------
________________
सदगुरुस्तबनम्
प्रा.डो.वासुदेव वि. पाठकः वागर्थः' सद्गुरोराशिषा विद्या सारस्वतफलात्मिका । नयानयविवेकार्थं हितमाप्तुं समन्ततः
શો
गुरवः करुणापूर्णाः साक्षादौदार्यमूर्तयः । स्वयं सिद्धाः प्रकुर्वन्ति सिद्धानन्यानहो वरान्
રો.
अल्पात्यल्पेन सन्तुष्टा गुरवस्सत्यसाधकाः । इत्येवाऽस्मत्परं भाग्यं भारते सिद्धिदायकम्
જી
शिष्यस्योत्साहमाकाङ्क्षां सम्यग् ज्ञात्वा परीक्ष्य च । यथा यदा च यावच्च तावद्यच्छति सदगुरुः कृत्वा सम्यग निदानं हि औषधं दीयते यथा । तथैव गुरवो ज्ञानं यच्छन्त्येव यथोचितम्
કો
यथैव पितरौ पुत्रं प्रीत्या पालयतस्सुखम् । सद्गुरुश्च तथा शिष्यान् ज्ञानेन पालयत्यहो
૬ો
यद्यद्गुरुवरैलब्धं गुरोश्चरणसेवया । तत् सर्वं निजशिष्येभ्यो दातुमुत्सुकता पर ‘स्वगुरोरेव मार्गेण स्वयं तरति सद्गुरुः । तारयत्येव शिष्यांश्च भद्रभावैः स्तुतो गुरुः
૮
१७
Page #31
--------------------------------------------------------------------------
________________
मूर्तिर्यस्सर्वदेवानां सर्वदेवमयश्च यः । प्रत्यक्षं तं परं देवं सद्गुरुं प्रणमाम्यहम्
॥९॥
गुरुर्बोधमयो नूनं चन्द्रवच्छीतलः परः । अमृतं विकिरत्येव सर्वेषां जीवनप्रदम्
૧૦
कृष्णो वा शं-करो वाऽस्तु व्यासो वा याज्ञवल्क्यकः । यस्मिन्करिमन्नपि क्षेत्रे ममाऽस्त्येव जगद्गुरुः
विचारे मे सदाचारे स्यात्कृपा सद्गुरोर्वरा । आशीर्वादाश्च प्रार्थ्यन्ते यथाऽध्यात्मसुखं भवेत्
कथं प्रत्युपकारस्स्यात् सत्प्रसादस्य सद्गुरोः । इत्यस्य निर्णये मन्दो नमाम्येव गुरोः पदम्
રૂ
वन्दना गुरुवर्यस्य पाठकेन कृता वा । इहाऽमुत्र सुखं दत्त्वा परं च साधयिष्यति
૩૪ો
३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५
Page #32
--------------------------------------------------------------------------
________________
उत्कर्षसाधनषट्कम् ।।
प्रा. डॉ. वासुदेव वि. पाठकः 'वागर्थः '
परमात्मनि सम्पूर्णा निष्ठा, दार्यं तथाऽऽत्मनि । विचारे पूर्णता चैव सन्तोषो मनसि स्मृतः ॥१॥
बुद्धौ दिव्यत्वमक्षुण्णं संस्कारे श्रेष्ठता तथा । दृष्टौ पवित्रता पुण्या वाण्यां मधुरता वरा ॥२॥ प्रावीण्यं सर्वकार्येषु सेवायां नम्रता शुभा । व्यवहारे च सारल्यं सेहे चैवाऽतिशुद्धता ॥३॥ आहारे सात्त्विकत्वं च जीवने सत्यता पुनः । व्यक्तित्वे च महत्तैव स्वापे निश्चिन्तता परा ॥४॥
ईश्वरीयाश्च दिव्याश्व चरदानस्वरूपतः । गुणासिद्धाधिकार सन्त्यस्मासु स्वभावतः ॥५॥ स्मर्तव्यं नित्यशस्सर्वैः गुणा उत्कर्षसाधनम् । शिवस्य कृपया पुण्यं शिवत्वं सहजं सदा ॥६॥
१९
Page #33
--------------------------------------------------------------------------
________________
भारतमातृवन्दनम्
डो. आचार्यरामकिशोरमिश्रः पूज्यां नमामि भुवि भारतमातरं ताम् ।
रत्नप्रदा भगवती वसुधा प्रिया या, सर्वसहा सुरसदा सुतदा सुतादा । धान्यप्रदा फलवती कविवर्यवन्द्या,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥१॥
(२) केचित्सुता इह महापुरुषाश्च यस्या, भक्ताश्च केचन महाकवयः कवीन्द्राः । भूपाश्च सन्ति हि महाबलिनश्च केचित्,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥२॥
पुत्रो बभूव तव दाशरथिः स रामो,
लङ्कापतिः स निहतः स्वशरैर्हि येन । __ भूत्वाऽत्र कोसलसुता किल या त्वसूत,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥३॥
कीर्तिश्च यस्य निखिले प्रसूताऽस्ति लोके, रामायणं रचितवान् स महाकविर्हि । वाल्मीकिररित स सुतः प्रथितोऽस्ति यस्याः,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥४॥
-
२०
Page #34
--------------------------------------------------------------------------
________________
कृष्णोऽप्यभूत्सुतवरः स च योगिराजः, कंसो हि येन निहतो निजमातुलः सः । यस्याऽभवत्प्रसविनी त्विह देवकी या,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥५॥
द्वैपायनो जगति नाम च यस्य कृष्णः, व्यासो महर्षिरभवद्धि महाकविः सः । यो भारतं रचितवान् स सुतोऽस्तिं यस्याः,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥६॥
पुत्रौ च तावभवतां प्रथितौ हि यस्याः, यौ बौद्धधर्ममिह जैनमतं त्वकार्टाम् । बुद्धो जिनश्च कथितौ सुखशान्तिदौ तौ,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥७॥
(८)
सम्राडशोक इह वीरनृपः प्रतापः, चाणक्य आदिनयवित् कविकालिदासः । वीराश्च कर्मठजनास्तनया हि यस्याः,
पूज्यां नमामि भुवि भारतमातरं ताम् ॥८॥
२९५/१४, पट्टीरामपुरम् खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेशः
२१
Page #35
--------------------------------------------------------------------------
________________
NAA
प्रा. अभिराजराजेन्द्रमिश्रः
રૂ
.
(१) रामायणम् !! राष्ट्रसौधे स्फुरन्मञ्जुवातायनम् भाति बन्धो ! न किं रम्यरामायणम् ॥१॥ उत्तमादर्शबिम्बोच्वयं संसृजत् भूतलेऽद्याऽपि भाऽऽभाति रामायणम् ॥२॥ वर्णयज्जीवनं कर्मणां सम्प्लवैः ग्रन्थिमुद्धाटयत्याशु रामायणम् जानकीलोचनाश्रूच्चयैः क्षालितम् शारदादर्पणं भाति रामायणम् જો राघवीयामहो पौटपाकी शुचम् | प्राज्ञतुष्ट्यै समाख्याति रामायणम् ॥५॥ लक्षयल्लोकसम्बन्धमूर्ध्वक्रमैः संहिता भाति वृत्तस्य रामायणम् ॥६॥ यत्र शोकः स्वयं श्लोकतामागतः आदिकाव्यं तदेकं हि रामायणम् विश्वभूगोलमाश्लेषपाशे दधद् विश्वसाहित्यमूलं नु रामायणम् ૮
॥७॥
२२
Page #36
--------------------------------------------------------------------------
________________
(२) यत्र काकोदराश्चन्दने चन्दने !!
॥१॥
રો
રો
જો
निर्भयं सम्प्रविष्टाः क एते वने ? यत्र काकोदराश्चन्दने-चन्दने कण्वपुत्र्या उदन्तं स्मरन्तश्शुचा सन्दिहन्त्येणकाः स्पन्दने-स्पन्दने रेभमानाः खरास्ताडनीया न भोः तत्प्रियावाहनं क्रन्दने-क्रन्दने । मामवष्टभ्य गाढं तया सीत्कृतम् मुक्तिसौख्यं बभौ कम्पने-कम्पने इन्द्रजालं सृजत्यद्भुतं दर्पकः षोडशीनामहो लोचने-लोचने शैलकल्पोऽपि दर्पो न किं भङगुर: ? पश्य, तत्सैन्धवे रिङ्गणे-रिङ्गणे को तु भेदो भवद्भिः समुत्प्रेक्षितः बुक्कने-गर्जने-गुञ्जने-कूजने ?? शीलभङ्गोद्यमे सीतया नो हतः जायते मे ततश्चाऽऽदरो रावणे नैव गावो न गोप्यो न वंशीरवः किन्नु पश्येज्जनो हन्त वृन्दावने ??
॥६॥
॥९॥
(पूर्वकुलपतिः)
सचिवः उत्तराञ्चल-संस्कृत-विश्वविद्यालयः
हरिद्वार
२३
Page #37
--------------------------------------------------------------------------
________________
नवरत्नसमर्चाशतकम्
समाजे नवरत्नानि विराजन्ते पदे पदे । प्रत्यभिज्ञानमेतेषां कार्यं कल्याणशंसिना
तस्मान्मयाऽभिराजेन त्रिवेणीकविना मुदा । 'लोककल्याणकामेन काव्यमेतत्प्रणीयते
ममाऽपि जीवनं दिष्ट्या नवरलैर्विमण्डितम् । आसीच्चिरं ततश्चैव विश्वस्तोsनुभवो मम
अनुभूतस्तूपदेशो भवत्येव हितावहः । परीक्षितं हि भिषजा कुरोगघ्नमिवौषधम्
श्रूयन्तां प्रथमं तावत्तन्नामानि सुहृद्वरैः । पश्चागुणानुवादोऽपि श्रोष्यते कविना कृतः
आद्यं रत्नं कृतघ्नोऽसौ द्वितीयं निन्दको जनः । विश्वासघ्नस्तृतीयं तत्तुर्यं रलमसत्यवाक्
प्रवञ्चकस्ततः षष्ठं रलं पाखण्डजीवनः । सप्तमञ्चाऽप्यसहिष्णुः स्वार्थान्धो रलमष्टमम्
रत्नं विकत्थनो नूनं नवरलस्रगन्तिमम् । क्रमेणैव तदेतेषां सच्चरितं प्रकाश्यते.
तत्राऽपि सर्वप्रथमं ब्रह्मणोऽपि महत्तरम् । नृजातिदीप्तमाणिक्यं कृतघ्नं प्रणमाम्यहम्
शैवलोषरमेघौघधूमझञ्झानिलाऽनुजम् । वन्दे कृतघ्नसंज्ञं तं ब्रह्महत्याकुटुम्बिनम्
प्रा. अभिराजराजेन्द्रमिश्रः
२४
n
રા
ક
"
કા
દા
mn
૫]
usu
ોનો
Page #38
--------------------------------------------------------------------------
________________
॥११॥
विधात्रा पञ्चतत्त्वेषु विभक्तमपि यततः । विश्वरूपवधाज्जातं महापापं भयङ्करम् प्रक्षुण्णं किञ्चिदंशेन परिगच्छत् पुरन्दरम् । यदा तं कर्तुमारेभे निष्प्रभं निर्जिजीविषम्
૧૬૨
तदा त्रैलोक्यमाशक्य सङ्कटापन्नमाकुलम् । विरची रचयामास षष्ठमेकं महौषधम्
ब्रह्महत्योद्भवं पापं पुरुहूतस्य येन तत् । अवशिष्टमपि क्षुण्णं विषेणेव महाव्रणः उच्चैः सम्बोधयामास तदेन्द्रं चतुराननः । सुखं स्वपिहि मा भैषीनिर्भयस्तात ! साम्प्रतम् ॥१५॥
ब्रह्महत्योद्गतं पापं विभक्तं पञ्चघा पुरा । विभक्तं साम्प्रतं षोढा येनाऽशेषं बभूव तत्
॥१६॥
मर्येष्वपि महत्पापं वितीर्णं तन्मया यतः । ततोऽग्रे सम्भविष्यन्ति कृतघ्नाख्याः पदे-पदे
॥१७॥
हनिष्यन्ति कृतान्येते हन्त दारुणविक्रमाः । यस्यां स्थाल्यामशिष्यन्ति तां विधास्यन्ति जर्जराम् ॥१८॥ करकासन्निभा एते पतन्तोऽकारणं खलाः । शिरांस्याहत्य लोकानां गलिष्यन्ति स्वयम्पुनः ॥१९॥ आत्मधर्मो वंशधर्मो जातिधर्मो न कश्चन । समाजराष्ट्रधर्मो वा भद्र ! तेषां भविष्यति ॥२०॥ लप्स्यन्ते व जनि चैते वेद्मि नाऽहमपि ध्रुवम् । विष्ठाकीटा इव क्वाऽपि कृमयो वा निषद्वरे ॥२१॥
Page #39
--------------------------------------------------------------------------
________________
द्रक्ष्यन्ते मर्त्यलोके वै क्वचित् ते भृत्यविग्रहाः । पुत्रमित्रकलत्रादिसम्बन्धैर्वा निजाश्रिताः भ्रातृजभागिनेयौ वा मातृपितृसहोदराः । क्वचिदेते भविष्यन्ति विश्वस्ताः प्रतिवेशिनः ॥२३॥ जलौका रक्तशोषीव पास्यन्त्येते हि शोणितम् । उदरम्भरि पीत्वा च स्वयं मोक्ष्यन्ति संश्रयम् ॥२४॥ स्वार्थसिद्ध्यै परा प्रीतिः स्वार्थसिद्ध्यै प्रशंसनम् । स्वार्थसिद्ध्यै परा सेवा स्वार्थसिद्ध्यै समर्पणम् ॥२५॥ मानसं वाचिकं चैषां कायिकं वा प्रयोजनम् । प्रवर्तते जगद्रङ्गे स्वार्थसिद्ध्यै हि केवलम् રદ્દો किमप्याचरणं भद्र ! मुक्त्वाऽतिक्रम्य वा पुनः । निसर्ग लोकमर्यादां कर्तुमेते समुत्सुकाः
ર૬ો स्वार्थ सिद्धे परन्त्वेते कूकलाससहोदराः । वर्णन परिवर्तन्ते प्रत्यभिज्ञातुमक्षमाः
(૨૮) इमे ज्ञातरहोवृत्ताः स्वाश्रयं हि यशस्विनम् । अयशस्करकौलीनैराविलयन्ति निस्त्रपाः
पारिजातमपि स्वीयैः साक्ष्यैः कृत्वा मुहीतरुम् । तोषयन्ति खला एते हृदिस्थं पिशिताशनम्
॥३०॥
रावणादपि बीभत्सा लोभमायासमाकुलाः । कृतघ्नास्ते प्रतीयन्ते सर्वथाऽचिन्त्यविक्रमाः
॥३१॥
तानहं प्रत्ययैर्वेद्मि मन्निर्मितिविलक्षणान् । येभ्यः कर्मविपाकोऽपि बिभेत्येव न संशयः
રૂરી
२६
Page #40
--------------------------------------------------------------------------
________________
प्रायश्चित्तं नु शास्त्राणि दिशन्त्येव यथाविधि । भ्रूणगोगोत्रविश्वस्तब्रह्महत्यादिकर्मणाम्
રરો प्रायश्चित्तं न तान्याहुः कार्तघ्यस्य तथाऽप्यहो । करमात्कुतः किमर्थं वा विस्मयो जायते महान् ॥३४॥ तत्कि कृतघ्नता पुण्यं लोकधर्मोऽथवा मतः । पृथग् वा पापपुण्याभ्यां महत्तत्त्वान्तरं पुनः ॥३५॥ अहो कियान्महान् भेदः स्वीकारे च निषेधने । सत्यस्येति कृतजेन कृतघ्नेन च वेद्यते
રૂદ્દી वाडवाग्निरिवाऽम्भोधिसलिलं नित्यमाश्रयम् । स्वाश्रयं हन्ति निर्लज्जः कृतघ्नो विविधायुधैः ॥३७॥
तत्र विश्वासघातोऽसावायुधं प्रथमं मतम् । द्वितीयं चाऽपि कौलीनं तृतीयं चरितक्षयः
રૂટો
રૂષો
॥४०॥
चतुर्थमायुधं चाऽपि करालं दुस्सहं पम् । अन्यथाप्रथनं नित्यं वचसा कर्मणाऽपि च सगरे हि यथा योद्धाऽशस्त्रपाणिरथाऽक्षमः । लीलयैव सपनेन हन्यते हि जिघांसुना तथा विश्वासघातादिशस्त्रसज्जेन भीरुणा । कृतजेनाऽप्यनायासं हन्यते सज्जनोऽनघः कलाविलासकारेण क्षेमेन्द्रेण समीक्षिताः । बहवो यद्यपि श्रेष्ठाः समाजधोरणीधराः कृतघ्नास्तु तथाऽप्येते कविवर्येण विस्मृताः । नैतेषां बृहती चर्चा यतस्तेन प्रकाशिता
॥४१॥
કરો
॥४३॥
२७
Page #41
--------------------------------------------------------------------------
________________
कृतघ्ना अथवा तेन सगन्धेष्चितरेषु वा । अन्तर्भाविताः शनकैः पापचर्चाऽपहारिणा ॥४४॥ इयत्या चर्चयाऽलं स्याद् धृतकार्तघ्यसम्पदा । सोपानान्तरमारोढुं यतोऽहमभिलाषुकः ॥४५॥ द्वितीयो हि समाजस्य रनभूतोऽस्ति निन्दकः । येन निन्दारसैरेव धार्यते किल जीवनम् ॥४६॥ वस्तुतस्त्वग्निगर्भोऽयं प्रज्वाल्यैव हि शाम्यति । यं यं यां यां च यद्यच्च स्पृशत्येव हि केवलम् ॥४७॥
निन्दारूपाग्निना युक्तः प्राण्ययं विवशीभवन् । अनिच्छन्नपि हा हन्त दहन्नेव प्रवर्तते
૪૮
प्रवर्त्यन्ते यथा जीवाः सर्व एव महीतले । हृदिस्थेन निसर्गेण दत्तेनैव विरचिना
૪૬
तथैवैष वराकोऽपि विधिशप्तोऽथवा जनः ।। हन्त निन्दानिसर्गत्वान्निन्दयैवेह जीवति ॥५०॥ निन्दयैव तृषा शाम्येत् क्षुधा चाऽप्यस्य शातिनी । निन्दयाऽध्वश्रमः शाम्येत् स्वापो लभ्येत निन्दया ॥५१॥ निन्दयैव शुभा रात्रिः प्रभातं निन्दया शुभम् । निन्दयैव भवेद्रम्यं जीवस्याऽस्य प्रतिक्षणम् ॥५२॥ भोजितोऽयं जनो नित्यं क्षीरभक्तैरपि ध्रुवम् । विनिर्गत्य भवद्गहाद् भवन्तं निन्दति द्रुतम् ॥५३॥
दुर्लालितोऽपि सद्वाक्यैः सान्त्वितोऽपि मुहुर्मुहुः । सम्मानितोऽपि नीचोऽयं निन्दिष्यति हि केवलम् ॥५४॥
२८
Page #42
--------------------------------------------------------------------------
________________
॥५५॥
॥६॥
છો
॥५८॥
ख्यापयिष्यति निस्स्वादं भोजनं ननु नीरसम् । भणिष्यति भवद्दानं स्वार्थसिद्धिपुरस्सृतम् आत्मानं बलिनं प्रोच्य विद्याबुद्धिविशारदम् । भवन्तं वक्ष्यति स्वैरं भीतभीतं निजाश्रितम् सर्वोपापमहादक्षं प्रोच्याऽऽत्मानं जनेष्वयम् । सर्वथा निरुपायं वै भवन्तं रूपयिष्यति सहस्रधारतां याता निन्दाऽस्य वशवर्तिनी । उपकुरुते साटोपं तन्नु मायेव मायिनम् विश्वासघातिनं वन्दे ततो रनं तृतीयकम् । यो हि मृत्युमुखे मित्रं क्षिपत्यात्मोत्थमायया विश्वासेन भवेद् बन्धुर्विश्वासेन सहोदरः । अज्ञातकुलशीलोऽपि विश्वासेनैव सख्यभाक् विश्वासेन भवेद् दानं विपत्साहाय्यमेव च । विश्वासेनैव सर्वोऽपि व्यवहारः प्रवर्तते अबन्धुर्जायते बन्धुर्वयस्योऽप्यवयस्यकः । विश्वासोपगमादेव सर्वस्वं जायते जनः तादृशं हन्त विश्वासं समाजजीवनामृतम् । घातयित्वाऽपि जीवन्ति केचिन्नूपशवो भुवि
॥९॥
૬૦નો
દશી
દુરી
॥३॥
विश्वासहत्यया नष्टो जनो नष्टा च संस्कृतिः । सुस्थिराण्यपि राज्यानि नष्टानीति श्रुतम्मया
॥४॥
किन्न विश्वासघातिन्या कैकय्या स्वधवो हतः । पुष्रेण नलो राजा स्वानुजेनैव वञ्चितः
॥६५॥
Page #43
--------------------------------------------------------------------------
________________
हन्त झाँसीश्वरीदुर्गे प्रवेष्टुं गोपितां सृतिम् । कश्चिद् विश्वासघात्येव गौराङ्गेभ्यो न्यवेदयत् ॥६६॥ तेन झाँसीश्वरी नष्टा नष्टं राज्यञ्च सुस्थिरम् । वैदिकी संस्कृतिर्नष्टा कीर्तिश्चापि कलङ्किता ॥६७॥ विश्वासघातिनैवाऽसावाजादश्चन्द्रशेखरः । विश्राम्यन् कम्पनीबागे ग्राहितोऽङग्रेजरक्षिभिः ॥८॥ सेयं विश्वासघातानां दीर्घा काऽपि प्रम्परा । प्राक्तनैतिापर्णेषु लभ्यते लोमहर्षिणी ॥९॥ यो हि यस्मिन् विश्वसिति तदेकात्मा स जायते । एवं विश्वास एवैक उभयोस्तुल्यजीवनम् ॥७०॥ तमेव हन्ति विश्वासं यो विश्वस्तकृतं खलु । परमार्थतस्स तत्प्राणानुच्छित्ति नु निर्दयम् ॥१॥
एवं विश्वासहन्ताऽसौ नृशंसवधिको मतः । हत्वा विश्वस्तविश्वासं हन्ति यस्तस्य जीवितम्
॥७२॥
विश्वासघातिनो लुब्धा भवन्तीति निदर्शनैः । प्राक्त नैर्जायते सम्यक् लोभः पापस्य कारणम्
॥७३॥
द्रव्यं पदं प्रतिष्ठाञ्च राज्यं वाञ्छन्ति लोभिनः । अकृत्वाऽल्पमपि स्वीयं श्रम, कृत्वा च किल्बिषम् ॥७४॥
विश्वासघातपापेन सर्वमेतद्यदृच्छया । लभ्यमेकपदञ्चैव ततस्तत्सुकरं भवेत्
॥७५॥
भवन्त्येते प्रकृत्यैव कदर्या हतपौरुषाः । क्षेत्रपूरुषवन्मिथ्या विश्वासघना बृहन्नलाः
૭૬ો
३०
Page #44
--------------------------------------------------------------------------
________________
शौर्यविक्रमसन्मार्गैरुदेतुं सर्वथाऽक्षमाः । नीचा एते विनिघ्नन्ति विश्वासं प्राणसंश्रयम्
निजोपकारिणं हत्वाऽपकारेणैव दुर्जनाः । सर्वं सांसारिकं सौख्यं प्राप्तुमिच्छन्ति लीलया
आजीवनं दहन्त्येते किन्तु पापाग्निसञ्चये । यो न निर्वाप्यते हन्त तेषां नेत्रद्वयाश्रुभिः
को नु जानाति तत्पीडां चैतन्यपरितापिनीम् । ऋते सरस्वतीपुत्रात् क्रान्तदृष्टिकवीश्वरात्
जीवन्तोऽपि मृता एते जनमध्येऽतिगर्हिताः । मुखं निगूह्य जीवन्ति बिलस्थाः पन्नगा इव
गुणानुक्रमदृष्ट्यातु चतुर्थोऽनृतभाषकः । योऽपहाय शुभं मार्गं वृणीतेऽशुभपद्धतिम्
अनवाप्तसुसंस्कारा हीनवंशसमुद्भवाः । कविकोविदधर्मात्मगुरुसंसर्गवञ्चिताः
सत्यतत्त्वमजानन्तो विद्याधिगमवर्जिताः । प्रायेण भुवि दृश्यन्ते जना अनृतभाषिणः
द्विविधाः परिलक्ष्यन्ते नो तृतीयप्रकारकाः । अज्ञा विज्ञाश्व त एतेऽसत्यभाषणजीविनः
. सत्यासत्यविवेकेषु येऽसमर्था निसर्गतः । - उभयञ्च समीकृत्य व्यवहारं प्रकुर्वते
सन्ति निश्चप्रचं ते वै अज्ञा अनृतभाषिणः । पशुपक्षिनिर्विशेषा अतो विघ्नितचेतनाः
३१
॥७७॥
॥७८॥
॥७९॥
વોટનો
ગી
દો
કો
ોકો
દી
॥८७॥
Page #45
--------------------------------------------------------------------------
________________
तेषां कृते किमुच्येत हीनसत्त्वाः स्वयं नु ते । प्राग्दुष्कर्माणि भुआनाः पशुभ्यो नाऽधिकास्तु ते ॥८॥ विज्ञप्रकारकाः किन्तु समाजेऽनृतभाषिणः । सन्ति सृष्टिकलङ्कास्ते छलच्छद्मसु पारगाः ॥९॥ असत्यं तेऽभिभाषन्ते स्वार्थसिद्ध्यै हि केवलम् । शाठ्यकैतवधौर्यादिविद्याशाखासु शिक्षिताः ॥१०॥ . रज्जुर्यथा सृजत्येव प्रदोषे भुजगभ्रमम् । तथैषामनृतञ्चाऽपि स्वस्मिन्सूते ऋतभ्रमम् s संरक्षेदनृतं कामं प्रयोक्तारं श्रितभ्रमम् । ज्ञानसूर्योदये जाते किन्तु तद्वै प्रलीयते sરી यथा ज्ञानोदये जाते रज्जू रज्जुन चोरगः ।। तथा सत्योदये जातेऽसत्यमेवाऽवशिष्यते असत्यभाषणेनैव साधयितुं य इच्छति । सापवर्ग त्रिवर्ग स जले सौधं चिकीर्षति ॥४॥ अनृतं भाषितुं दक्षो भवत्येव प्रवञ्चकः । उभयोरविनाभावः स्वयंसिद्धश्चिरन्तनः । Resો
॥१३॥
साध्यं प्रवञ्चनं नाम न्यायशास्त्रदृशा यदि । असत्यभाषणं तस्य साधनं भवति ध्रुवम्
॥६॥
आदौ विश्वासमुत्पाद्य ततः संस्थाप्य सौहृदम् । अन्ते प्रवञ्चयन्त्येव सज्जनान् श्वजनाः खलु
॥१७॥
आत्महीनस्स मन्तव्यो वञ्चकः पुरुषाधमः । पशुभ्योऽपि गतं वीतं जीवनं यो हि जीवति
॥८॥
३२ For Private Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
छद्मना वञ्चयित्वा यस्सुजनं गर्वमुद्हेत् । धिक् तं तालद्रुवत्प्रांशुं हतस्वादं बृहत्फलम् ॥९॥ मातृष्वसेयः कोऽप्यन्यो वञ्चकस्य प्रतीयते । समाजे यो हि पाखण्डी सनिकारं समुच्यते ॥१००॥ पापं हाखण्डितं यस्य पाखण्डी स भवेत्किल । अनया शब्दव्युत्पत्त्या गूढार्थोऽस्य प्रकाश्यते ॥१०१॥ ज्ञानं योऽभिनयेद वाग्भिस्सत्त्वैः पटादिभिः । तत्त्वशून्यस्स दुर्वृत्तः पाखण्डीति समुच्यते ॥१०२॥ ज्यौतिषज्ञानशून्योऽपि दैवज्ञीभूय संसदि । प्रतिष्ठां महती स्वीयैः फलितैर्लभते क्वचित् ॥१०३॥
पाखण्डेन क्वचित्पाज्ञो मान्त्रिकस्ताविकोऽथवा । सिद्धदेवकृपश्चाऽयं जायते मूढसंसदि ॥१०४॥ रहस्यं यावदुद्भिद्यात्तावत्सर्वान् प्रवञ्च्य सः । कौबेरीं श्रियमादाय प्रयाति शशशृङ्गताम् ॥१०५॥ अस्याऽभिनयसम्मूढा लोकाश्चित्रार्पिता इव । वशेऽस्य ननु तिष्ठन्ति मोहिताश्च हतप्रभाः ॥१०६॥ धर्मेऽथ राजनीतौ च शिक्षायां न्यायसंसदि । पाखण्डिनां न कुत्राऽस्ति साम्राज्यमकुतोभयम् ? ॥१०७॥ असहिष्णुस्ततो रलमन्यदेवाऽस्ति भूतले । अहर्निशं ज्वलत्येव निस्तृणो यो निरिन्धनः ॥१०॥ परेषां सद्गुणोत्कर्ष सोढुमेवाऽयमक्षमः । सामञ्जस्यं निजं त्यक्त्वाऽसहिष्णुः खलु जायते ॥१०९॥
Page #47
--------------------------------------------------------------------------
________________
सत्त्वमूलं भवेद्धैर्यं धैर्यमूला सहिष्णुता । वञ्चिताः सत्त्वधैर्याभ्यां भवन्त्येवाऽसहिष्णवः ॥११०॥ यथा समस्तरोगाणामुदरं चैव कारणम् । तथैव सर्वपापानां मूलमेषाऽसहिष्णुता ॥१११॥ पाखण्डी वञ्चको धूर्ताऽनृतभाषी च निन्दकः । स्वार्थी विश्वासघाती चाऽसहिष्णुरेव जायते ॥११२॥ क्वथिताम्भसि कासारे यथा शक्ता न जीवितुम् । भेककच्छपपाठीना हंसकारण्डवादयः
૩૨૩ો
तथैवाऽमर्षसप्तार्चिरसन्दीप्ते हृदये नृणाम् । क्व दया ममता प्रीतिः क्च धर्मः क्व शमोऽथवा॥११४॥ जीवन्नपि ततश्चाऽयं मृत्युकष्टं प्रतिक्षणम् । आत्मशप्तस्सहत्येव हतभाग्यो वृथा नर: ॥११५॥
समेषामेव जीवानां सकृन्मृत्युरिति श्रुतः । पराभ्युदयसामर्षो नित्यमृत्युरयम्पुनः
ઉદ્દો
स्वार्थान्धो मोहसंग्रस्तो नूनमत्र न संशयः ।। अदूरदर्शी गाढञ्च सक्तो ज्ञातिषु बन्धुषु ॥१७॥ अज्ञानं मूलमरयाऽस्ति दुर्विवेकश्च भूतलम् । याभ्यां संवर्ध्य ते क्षिप्तं सोऽयं स्वार्थान्धताद्रुमः ॥११८॥ गुणानुपेक्ष्य निर्लज्जो लोकनिन्दां विधूय च । स्वलाभञ्च पुरस्कृत्य स्वार्थी प्राणी प्रवर्तते ॥११९॥ मत्वा ब्रह्माण्डविरतारं कूप एव प्रतिष्ठितम् । यथा सुनेन जीवन्ति क्रीडन्तः कूपदर्दुराः ॥१२०॥
३४
Page #48
--------------------------------------------------------------------------
________________
स्वार्थान्धास्ते तथा स्वीयां हितसिद्धिमबाधिताम् । मुक्तिकल्पां मन्यमाना जीवन्ति ससुरवं भुवि ॥२१॥ निःस्वार्थान् परितश्चैते स्वार्थान्धाः सहगामिनः । कृशानुं परितो यद्वद् धूमबिम्बो विराजते ॥१२२॥ प्रतिवेशं ततः स्वीयं सम्यङ् निभालयेज्जनः । सम्परीक्ष्यैव मर्म स्वं स्वजनेषु प्रकाशयेत् ॥१२३॥ विकत्यनं नमाम्यन्ते नूरलं नवमं भुवि । प्रब्रह्माऽप्यतिशेते यस्य माहात्म्यमुज्ज्वलम् ॥१२४॥ भूतले कर्मशूरास्तु दृष्टा एव पदे-पदे । दानशूरा दयाशूरा धर्मशूरास्तथैव च मुरवशूराः परन्त्वेते जल्पाका बहुभाषिणः । अहंयवोऽतिधृष्टाश्व स्वरिमन्मुग्धा विकत्थनाः ॥१२६॥ पण्डिता आत्मवक्तव्यैर्वेदवेदाङ्गपारगाः । नयज्ञाश्च कलावन्तो मुखेनैव न कर्मणा ॥१२७॥ मुखेनैव महाप्राज्ञा मुखेनैव परन्तपाः । ऋषयो मुनयश्चाऽपि मुखेनैव कवीश्वराः ।।१२८॥
॥१२९।
कथा प्रकल्प्य निर्मूलामेकमात्रात्मसाक्षिणीम् । प्रख्यापयन्ति मुग्धेषु स्वीयां कीर्तिबृहत्कथाम् किमुच्येताऽधिकं हन्त सीमारेरवाविधायिनीम् । एकां लज्जां परित्यज्य त्रैलोक्यजयिनस्त्विमे
॥१३०॥
दृष्टा पार्थेन कृष्णरय वपुषा विश्वरूपता । मौखिकं विश्वरूपत्वं पश्येदेषां जगत्पुनः
॥१३१॥
Page #49
--------------------------------------------------------------------------
________________
अभिशप्ता इमे मूढा असन्तुलिता भूतले । जायन्ते च नियन्ते च लोकसंसदुपेक्षिताः
॥१३२॥
सृष्टिरनं प्रणम्याऽन्ते विरूपं जगदीश्वरम् । साम्प्रतं रनचर्चेयं समाप्तिमुपनीयते
શરૂ
रिपुव्योमवयुग्माख्ये (२००६) श्रेस्तेब्दे दशमे दिने । एप्रिलसंज्ञके मासेऽपराहणे सोमवासरे " શરૂજી
कालयापनकामेन मया वागर्थसेविना । शिमलामुम्बईयात्राऽवधौ काव्यमिदं कृतम्
॥१३५॥
॥ इतिश्रीगौतमगोत्रस्थभभयाख्यमिश्रवंशावंतसस्य महाभागवत- ॥ श्रीमत्पण्डितरामानन्दमिश्रपौत्रस्य श्रीमदुर्गाप्रसादाभिराजीमध्यमपुत्रस्य प्रकाण्डपाण्डित्योल्लसितश्रीमदाद्याप्रसादमिश्रभ्रात्रीयस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य
लघुकाव्यं नवरलसमर्चाशतकं समाप्तम्
तन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माऽष्टभिः स्कन्दो द्वादशभिर्न वा न मघवा चक्षुःसहस्रेण च । सम्भूयाऽपि जगत्त्रयस्य नयनैस्तद्धस्तु नो वीक्षते प्रत्याहृत्य दृश: समाहितधियः पश्यन्ति यत् पण्डिताः ॥
३६
Page #50
--------------------------------------------------------------------------
________________
[स्वाद: ।
चिन्तनधारा ?
___ मुनिरत्नकीर्तिविजयः ये केचिद् दुःखिता लोके, सर्वे ते स्वसुखेच्छया ।
ये केचित् सुखिता लोके, सर्वे तेऽन्यसुखेच्छया ॥
सामान्यतो द्वावेव भावौ-सुखं च दुःखं चेति-अस्मिन् विश्वे प्रवर्तेते । म सुखदुःखयोः सम्मिश्रणमिदं जगदस्ति । जीवनं नाम सुखस्य प्राप्ते१ःखस्य चोच्छेदस्य A. पुरुषार्थः । किन्त्वद्यावधि सुखं त्विच्छायामेव वर्तते, न त्वनुभवस्तस्य सञ्जातः -
एतत् सत्यम् । यतोऽनुभव इच्छामुन्मूलयति । परं कस्याऽपि सुखेच्छा नाऽद्यापि - निवृत्ता जाता, प्रत्युत प्रतिदिनं प्रतिक्षणं च सा बलवत्येव जायते । अनवरततया - सुखाकाङ्क्षा प्रवर्तते प्राणिमात्रस्य चित्ते । एतेनैव प्रतीयते यत् सुखं त्वीप्सितत्वेन AND वर्तते चित्ते नाऽनुभूतिविषयत्वेनेति ।
प्रथमं तावत् सुखं तु न प्राप्तेविषयस्तत्त्वनुभवविषय एव । सुखं ह्यनुभूयते, CARS न प्राप्तुं शक्यते कदाऽपि । यतस्तद्भावरूपं न हि पदार्थरूपम् । सुखस्याऽधिष्ठानं RAWA) प्राणिनां हृदयं चित्तं वाऽस्ति, न तु पदार्थाः परिस्थितय: संयोगा वा । किञ्चित्
प प्राप्तेरनन्तरं यदनुभूयते तत् सुखमित्यस्माकमभिप्रायः, किन्तु वस्तुतस्तन्न सुखमपि CS त्वहङ्कारस्य सन्तुष्टिरेव केवलम् । अहङ्कारतुष्टिस्तु न दीर्घ जीवति तिष्ठति वा
कदाऽपि । क्षणमवस्थाय सा विलीयते । सुखं तृप्तेरुद्भवति, अहङ्कारतुष्टेस्तु भ्रमो * जायते । वयं सततं स्वकीयमहङ्कारमेव तोषयामः पोषयामश्च । एतेन च (K) वास्तवसुखस्याऽनुभूतिर्दूरमेवाऽवस्थिता ।
___ श्लोकेऽस्मिन् सुखदुःखयोरुभयोरपि मूलं दर्शितमस्ति । अत्र प्रथमं दुःखं X विनिर्दिष्टमस्ति । अवगते सति दुःखस्य मूलं सुखानुभूतेरुपायः सरलतयैवाऽवगन्तुं CINS शक्यते । यावन्न ज्ञायते दुःखस्य मूलं, सुखस्य शुद्धिनिष्फलैव जायते । ।
स्वार्थवृत्तिर्दुःखस्य जनन्यस्ति । स्वं विहायाऽन्यस्य कस्याऽपि - सुखदुःखाद्रिकं नैव चिन्तनीयं नाम स्वार्थवृत्तिः । स्वस्यैव सुखस्य गानं स्वस्यैव (A) दुःखस्य रोदनमिति । 'अहं-ममे'त्येव तस्य जीवनमन्त्रः सम्पद्यते-ममैव प्राधान्यं
सर्वत्र स्यात् । यदप्यहमिच्छेयम्-विचारयेयम्-कुर्यां वा तेनैव सुखं, नाऽन्यथा, - यन्ममेष्टं तदेवेष्टत्वेन सर्वैरपि स्वीकरणीयमिति । एवमेव सततं विचारयन् जनोऽन्यद् CNO यत्किमपि प्राप्नुयानाम किन्तु न कदाऽपि स शान्तिं तृप्तिं वास्तवं सुखं च CAND
३७
Page #51
--------------------------------------------------------------------------
________________
RAV) प्राप्नोति । तथा विचारयन् कुर्वन् संश्च सोऽहङ्कारतुष्टिमेव प्राप्नोति यां च सुखं मत्वा ) सततं पोषयत्यपि । अन्ततो गत्वा च पश्चात्तापः सन्तापो वैव तदर्थमवशिष्यते ।
__ अपि कश्चिच्छायां ग्रहीतुमुत्सहते खलु ? उत्सुकोऽपि कोऽपि किं तत्र सफलो भवति किल? स्वार्थवृत्त्या सुखस्य लिप्सा तु छायाग्रहणवृत्तितुल्याऽस्ति । NO मूलपदार्थं विहाय तच्छायाग्रहणे उत्सुक आजीवनं वञ्च्यते । सुखस्याऽभिलाषस्तदर्थं च प्रयत्नोऽपि स्वीकरणीय एव । किन्तु सुखं यदा स्वसुखत्वेन सीमितं भवति तदाऽभिलाष एवाऽऽग्रहो जायते, यश्च दुःखस्य मूलमस्ति । सुखाभिलाषो हि यदा स्वार्थवृत्त्या कर्दमितो भवति तदा स सन्तापे पर्यवस्यति । स्वसुखस्य शुद्धिरेषणा वा छायाग्रहणवृत्तिरस्ति । या वास्तवसुखात् सदा दूरमेव नयति । अत एवोक्तम्'ये केचिद् दुःखिता लोके सर्वे ते स्वसुखेच्छया' इति ।
अस्मिन् श्लोके प्राणिनां सहजवृत्तिं प्रति निर्देशः कृतोऽस्ति । दुःखमूला या वृत्तिरस्ति सैव परिवर्तिता सुखमूला जायते । वृत्तेः परिवर्तनं विना प्रवृत्तौ परिवर्तनं न सम्भवति, तद्विना च परिणामोऽपि नैव परिवर्तते । 'स्वा-ऽन्य'इतिशब्दाभ्यामेतदेव संसूचितमस्ति । स्वसुखचिन्तनरूपा या वृत्तिरस्ति सैव यदि परसुखचिन्तनरूपा स्यात् तदा वास्तवस्य सुखस्य तु सहजमेवाऽनुभव: स्यात् । यत्र चैवं वास्तव-सुखस्याऽनुभवः सम्प्रवर्तते तत्र स्वार्थकलुषितस्य मिथ्यासुखस्याऽऽकाङ्क्षालेशोऽपि तत्तृष्णा वाऽपि न समुद्गच्छति समुच्छलति वा । यश्च स्वसुखमेव चिन्तयति स कदाऽपि परसुखं सोढुं न प्रभवति । तस्य चित्ते सर्वदेाग्निः प्रज्वलितों भवति । ईष्र्यैव च दुःखं किल ? । यश्च परस्य सुखं चिन्तयति तस्य सर्वोऽपि व्यवहार औदार्य-विवेकादिगुणमण्डित एव भवति । परांश्च समाहितान् सुखितान् प्रसन्नांश्च दृष्ट्वा स आनन्दमनुभवति । तदेव च सुखं नाम । सोऽन्यस्मै दत्त्वैव सुखमनुभवति, न कस्यचिद् गृहीत्वा । एतादृशो जनो न कदापि दुःखी भवति ।
आ कुटुम्बात् समग्रविश्वस्य शान्तेर्मूलमन्त्रोऽस्ति- परसुखस्य चिन्ता परमार्थो वा । यदि नाम सर्वेऽपि परस्परं सुखं हितमानुकूल्यं वा चिन्तयेयुस्तदा सुखं तु छायावत् सदाऽप्यनुसरेदेव । अत एवोक्तं च - "ये केचित् सुखिता लोके सर्वे तेऽन्यसुखेच्छया ।"
यद्यपि स्वसुखं गौणीकृत्याऽपि परसुखस्य चिन्तनं तु दुष्करमस्त्येव, न किन्त्वसम्भवम् । मनुष्यत्वस्य परीक्षा हि दुष्करस्य सिद्धावेव किं नास्ति ? ।
३८
Page #52
--------------------------------------------------------------------------
________________
पत्रम
- मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । तव कुशलं कामये ।
सर्वेऽपि जना मत्कोटकं जानन्ति पश्यन्ति चाऽपि, किन्तु तस्य चेष्टास्तथा तत्पश्चाद्वर्तमाना मनोवृत्तीन केऽप्यवगच्छन्ति । न वा ता दृष्ट्वा मनसि बोधलेशोऽपि प्रादुर्भवति । यदि चित्तं स्वस्थं जागृतं च स्यात्तदाऽस्मिन् जगति क्षुद्रजन्तुष्वपि प्रवर्तमाना चेष्टाऽस्माकं बोधं जागरयितुं समर्थाऽस्ति । किन्तु
हन्त ! वयं सर्वेऽपि संवेदनबधिराः । अत एव प्रतिदिनं प्रतिक्षणं च चैतन्योद्बोधिका 12 घटना घटन्ते, तथाऽप्यन्तस्तले न किमपि संवेदनं जायते । संवेदनशून्यो मनुष्यो
मनुष्य एव न कथ्यते, यतः संवेदनशीलता जीवनस्य हार्दै दैवदत्तोऽमूल्य उपहारश्चाऽस्ति । अन्येषां दुःखं पीडां च दृष्ट्वा चित्ते करुणा नोत्पद्यते चेन्मनुष्यस्येतरप्राणिनश्च मध्ये को भेद: ? अतो न कदाऽपि संवेदनशून्यतया भवितव्यम् । अस्याः संवेदनाया वृद्ध्यर्थं निरन्तरं पशु-पक्षि-वनस्पत्यादिप्रकृतेः प्रत्येकमङ्गानि सूक्ष्मं संवीक्षणीयानि ।
मयैकं दृश्यं दृष्टम् । यद्यपि तत्तावद् महत्त्वोपेतं नाऽऽसीत्, तथाऽपि विचारप्रेरकं तु नूनमासीदेव । एको बालको मत्कोटकं स्वहस्तेन वारं वारं दूरीकरोति स्म, तथाऽपि स मत्कोटकस्तामेव दिशं मुहुर्मुहुः प्रत्यागच्छति स्म । प्रायः पञ्चदशवारमेवं कृतम् । कदाचित्तु स दूरं पतितः, कदाचिदुत्पतितः, एवं च तस्य पादो भग्नः, तथाऽपि स तामेव दिशं पुनः पुनः प्रत्यागच्छति स्म । एतद्देश्यं दृष्ट्वाऽस्माकं मनोदशा स्मृतिमागता । अस्माभिरनेकश उन्मार्गः प्राप्तः । सदुपदेशदानेन सद्गुरुभिः सन्मार्गे स्थापिता वयम् । तथाऽपि वयं पुनः पुनरुन्मार्गे एव गच्छेम ।
३९
Page #53
--------------------------------------------------------------------------
________________
वयं सर्वेऽपि विषयसुखेषु नितरामासक्ताः स्मः । एतद्विषयसुखलालसावशात् । क्षुद्रजन्तुत्वं प्राप्तम्, एवं बहुशो दुर्गतिं प्राप्नुवन्तो वयं सर्वेऽपि । तत्राऽतीव दुःखमवमाननं च सोढमस्माभिः । यथाऽशिक्षिताश्वो जनमुन्मार्ग नयति पातयति च, तथैवेते विषया आत्मानमुन्मार्ग नयन्ति दुर्गतौ च पातयन्ति, अकरणीयं कारयन्ति करणीयं च त्याजयन्ति, सद्बुद्धि सदाचरणं सन्नीतिं च नाशयन्ति, अन्यायं दुराचारं च कारयन्ति, क्लेशमुत्पादयित्वा शान्ति समाधि च घातयन्ति, तथाऽपि तद्विषयसुखमवाप्तुमन्धीभूय वयमटामः । रमणीयं रूपं, मनोहरं गन्धं शब्दं च, कोमलं स्पर्श मधुरं रसं चोररीकर्तुं किं किं न कृतम् । विषयसुखस्य निदानरूपं धनं लब्धुं कियन्ति कष्टानि सोढानि, हस्तगतं सुखं विहाय नूतनं दुःखं प्राप्तम्, नीतिर्दया मर्यादा चाऽप्यपाकृता, मन्त्रतन्त्रादिप्रयोगाः कृताः, तथा स्नेहिजनैस्सह संघर्षः क्लेशश्च कृतः । भो ! वद, धनप्राप्त्यर्थं किं किं न कृतम् । कथितं चउत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितांपतिपतयो यत्नेन सन्तोषिताः । मन्त्राराधनतत्परेण मनसा नीताः श्मशाने क्षपाः
प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् || भ्रातर् ! एतद्विषयसुखं तु क्षणिकमस्ति । यद्याजीवनमेतद्विषयसुखमनुभूयेत तथाऽपि तृप्तिर्नाऽनुभूयते । यथा नयनयोरुद्घाटितयोः सतोः स्वप्नेऽनुभूतस्य सुखस्योपलब्धिर्न भवति तथैव विषयसुखेऽनुभूते सति न कदाऽपि तस्य सुखस्याऽनुभवो भवति । स्वप्ने दृष्टो घृतपूरो न क्षुधां शमयति, न च मरीचिकाजलेन कदाऽपि तृष्णोपशाम्यति तथैव विषयसुखस्योपभोगेन चित्ते न कदाऽपि तृप्तिरनुभूयते।
विषयसुखं तु किंपाकफलमिव ज्ञेयम् । यथा बाह्यदर्शनेन किंपाकफलं सुन्दरं भासते, आस्वादनेऽपि मधुरमस्ति, किन्तु तत्फलोपभोक्ता तत्क्षणमेव मृत्युमवाप्नोति तथैव विषयसुखस्योपभोगकाले चित्ते आनन्दोऽनुभूयते किन्तु तत्फलरूपेण दुर्गतिरेव प्राप्यते । अध्यात्मकल्पद्रुमे उक्तं च
आपातरम्ये परिणामदुःखे सुखे कथं वैषयिके रतोऽसि । जडोऽपि कार्यं रचयन् हितार्थी करोति विद्वन् ! यदुदर्कतर्कम् ॥ बन्धो ! अत्रैतदेव चिन्तनीयमस्ति यद् मत्कोटकस्य मनो नास्ति, ततोऽत्र
४०
Page #54
--------------------------------------------------------------------------
________________
दुःखमस्ति, अन्यत्र गमने सुखमस्तीति स न जानाति । अस्माकं समीपे मनोऽस्ति बोधश्चाऽप्यस्ति । यदि बोधो न स्यात्तदा किमपि क्रियमाणं क्षम्यं स्यात्, किन्तु सत्यपि बोधे सुखमार्गमाराधनां च विहाय दुःखमार्गे विराधनाया मूलरूपे विषये चैवाऽऽसक्तिः क्रियते तत्तु नितरामक्षम्यं भवति । शाश्वतं सुखं कथं केन च प्राप्यते तत्सर्वं वयं जानीम एव । कदाचिदुन्मार्गः प्राप्यते तदा प्रेरणां दत्त्वा सन्मार्गे स्थापयन्तो हितचिन्तका गुरवश्चाऽपि सन्ति, तथाऽपि विषयेष्वासक्तिं विधाय वयं सर्वेऽपि तस्यां दिश्येव धावामः । तदाऽस्माकं तस्य च मध्ये को भेदः ? इति प्रश्नोऽप्युद्भवति । तदा वयं मत्कोटकादपि निम्नाः स्म इति भासते!।
बन्धो ! परमपुण्योदयेनैतन्मानुषत्वं प्राप्तम् । पूर्वभवेषु क्लिष्टानि कर्माणि क्षपयितुमुग्रतप आचरितं भवेत्तथा बही धर्माराधना कृता स्यात् तद्यैवैतन्मानुष्यं लब्धम् । दुर्लभमेतन्मनुजभवमवाप्याऽपि यो मृगतृष्णासमेषु क्षणिकेषु विषयसुखेषु निरन्तरं रमते स मूर्ख इत्युपलक्ष्यते । मनुष्यभवस्तु चिन्तामणिरत्नसमो वर्णितः । किन्त्वत्राऽन्तरमेतदस्ति यत्, पतितं तद्रत्नं कदाचित् पुनरपि प्राप्यते, किन्त्वेतन्मानुषत्वस्याऽवाप्तिस्त्वतिदुष्कराऽस्ति । सिन्दूरप्रकरे गदितम्अपारे संसारे कथमपि समासाद्य नृभवं
न धर्मं यः कुर्याद् विषयसुखतृष्णातरलितः । बुडन् पारावारे प्रवरमपहाय प्रवहणं
स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ।। तत्राऽप्यन्येषां पीडने ताडने च तथा तेषामशुभचिन्तनेऽपि पापं मन्यते, तादृशमार्यधर्ममवाप्याऽपि वयं विषये लम्पटाः स्याम तदा किं भवेत् ? भो ! (7 विषयसुखं त्वनादिकालाद् बहुशोऽनुभूतं तथाऽपि तृप्तिर्न जाता । मत्कोटकस्यैषा
स्थितिरस्मान् बोधयति - भ्रातः ! विषयासक्तिं विहाय धर्ममाराधय । तत्रैव सुखमस्ति, 13 अत्र तु दुःखमेवाऽस्ति । अत एतद्विषयसुखं विहाय शाश्वतसुखप्राप्त्यर्थं
धर्ममाराधयेत्याशासे ।
४१
Page #55
--------------------------------------------------------------------------
________________
मुनिकल्याणकीर्तिविजयः
(मराठीमूलम्)-पाच पुतळे शहरातले पाच पुतले एका चौथार्यावर जमले टिपं गाळू लागले. शिवाजी महाराज म्हणाले शेवटी मी झालो फक्त मराठ्यांचा. महात्मा फुले म्हणाले मी तर फक्त माळ्यांचा. अंबेडकर म्हणाले मी झालो नव बौद्धांचा. टिळक म्हणाले मी तर फक्त चित्तपावन ब्राह्मणांचा. आपल्या गळ्यातला गहिवर गांधीनी कसाबसा आवरला आणि ते म्हणाले... तरी तुम्ही भाग्यवान एक एक जात जमात तुमच्या मागे उभी राहिली, माझ्या मागे राहिल्या फक्त सरकारी कचेर्यातल्या भिंती !!
- कुसुमाग्रजः
(गूर्जरानुवादः) पांच पूतळां शहेरनां पांच पूतळां एक चोकमां भेगां मळ्यां
आंसु सारी रह्यां. शिवाजी महाराजे कडं छेक्टे हुं फक्त मराठाओनो थई रह्यो. महात्मा फुले बोल्या हुं तो मात्र माळीओनो.
आंबेडकर बोल्या हुं थयो नवबौद्धोनो. टिळक बोल्या हुं तो फक्त चित्तपावन ब्राहाणोनो. मांड मांड गळाना डूमाने दबावता गांधीजीए कह्यु, तोय तमे नसीबदार एक एक जात-जमात तमारी पाछळ ऊभी तो रही, मारी पाछळ रही
मात्र
सरकारी कचेरीओनी भीतो !!
दीपक दोशी / योगेश कामदार
४२
Page #56
--------------------------------------------------------------------------
________________
( संस्कृतानुवादः) पञ्च प्रतिमाः
नगरस्य पञ्च प्रतिमाः एकस्मिन् चतुष्के मिलितवत्यः अश्रूणि मुञ्चत्यः
शिवाजीमहाराजेन कथितम्अहं मान्यः केवलं महाराष्ट्रीयाणाम्,
'फुले' महात्मना कथितम् अहं तु केवलं मालिनाम् !!
आम्बेडकरेण गदितं नवबौद्धैरेव स्वीकृतोऽहम्, तिलकेनाऽपि गदितं
चित्तपावन ब्राह्मणेष्वेव प्रथितोऽहम् !!
तदा, अवरुद्धं कण्ठं कथमपि शमयन् गान्धीमहात्मा कथितवान्..... भाग्यवन्तो भवन्तस्तथाऽपि एकयाऽपि जात्या ज्ञात्या या भवतां पृष्ठतस्तु अस्थायि
मम पृष्ठतस्तु स्थितवत्यः केवलं
सर्वकारीयकार्यालयानां भित्तयः
( आधार : गूर्जरपत्रिका नवनीतसमर्पणम्
ऑक्टोबर - २००६)
४३
Page #57
--------------------------------------------------------------------------
________________
भारतीयजीवनमूल्यज्ञानाय प्रचारायच संस्कृतस्य साम्प्रतिकी आवश्यकता
张张张张张张
TION
___ डॉ. धर्मेन्द्रजैनः संस्कृतवाङ्मये भारतीयसंस्कृतेस्सर्वस्वं निहितम् । संस्कृतेरनेकपक्षा भवन्ति किन्त्वत्र सदाचारनैतिकताहिंसादिजीवनमूल्यानां मीमांसा क्रियते । संस्कृतसाहित्ये निहितजीवनमूल्यानामेव महत्त्वेन जगति भारतस्य प्रतिष्ठाऽद्याऽपि तादृश्येव यादृशी प्राचीनसमये आसीत् । देववाणीग्रन्थेषूपलब्धवैशिष्ट्येनैव भारतेन गौरवं सम्प्राप्तम् । वेदादिप्राचीनतमसंस्कृतागमैरार्यावर्तोऽयं कृत्स्नविश्वस्मिन् प्रसिद्धि लब्धवान् । आदिसंस्कृतकाव्यस्योद्भूतिरपि करुणाहिंसादिभावनया जाता ।
मा निषाद प्रतिष्ठास्त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।
(वाल्मीकिरामायणं-बालकाण्ड-२/१५) निषादेन हन्यमानं काममोहितक्रौञ्चमिथुनं दृष्ट्वा वाल्मीकिमहर्षेर्हदि करुणोद्गता । तद् दृश्यमालोक्य ऋषिः कथयति यद्-'भो निषाद ! क्रौञ्चपक्षियुगं १ त्वं नो जहि । चेन्मारयिष्यसि तर्हि युग-युगपर्यन्तं प्रतिष्ठां न लप्स्यसे' । इदं
तूदाहरणमात्रं परन्तु वाल्मीकिरामायणस्य पठनानन्तरं ज्ञायते यदस्मिन् काव्ये पदे8 पदे जीवनमूल्यान्युपलभ्यन्ते । तेषु कतिचित् प्रसङ्गा निम्नाः सन्ति ।
कलिकाल उपकारस्मरणं न कुर्वन्ति मानवाः किन्तु कृतघ्ना भवन्ति । एतत्समये कृतज्ञताज्ञापनाय रामस्य कृतज्ञता प्रासङ्गिकी वर्तते । यथा वाल्मीकिमहर्षयो निगदन्ति रामविषये
कथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ।।
(वाल्मीकिरामायणं काण्ड-२, सर्ग-१, श्लोक-११) श्लोकेऽस्मिन् सुस्पष्टं भवति यत् रामः साक्षात् कृतज्ञताया मूर्तिविद्यते। केवलमेकेनैव कृतेनोपकारेण संतुष्यति । शतमप्यपकाराणां न स्मरति । इदानीं * सर्वत्र गृहे-गृहे कलहद्वेषादियुक्तं वातावरणं दृश्यते । चेद् वाल्मीकिरामायणस्य * ** भ्रातृप्रेमाऽवैरभावं चाऽनुस्रियते तर्हि स्वर्गतुल्यवातावरणं भवितुं शक्यते । *
涨涨紫米米浆涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨
涨涨涨涨
For Private & 88 nal Use Only
Page #58
--------------------------------------------------------------------------
________________
0.
#
.
张张张张张器
A
HRIEEEEEEE
HERE:
भ्रातृलक्ष्मणगात्रे शक्तिपाते सति रामो हृदयोद्गारं प्रकटयन् ब्रूते
देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ।।।
__ (वाल्मीकिरामायणं काण्ड-६, सर्ग-१०१, श्लोक-१४) 1 'प्रत्येकं देशे स्त्रिय आप्तुं सम्भवन्ति, बन्धुजना अपि सुलभाः परन्तु कोऽप्येतादृशो देशो न विद्यते यत्र लक्ष्मणसदृशः भ्राता प्राप्यते' । भ्रातृप्रेम्णः श्रेष्ठमुदाहरणमिदम् । अवैरविषये तु रामस्यौदार्यं कल्पनातीतम् । रावणवधप्रसङ्गे रामो विभीषणाय कथयति
मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारो ममाऽप्येष यथा तव ।।
(वाल्मीकिरामायणं काण्ड-६, सर्ग-१०१, श्लोक-२५) _ 'भो विभीषण ! वैरस्याऽस्तित्वं तु शत्रुमरणपर्यन्तमेव । रावणस्य मृत्युना सहैवाऽस्माकं रिपुता दिवङ्गता । तस्य दाहसंस्कारः क्रियताम् । यथाऽयं तव भ्राता तथा ममाऽपि भ्रातैव ।' एवं प्रकारेण रामायणे पित्राज्ञापालनं, कर्तव्यपरायणता, प्रगाढस्नेहयुक्तदाम्पत्यजीवनं, न्यायप्रियशासनमितिप्रभृतीन्यनेकानि जीवनमूल्यानि समुपलब्धानि भवन्ति ।
__ ग्रन्थोऽपरो महाभारतं पञ्चमवेदेति नाम्ना ख्यातोऽस्ति । ग्रन्थोऽयं भारतीयसभ्यताया भव्यस्वरूपम् । पञ्चमवेदेऽस्मिन् कौरवपाण्डवानां न केवलमितिहास: परन्तु हिन्दुधर्मणो विस्तृतचित्रणमपि प्रस्तुतम् । अनेनैव कारणेनेतिहासग्रन्थो भूत्वाऽपि धर्मागमो मन्यते । महाभारतस्य पठन पाठनं श्रवणं मननं च सर्वदृष्ट्याऽस्माकं कृते हितावहम् । भारतीयसाहित्यस्य सर्वोत्कृष्टग्रन्थो भगवद्गीताऽप्यस्यैव महाभारतस्यांऽशस्तथा विष्णुसहस्रनाम, अनुगीता, भीष्मस्तवराजः, गजेन्द्रमोक्षश्चाऽपि भक्तिग्रन्थाः । एते पञ्चग्रन्थाः “पञ्चरत्नमिति" शब्देन व्यवह्रियन्ते । [संस्कृतसाहित्य का इतिहास, आ.बलदेव उपाध्याय, पृ. ५७] वस्तुतो भारतीयाध्यात्मिकज्ञानस्य विश्वकोशो महाभारतम् । इत्थं रघुवंशः, हर्षचरितं, मेघदूतमितिप्रभृतीनि विविधानि सुरभाषाकाव्यानि सन्ति येषु जीवनमूल्यानि विहितानि । तेषां जीवनमूल्यानामधुनाऽवश्यमेव प्रयोग: करणीयः ।
张张张张张张张器器
vedeos
諾諾张器器器器器器
४५
Page #59
--------------------------------------------------------------------------
________________
SERIES MARA BETTERS
张张张张张张张器
號涨涨涨涨涨涨涨涨
नाटकेष्वपि बहूनि भारतीयजीवनमूल्यानि लभ्यन्ते । तत्र प्रसिद्धं * नाटकमभिज्ञानशाकुन्तलम् । नाटकेऽस्मिन् विविधप्रकरणानि भारतीयजीवनमूल्यानि सूचयन्ति । यथा
कः पौरवे वसुमती शासति शासितरि दुविनीतानाम् ।. अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥
(अभिज्ञानशाकुन्तलम् १/२९) तपोवने यदा शकुन्तला भ्रमरबाधां अनुभूय साहाय्यार्थं सखिजनमनुनयति तदा राजा दुष्यन्तः कथयति-'को दुष्ट एतास्तपस्विकन्याः पीडयति कष्टं वा ददाति ?' भ्रमवशङ्गतदुष्यन्तो दुष्टान्प्रति स्वं कठोरानुशासकं मत्वा कथयति - 'दुष्टानां दण्डदातरि सति, पुरुवंशे उत्पन्ने दुष्यन्ते पृथ्वी रक्षति सति कोऽसौ दुष्टः * सरलासु तपस्विकन्यास्वौद्धत्यमाचरति ? एवं प्रजाः प्रति सहानुभूतिं वात्सल्यं वा प्रकटयति । अस्मात् शासकेन प्रजावत्सलत्वेन भवितव्यमिति प्रकटनं भवति । एकोऽन्यः प्रसङ्गः शाकुन्तले
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नाऽऽदत्ते प्रियमण्डनाऽपि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ।।
(अभिज्ञानशाकुन्तलम् ४/९) श्लोकेऽस्मिन् शकुन्तलायाः प्रकृतिप्रेम निर्दिष्टम् । पर्यावरणसंरक्षणाय प्रकृतिप्रेमाऽनिवार्यमेतद् द्योतयति पद्यमिदम् । जगति दृश्यते या प्रकृतिः सा न केवलं श्रीवृद्ध्यर्थं न भूषणाय न च हननाय । मानवेन वनस्पतीनां हिंसाऽपि न करणीया । प्रकृतिसन्तुलनसंचालनाय प्रकृतिप्रेम्णः संरक्षणं संवर्धनं चाऽऽवश्यकमित्यस्माच्छ्लोकादित्यपि सूचनं भवति ।
यदि मनुष्यः पशुपक्षिणः प्रकृतिं च प्रति सहृदयो भवति तर्हि साऽपि मानवान्प्रत्यामीयतां प्रकटयति । एतद्भावस्य बोधकामपरामेकां गाथां प्रियंवदा उवाच -
उग्गलिअदब्भकवला मिआ परिच्चत्तणच्चणा मोरा । ओसरिअपण्डुपत्ता मुअन्ते अस्सू विअ लदाओ ॥
涨涨涨涨涨涨涨涨涨涨
涨涨涨涨涨涨
涨涨涨涨涨涨涨
For Private 8 Eersonal Use Only
Page #60
--------------------------------------------------------------------------
________________
张器
张张张张张张张张器器器张张张张张张 张张张张张张张张
(उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।) (अभि. शा. ४/१२) यदा शकुन्तला पतिगृहं गच्छति तदा प्रियंवदा शकुन्तलामालक्ष्य गदति यत्-'तव गमनकाले इमे आश्रमस्था मृगा मयूरा लताश्च विरहाकुलाः सन्ति । एते सर्वे स्वस्वभावं परित्यजन्ति । सम्पूर्णतपोवनमिदं विगलितमनो दृश्यते' । प्रकृतिमानवयोश्च प्रेमविषयकमुत्कृष्टोदाहरणमिदम् । संप्रति प्रायशो गेहे गेहे श्वश्रूवधूमध्ये कलहस्य विघटनस्य च वातावरणं विद्यते । शाकुन्तलस्य श्लोकमेकमनुसर्यते यदि, तदा समीचीनं वातावरणं भविष्यति, शान्तिमाप्तुं च शक्यते । तद्यथा
शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने, भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः ॥ भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याऽऽधयः ।।
___ (अभि. शा. ४/१८) पतिगृहगमनसमये काश्यपमहर्षिः शकुन्तलामुपदिशति यत् - 'भो शकुन्तले ! पतिगेहं गत्वा परिवारे गुरुजनानां सेवाशुश्रूषां कुर्याः । सपत्नीजनं प्रति सखिवत् व्यवहरेः । पत्या तिरोहिते सत्यपि पतिविरुद्धं नो आचरेः । सेवकादिसमूहेऽत्यधिकमुदाराशया भव । निजसौभाग्येष्वभिमानविरहिता भव । एवं विधिनाऽऽचरन्त्यो युवतयो गृहलक्ष्मीस्थानं प्राप्नुवन्ति । एतत्प्रतिकूलवतिन्यो युवतयः पितृश्वसुरवंशस्य मनस्तापकारिण्यो भवन्ति' ।
___एतस्मिन् पद्ये कण्वमहर्षिणा शकुन्तलामाध्यमेन नववूधनां कृते सुखमयजीवनयापनाय मनोहर उपदेशो दत्तः । साम्प्रतकाले यदि कण्वमहर्षेरुपदेशमेनं
युवतयोऽनुसरेयुस्तहि प्रतिगेहं स्वर्गावतरणं सम्भवति । एतद्देशनायाः पालनात् सर्वत्र * शान्तिसाम्राज्यस्थापना भविष्यति । शाकुन्तले एतादृशानि विपुलानि प्रकरणानि * सन्ति । इदानीन्तनकाले तानि सर्वाण्याचरणीयानि ।
संस्कृतनाटकजगति मृच्छकटिकमपि नाटकं सुप्रसिद्धम् । अस्मिन्नाटके या धार्मिकमान्यता वर्तन्ते तासां मानवजीवने आवश्यकताऽस्ति । यज्ञादीनामभावे मानवजीवनं पापमयं वर्तते । चारुदत्त ईदृशीभावनामादाय स्वमनसि स्वयमेव
米张器器器张张张张张张器张张张张张张张张张张张张张张器器器张张
४७
Page #61
--------------------------------------------------------------------------
________________
涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨
张张张张张张 器器器
* विचारयति, तद्यथा
मखशतपरिपूतं गोत्रमुद्भासितं मे,
सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् । . मम मरणदशायां वर्तमानस्य पापैस्तदसदृशमनुष्यैर्युष्यते घोषणायाम् ।।
(मृच्छकटिकम् - १०/१२) देवीदेवतानां पूजाऽपि गृहस्थस्याऽऽवश्यकं कर्म । बलिकर्मणा देवीदेवताः संतुष्यन्ति । एतादृशी देशना निम्नश्लोकतो निर्गच्छति ।
चारुदत्तो मित्राय कथयति - गृहस्थस्य नित्योऽयं विधिः ।
तपसा मनसा वाग्भिः, पूजिता बलिकर्मभिः । तुष्यन्ति शमिनां नित्यं, देवताः किं विचारितैः ? ।।
(मृच्छकटिकम् १/१६) एवंविधिना गीर्वाणवाड्मये बहूषु नाटकेषु भारतीयजीवनमूल्यानि प्राप्यन्ते । तेषां सुरभाषां विनाऽऽत्मसात्करणमशक्यम् । न केवलं काव्यनाटकेष्वेव जीवनमूल्यानि वर्णितानि परन्तु पाणिनीयव्याकरणेऽपि सूत्रमाध्यमैस्तान्युल्लिखितानि । यथा - तदस्य ब्रह्मचर्यम् (अष्टाध्यायी-५/१/९४), वर्णाद् ब्रह्मचारिणि (अष्टा. ५/ २/१३४) - सूत्रयोरनयोः शिक्षाया मूलाधारो ब्रह्मचर्यमिति ध्वन्यर्थो लभ्यते ।
विद्यायोनिसम्बन्धेन्यो वुत्र (अष्टा. ४/३/७७) अनेन सूत्रेण गुरुशिष्याणां विद्याविषये * सुसम्बन्धो भवतीति सिद्ध्यति ।
___"छत्रादिभ्यो णः" (अष्टा. ४/४/६२) सूत्रेऽस्मिन् छात्रशब्दस्य कल्पनेयं मधुरा वर्तते यत् छात्र आचार्यजीवनोपरि छत्रवत् व्याप्नोति । छत्रं शीलं अस्येति छात्रः । “भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा" - (अष्टा. ३/४/ ६८) अत्र उपस्थानीयशब्देन छात्रस्य कर्तव्यं किमिति द्योत्यते । अर्थात् प्रथम तावत् शिष्यो गुरोः समीपे आगत्य तं सेवेत, तदनु चाऽध्ययनं कुर्यात् । गुरुरपि स्वविनेयं सविधे आनीय शिक्षयेदिति । पाणिनिना शिक्षकाणाम् - आचार्यः, प्रवक्ता, श्रोत्रियोऽध्यापकश्चेति चत्वारः प्रकारा निर्दिष्टाः । तेष्वाचार्यः श्रेष्ठोऽस्ति । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः (अष्टा. २/१/६८)
-
ae 100.00
张张张张张张张张张张
४८
Page #62
--------------------------------------------------------------------------
________________
张张张张张张张张张张张张张张张张
उपर्युक्तरीत्या संस्कृतवाङ्मये सर्वविधशास्त्रेषु भारतीयजीवनमूल्यानि # वणितानि । तेषां ज्ञानमात्मसात्करणं च देवभाषाज्ञानेनैव शक्यम् ।
अत्र वर्णितानि मूल्यानि तु निदर्शनमात्राणि । संस्कृतग्रन्थेषु समुपदिष्टं ज्ञानवैभवं मानवसंस्कृतेर्हार्दम् । मानवसभ्यतासंस्कृत्योः सर्वेषामाधारभूततथ्यानां खनिर्देववाणीनिबद्धग्रन्थावलिः । अत एतेषां ज्ञानाय प्रचाराय च साम्प्रतकाले संस्कृतस्य महती आवश्यकता । जर्मनदेशे वैज्ञानिकैरपि कम्प्यूटरकृते संस्कृतभाषा सर्वश्रेष्ठा कथिता । एवमन्यदेशेष्वपि संस्कृतभाषामहत्त्वं विचक्षणैः सुतरां स्वीकृतमस्ति । देववाण्याः प्रचारेण न केवलं भारते किन्तु सम्पूर्णलोके भवितव्यम् । तत्र प्रथमं तु भारतदेशस्य नगरे-नगरे ग्रामे-ग्रामे संस्कृतविश्वविद्यालयानां विद्यालयानां वा स्थापना भवतु, तदनन्तरमन्येषु देशेषु संसारे वा सुरभाषासंस्कृतप्रचारकेन्द्राणां स्थापना कल्पनीया । जयतु सुरभाषा... जयतु भारतम्.... ॥
व्याख्याता-प्राकृतविभागः, भाषाभवनम् गुजरातविश्वविद्यालयः,
कर्णावती ९
涨涨涨涨涨涨涨涨涨涨涨
张张张
सन्दर्भग्रन्थाः १. वाल्मीकिरामायणम् २. संस्कृतसाहित्यस्येतिहसः, ले. आचार्य बलदेव उपाध्यायः ३. अभिज्ञानशाकुन्तलम् ४. मृच्छकटिकम्
अष्टाध्यायी (पाणिनीयव्याकरणम्)
张张张张张张张
张张张张张张张
涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨
NA
४९
Page #63
--------------------------------------------------------------------------
________________
ग्रन्थसमीक्षा
'नाट्यनीराजाम् (अभिनवैकाङ्कसङ्कलनम्) . समीक्षक: डॉ. रूपनारायणपाण्डेय: TAND
ग्रन्थकार: आचार्य बाबूराम अवस्थी । प्रकाशिका श्रीमती ऊर्मिला अवस्थी, वाजपेयी कालोनी, लखीमपुर, खीरी, २६२७०१ प्रथमं संस्करणम् - १९९८ ई., पृ.सं. २०+१६०, मूल्यम् - ५०/
वर्तमानकाले सुरभारतीसपर्यायां लोके सुखेन तत्संवर्धनाय यैर्विद्वद्भिः साहित्यं प्रणीतम्, तेषु श्रीबाबूराम-अवस्थिमहाभागोऽग्रे विराजते । यद्यपि देववाणीवाड्मये रूपकाणां सङ्ख्या परिमिता न विद्यते, तथापि तत्र जनानां प्रीतिः साम्प्रतं न दृश्यते । अत एवाऽऽधुनिकजनानामाराधनायै अवस्थिमहोदयेन 'नाट्यनीराजनम्' प्राकाश्यमनीयत ।
ग्रन्थेऽस्मिन् अष्टादश रूपकाणि विलसन्ति-ईश्वर: कुरुते हितम्, वीराङ्गना 3 सुन्दरी, नारीदौर्बल्यम्, अबलोद्धारः, पाठशालानिरीक्षणम्, वरान्वेषणम्, वैरीभवति AM सौहृदम्, यौतकमनर्थकरम्, मन्त्रदानम्, ज्योतिर्दर्शनम्, धूर्त धूर्ततया जयेत्, 4
तिलकोत्सवः, अनुष्ठानम्, भक्तवत्सलो गोपालः, कर्मफलम्, सिद्धिचमत्कारः, ENS राजर्षिर्जनकः, अनासक्तिविशिष्यते ।
'ईश्वरः कुरुते हितम्' इति रूपकं लोककथामनुसरति । 'वीराङ्गनासुन्दरी' इत्यत्र सुन्दर्या वीरता वर्ण्यते । 'नारीदौर्बल्ये' सन्तानस्य कृते नार्या उद्विग्नता
व्यज्यते समाधानेन साकम् । 'अबलोद्धारे' येन केन व्याजेन दुष्टेनाऽपहतानां X नारीणां समुद्धारोपायो निर्दिश्यते । 'पाठशालानिरीक्षणम्' संस्कृतपाठशालानां
व्यवस्थां निर्दिशति । 'वरान्वेषणम्' यौतकसमस्यां समादधाति । 'वैरीभवति सौहृदम्' प्रणयपरिणयस्य दुर्गति ससमाधानं प्रस्तौति । 'यौतकमनर्थकरम्' यौतकलोभस्य दुष्परिणामान् सोपायं कथयति । 'मन्त्रदाने' अबलारक्षणेन
निर्दयसिंहस्य पापमुक्तिरभिधीयते । 'ज्योतिर्दर्शने' संस्कृतशिक्षाया गुणा आविXष्क्रियन्ते । 'धूर्त धूर्ततया जयेत्' इति रूपकं धूर्तविजयोपायमुपदिशति । 'तिलकोत्सवे'
Page #64
--------------------------------------------------------------------------
________________
ON
धनस्य लोभाज्जाता विपत्तय उच्यन्ते । 'अनुष्ठाने' देवोपासनायां चरितस्य भावस्य मन्त्रोच्चारणस्य च शुद्धता प्रतिपाद्यते । 'भक्तवत्सलो गोपालः' इति रूपके भगवतः श्रीकृष्णस्य भक्तवत्सलता चमत्कारेण सार्धं प्रस्तूयते । 'कर्मफले' सिद्धयो वर्ण्यन्ते । 'राजर्षिर्जनकः' इत्यत्र जनकस्य निर्मोहत्वं योग्यशिष्यत्वं चोच्यते । 'अनासक्तिर्विशिष्यते' इति रूपकेऽनासक्तत्वात् श्रीकृष्णस्य ब्रह्मचारित्वं महर्षेर्दुर्वाससश्च तृणपत्रभोक्तृत्वं प्रस्तूयेते । ग्रन्थात् प्राग् ग्रन्थकृतो भूमिका, तत्पत्न्याः
प्रकाशकीयम् (हिन्दीभाषया), तस्य प्रशस्तयश्च शोभन्ते । प्रत्येकपृष्ठे ग्रन्थकारस्य Xनामाऽपि राजते ।
ग्रन्थकारेण नाट्यनीराजनस्य प्रणयनं यदुद्दिश्य विहितं तत्र सर्वथा साफल्यं दृश्यते । ग्रन्थेऽस्मिन् सङ्कलितानि सर्वाणि रूपकाणि स्वल्पकालेन सरलतयाऽभिनेतुं Y सामाजिकान् च प्रसादयितुमर्हन्ति । प्राचीननाटकेषु यथा प्राकृतजना स्वमातृभाषया /
वदन्ति, तथैवाऽत्राऽपि केचिदसंस्कृतज्ञा आङ्ग्लभाषया स्वभाषयाऽशुद्धसंस्कृतेन वा। तद् यथा"प्रकाश:- ओ मम्मी डू यू नाट् नो इंगलिश् ऐट्लीस्ट ? (मातः ! किं त्वं .
किञ्चनमात्रमपि अंग्रेजी न जानासि ?) प्रमीला - नाऽवगच्छामि । सत्यं कथयामि ।
इट्स स्टैंज (अत्याश्चर्यमिदम्) । मम्मी ! देन् प्लीज इंगेज ए ट्यूटर ) फार मी। (मातः ! तर्हि कृपया मम कृते गृहशिक्षकमेकं नियोजय।) आई कैन् नाट् डु वेल विदाउट ए ट्यूटर । (अहं गृहशिक्षकं विना
सुष्ठ सम्पादयितुं न शक्नोमि ।)" (नाट्यनीराजनम्, पृ. ७८-८०)
वर्तमानकाले संस्कृतरूपकाणां द्रष्टारोऽध्येतारो वा प्रायशः संस्कृतज्ञा एव M भवन्ति । अतः साम्प्रतं संस्कृतरूपकेषु सर्वैः संस्कृतभाषाया एव प्रयोगो and युक्ततरोऽस्ति । तत्र भाषायाः सारल्यम्, समासानां स्वल्पप्रयोगः, वक्तुर्विवक्षामधिकृत्य च पदानां सन्धिरहितत्वं कर्तुं शक्यते ।
ग्रन्थेऽस्मिन् समाजस्य, राष्ट्रस्य, संस्कृतजगतश्चाऽपि समस्यां समाश्रित्य X प्रणीतान्येतानि रूपकाणि नितरां रम्याणि मार्मिकाणि संस्कृतभाषायाश्च प्रचारे
प्रसारे संवर्धने चाऽतीवोपयोगीनि सन्ति । आधुनिकभारतीयसमाजस्य विनाशिनी
समस्या यौतकप्रथा विद्यते । तामधिकृत्य रचितं रूपकत्रयं (वरान्वेषणम्, Xयौतकमनर्थकरम्, तिलकोत्सवश्च) यथार्थं प्रस्तूयाऽपि समस्यायाः समाधानाय
प्रकाशः -
Page #65
--------------------------------------------------------------------------
________________
XXXXXXXXXXXXXXXXXX
मार्ग दिशति । तद् यथा 'वरान्वेषणे' वरदासम्पादको यौतकं विना देवतादीनस्य पुत्र्याः पाणिं गृह्णाति ।
संस्कृतपाठशालानां दुःस्थितिं तत्र छात्राणां संख्या, तेषां चाऽध्ययने रुचि को न जानाति ? 'पाठशाला-निरीक्षणम्' इति रूपकं पाठशालानां सुव्यवस्थायै प्रेरणामेकां प्रबोधयति । तत्र निरीक्षकः सत्यं वक्ति - 'प्राचार्यमहोदय ! भवान् समाजनिर्माणस्य दायित्वं वहति तथापि पाठशालाया इयं दुर्दशा ? इदं महदनुचितम् । अद्यप्रभृति पाठशालायाः सुव्यवस्था विधातव्या । रक्षितव्या च सर्वथा गीर्वाणवाणी। छात्राणां भविष्यं चोज्ज्वलं करणीयम् ।' (तदेव, पृ. ३७-३८)
पूतचरिता नार्यो दुर्जनानां कुचक्रेण दूषिताः पतिता वा भवन्ति । तासां समुद्धाराय युक्ततरं पन्थानं प्रदिशति 'अबलोद्धारः' इति रूपकम् । अस्य W ग्रन्थस्याऽन्यान्यपि रूपकाणि समाजस्य न केवलं यथार्थं प्रस्तुवन्ति, अपि च तस्य
कल्याणाय सन्मार्गमप्युपदिशन्ति । संस्कृतनिष्ठस्य ग्रन्थकृतो ग्रन्थेऽस्मिन् K संस्कृतेऽनुरागः सर्वत्र विद्यते । दृश्यताम्
'नाऽधीतं संस्कृतं येन न ज्ञाता तेन संस्कृतिः ।
अपूर्ण जीवनं तस्य संस्कृतं संस्कृति विना ॥' (तदेव, पृ. ७८) ग्रन्थस्य मुद्रणं प्रायशः त्रुटिरहितम् अस्ति । एतदर्थमाचार्यवर्यः सर्वथा धन्यवादमर्हति । ग्रन्थोऽयं सर्वैः संस्कृतज्ञैस्तदनुरागिभिश्चाऽध्येतव्यः संग्राह्यश्च वर्तते। KWD विविधावसरेषु रूपकाणामेतेषामभिनयनं समाजस्य संस्कृतस्य च हितं कुर्यात् । ।
एस-II/३३०, राज्यशिक्षासंस्थान कालोनी.
एलनगञ्जः, प्रयागः, उ.प्र. २११००२)
विहाय पौरुषं कर्म, यो दैवमनुवर्तते । तद् विनश्यति तं प्राप्य, क्लीबं पतिमिवाऽङ्गना ॥
Page #66
--------------------------------------------------------------------------
________________
ग्रन्थसमीक्षा
'कथाद्वादशी')
समीक्षकः डॉ. रूपनारायणपाण्डेय:
ग्रन्थकार: आचार्य बाबूराम अवस्थी । (वाजपेयी कालोनी, लखीमपुर-खीरी) प्रकाशकः श्रीकृष्णमिश्रः, अरविन्द कोलोनी, लखीमपुर-खीरी 1 प्रथमं संस्करणम् २००१ ई. पृ.सं. ८+११२ । मूल्यम् - ७५/
who विराजतेतरां विपुलतरं कथासाहित्यं देववाणीवाड्मये, किन्तु नूतनकथा
शिल्पदृष्ट्या प्रणीताः कथा विपुलतरा न सन्ति । साम्प्रतं डॉ. राजेन्द्रमिश्र- डॉ.
प्रशस्यमित्रशास्त्रि - डॉ. प्रकाशमित्रशास्त्रि - डॉ. अशोकन - डॉ. केशवचन्द्रदाश* प्रभृतिभिर्नूतनकथाभिः संस्कृतवाङ्मयस्य श्रीः सन्तन्यते । तेषामेव परम्परायां - 'कथाद्वादशी' इति ग्रन्थ आचार्येन बाबूराम-अवस्थिमहोदयेन प्राणायि ।।
ग्रन्थेऽस्मिन् द्वादश कथाः सन्ति-गुरुभक्तिः, अलङ्कारमञ्जूषा, अनघा, र * प्रभुस्त्यागेन तुष्यति, बं-बं महादेव, असाधोः साधुता, रङ्गभङ्गम्, अजाचारणम्,
भवितव्यता, आश्रमरक्षा, यथोप्तं तथाऽऽप्तम्, शैला च । परिशिष्टेऽप्येका 'निर्दोषाकृतिरीश्वरस्य' वर्तते । 'गुरुभक्तौ' गुरावनन्यनिष्ठस्य शिष्यस्य परीक्षणं विद्यते । 'अलङ्कारमञ्जूषायाम्' सुबाला स्वकीयालङ्कारमञ्जूषाया भूषणानि स्वपत्युर्भगिन्या विवाहावसरे 7 प्रदाय तत्र पुस्तकानि निदधाति । 'अनघा' इति कथायां रजनी, गुरुजनानामनुज्ञां ।। विनैव, स्वपत्या सह समागमं विधाय, परित्यक्ता सती गोमतीजले पतिता, पत्या च रक्षिता । 'प्रभुस्त्यागेन तुष्यति' इत्यत्र प्रभोः कृते सर्वस्वत्यागस्य महिमाऽभिधीयते । 'बं बं महादेव' इति कथायां शिवभक्तानां 'बं बं' इत्युच्चारणेन आङ्ग्लकुटुम्बस्य बमभीतिरुच्यते । 'असाधोः साधुता' इति कथायां कस्यचिदसाधोः
सद्व्यवहारो वर्ण्यते । 'रङ्गभङ्गे' जीवने सुखसमये कथं कुलीनाया उपरि वज्रपात: 7 द सञ्जातः ? इति रम्यतयोद्यते । 'अजाचारणे' लुब्धस्य द्रविणदासस्य शोषणप्रवृत्तेः ।
समीचीनं समाधानं युवकानां जीविकाविहीनानां दुर्दशाया साकं सम्प्रस्तूयते । 'भवितव्यतायाम्' अपि रङ्गभङ्गमिव विधिविधानस्य प्राबल्यं प्रतिपाद्यते । 'आश्रमरक्षायाम्' कल्पनाबलेन भारतस्य प्राचीनं नूतनं च स्वरूपं विशदीक्रियते । 'यथोप्तं तथाप्तम्' इति कथायां कृपणः कामाधीनः कामवासनया यत्करोति -
५३
Page #67
--------------------------------------------------------------------------
________________
तत्फलमधिगच्छति । 'शैलायाम्' कुसङ्गात् शैला स्वहितकरं पतिकुलं परिहरति । - पश्चाच्च सन्तप्य पुनः तच्छरणं याति । 'निर्दोषाकृतिरीश्वरस्य' इति कथायामेकेन र
कुतर्कशीलेन युवकेन परमेश्वरस्य सर्जनाया निर्दोषत्वमनुभूयते । ग्रन्थात्प्राग्लेखकपरिचयः, निवेदनं, भूमिकाऽभिनन्दनञ्च शोभन्ते । प्रत्येकपृष्ठे ग्रन्थकृतो नामाऽपि राजते । अत्र सङ्कलिताः कथा प्रायशो विविधपत्रपत्रिकासु पूर्वमपि प्राकाश्यं नीताः सन्ति ।
ग्रन्थेऽस्मिन् सङ्कलिताः सकला: कथाः समाजस्य विविधाः समस्याः समाश्रित्य सोद्देश्यं लिखिताः । एतासां भाषा सरला, समुदारार्थभरिता, स्वल्पसमासयुता, यथायथं सालङ्कारा, प्रसङ्गानुकूलं च भावचित्रणे सुशक्ता । तद्यथा - "मानवजीवने त्वेकं प्रेमैव सारम् । स एव धन्यो महाभागः, येनाऽस्मिन् ;जीवलोके स्वस्थं सुन्दरं च शरीरं नवयौवनं वासनावासितं मनः, मनोऽनुकूलं प्रेमपात्रं च प्राप्तम् । प्रेम्णैव जीवने वैचित्र्यमुत्पद्यतेऽन्यथा तिर्यग्जीवितमिव जीवनमपि किञ्चिज्जीवनम् ?
अथ रजनी जीवनगगने सुधांशोरुदये स्वागताय स्वीयमनिन्दितं सौन्दर्यनिधि - - तस्मै समुपाहरत् ।" (कथाद्वादशी, पृ. ३८)
अत्र 'अनिन्दितं सौन्दर्यनिधि तस्मै समुपाहरत्' इत्यनेन तयोः समागमस्य यः सङ्केतो विहितः, स सर्वथा समीचीनोऽस्ति । इत्थं ग्रन्थेऽस्मिन्नौचित्यस्य सर्वत्र - संरक्षणं शोभते । पात्राणां मनोभावानां चित्रणे कथाकृतो नैपुण्यं नितरा
मभिनन्दनीयमस्ति । पतिकुलेन साकं कलहं विधाय, पत्युः पृथग्भूता च शैला . चिन्तयति - "हा हन्त मया शोभनं न कृतम् । कुटिलहृदयायाः कुटिलविचारश्रवणेन मम बुद्धिर्हता । जानत्याऽपि हतभागिन्या मया देवतुल्यः ।
पतिरनादृतस्त्यक्तश्चेति... संसारे नार्याः कृते पत्युः सौभाग्यमेव सकलवस्तुजात* मतिशेते ।... अधुना किं करोमि, कुत्र गच्छामि, केन प्रकारेण पुनस्तान् मिलेयम्,
मिलितामपि मां तेऽधुना स्वीकरिष्यन्ति न वेति ?" (तदेव, पृ. १०८) अन्यच्च र * पतिगृहं गच्छन्त्याः कन्याया मनोभावा द्रष्टव्याः "अद्यतोऽहं मातृकुलस्य कृतेऽ
न्यदीयाऽस्मि संवृत्ता । श्वशुरगृहं गत्वा कथं निवत्स्यामि ? इदं गृहं नगरं च दूरे भविष्यति । इमे मार्गा वृक्षाः पशवः पक्षिणश्च सहबन्धुभिर्दुर्लभदर्शना भविष्यन्ति ।
नूतनं वातावरणम्, नवनवाकृतिप्रकृतिविशेषा जना मिलिष्यन्ति । तत्र कथं न - व्यवहरिष्यामि ? प्रथममिलनवेलायामेनमासाद्य कथं प्रसादयिष्यामि ? दर्शन
Page #68
--------------------------------------------------------------------------
________________
लालसाऽपि कथं चक्षुष्युन्मीलयिष्यामि, कथं चोत्तरिष्यामि वक्तुकामाऽपि - प्रियवचनानि ? श्व एव विदायदिवसः । एकतो वियोगोऽपरतश्च संयोगः । दोलारूढमिव के 5 मे मनो युगपदेव सङ्कुचति, विकसति, द्रवति, कम्पते च ।" (तदेव, पृ. ६४
आधुनिकसमाजस्य वर्णने कथाकारस्य दृष्टिर्यथार्थमूला वर्तते । वृत्तिरहितानां की युवकानां स्थिति को न जानाति ? दृश्यताम्-"कृषकाणां श्रमिकाणां शिल्पिनां * व्यापारिणां चोपाधिधारिणो बालका स्ववंशपरम्परागतं व्यवसायं विसृज्य नगरेषु
वृत्त्यर्थं धावन्ति ।... वृत्तिमनवाप्य बहवो युवानो नगरनिवासलुब्धा रिक्शां वहन्ति, शाकं विक्रीणन्ति, भोजनालयेषु पात्राणि च प्रक्षालयन्ति, उपानत्सु पङ्कलेपनं २ कुर्वन्ति ।" (तदेव, पृ. १०८)
अत्र सङ्कलिताः सर्वाः कथाः पाठकानां हृदयमेव न स्पृशन्ति, चित्तमेव MAN न प्रसादयन्ति, अपि तु समाजस्य, राष्ट्रस्य, विश्वस्य च जगतो हितपथमप्युपदिशन्ति । दा
यद्यपि ग्रन्थस्य मुद्रणे महान् प्रयासो विहितः, तथापि यत्र-तत्र (विशेषेण रूपेण रूकारस्य स्थाने रुकारस्य) मुद्रणस्खलितानि (द्र० - पृ. १, २२-२४, ३७, ४१, . ६२, ६७, १०२ इत्यादि) वर्तन्ते । कृतिरियं सर्वैः पठनीया साह्या च । जयतु का संस्कृतं संस्कृतिश्च ।
नोऽप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ।।
AND
60
५५
Page #69
--------------------------------------------------------------------------
________________
वारं वारं हसामि
मुनिधर्मकीर्तिविजयः
अहं शालायां पठन्नासम् । 'अष्टमी-नवमी' इति द्वयोः कक्ष्ययोर्गुर्जरविषयं पाठयितुमेकः शिक्षकस्तदाऽऽगच्छति स्म । स वायुपूर्णफुद्र इव बृहत्काय आसीत् । कुम्भसदृशमुदरं गृहीत्वा स चलतीति प्रतिभासते स्म । अस्मादृग्जनानां तु चत्वारः पादांशुकास्स्युस्तावान् विस्तीर्णस्तस्य पादांशुक आसीत् । तत आगच्छन्तं तं दृष्ट्वैव सर्वेऽपि विद्यार्थिनो 'टट्टु झब्भो' इति नाम्नाऽऽरार्टि कुर्वन्तो हसन्ति स्म । स वेत्रयष्टिं गृहीत्वैव सर्वदा शालायामटति स्म । मार्गे यं कमपि विद्यार्थिनं पश्यति तमेतद्यष्टिना ताडयति स्म । ततो दूरत आगच्छन्तं तं निरीक्ष्यैव सर्वेऽपि विद्यार्थिनस्तं मार्गं विहायाऽन्येन मार्गेण प्रतिगच्छन्ति स्म । स सप्ताहे एकदैव कक्ष्याया - मध्यापयितुमागच्छति स्म । कक्ष्यायां प्रविशन्नैव स प्रथमपङ्क्तौ स्थितान् सर्वानपि विद्यार्थिनस्तद्यष्टिना ताडयति स्म । ततो यदा गूर्जरविषयस्य वर्गः स्यात्तदा सर्वदा कक्ष्यायां प्रथमपङ्क्ती रिक्तैव भवति स्म । कदाचित्तु द्वितीयपतिरपि रिक्ता भवति स्म यतस्सर्वेऽपि विद्यार्थिनस्स्वस्थानादुत्थाय चरमपङ्क्तौ उपविशन्ति स्म ।
स्मरणम्
अपराधं विनाऽपि मया बहुशो यष्टिप्रहारः सोढः । तथाऽपि वयं सर्वेऽपि परीक्षावेलायां परीक्षकरूपेण तमेवेच्छामः स्म । आङ्ग्लविषये मे गतिर्मन्दाऽऽसीत् । अतस्तत्परीक्षाकाले एष परीक्षकरूपेणाऽऽगच्छेदिति प्रार्थितवानहम्। दैववशात् सा प्रार्थना सफलीभूता । चित्तेऽतीव प्रसन्नता प्रसृता, यतोऽहमाङ्ग्लविषये उत्तीर्णो भविष्याम्येवेति मे प्रतिभातम् ।
अपवरके प्रविशतैव तेनाऽग्रेस्थितास्सर्वेऽपि विद्यार्थिनस्ताडिताः । पश्चात् प्रश्नपत्रं दत्तम् । किञ्चित्कालानन्तरं 'गुरुजी !' अस्य कोऽर्थः ? इति प्रष्टुं गतवान् तत्राऽहम् । स्खलितनिद्रेण तेन पञ्चषा यष्टिप्रहाराः कृताः । पश्चान्मां गृहीत्वा चतुरविद्यार्थिनो निकटमानीतवान् । तस्मै विद्यार्थिने यष्टिप्रहारं दत्त्वैनं सर्वमपि प्रश्नोत्तरं लेखय इत्युक्तवान् स शिक्षकः । मयाऽपि सानन्दं निराबाधं च सर्वमपि लिखितम् । उत्तीर्णतां प्राप्तुमप्ययोग्योऽहमाङ्ग्लविषये ६० गुणाङ्कान् प्राप्तवान् । प्रसङ्ग एष यदा स्मृतिपथमायाति तदा तदा मुहुर्मुहुर्हसामि ।
५६
0000000
00
Page #70
--------------------------------------------------------------------------
________________
matla8-tgts
arestha
___ अहो मातृत्वम् !!
ashlete
(सत्यघटना)
मुनिरत्नकीर्तिविजयः ।
_ 'इडर'नगरस्य समीपे 'दावड' नामक एको ग्रामोऽस्ति । तस्य च * ग्रामस्य समीपवर्तिनि प्रदेशेऽपर एको 'लेइसमलापुर' नामको लघुग्रामोऽस्ति । ।
बहुलतया तत्र क्षत्रिया वसन्ति । तत्रत्यानि गृहाण्यपि ह्यावलिरूपेण व्यवस्थितानि २. सन्ति । गृहाणामन्तिमायाः पङ्क्तेः पश्चाद्भागे ग्रामीणानां क्षेत्राणि सन्ति । क्षेत्राणां । । यत्राऽवधिरस्ति ततः पर्वतश्रेणिरारभ्यते ।
अत्यन्तं श्रमिका अत्रत्या जनाः । प्रायशः कुटुम्बस्य प्रत्येकं जनः . कृषिकार्यं करोति स्म । एतादृश एवैक: परिवारस्तत्र निवसति स्म । 'गुमाना'भिधः । परिवारस्य वृद्धजन आसीत् । परिवारे तस्य वृद्धा पत्नी, द्वौ पुत्रौ, पुत्रवध्वौ र चाऽऽसन् ।
शीतकालः प्रवर्तमान आसीत् । तत्राऽपि रात्र्यागमने तु सर्वोऽपि जनः । * सर्वाङ्गः शीतेन वेपते । शुष्ककाष्ठखण्ड-तृण-पर्णादिकमेकत्र कृत्वा तान् प्रज्वाल्य MS तापकं कृत्वा शीतमपनयन्ति जनाः । वृद्धस्याऽस्य गृहं त्वन्तिमायां पङ्क्तावासीत् । । * तत्पश्चाद्भागे क्षेत्राण्यासन् ।
तस्य द्वे अपि पुत्रवध्वौ कार्यकुशलिन्यावास्ताम् । प्रात:काले ब्राह्ममुहूर्तात् ।। पूर्वमेव निद्रां त्यक्त्वा गृहकार्येषु व्यापृते जायेते स्म । तस्यां रात्रावपि नित्यमिव । * ज्येष्ठा वधूर्जागृताऽभवत् । गृहकार्यं प्रभूतमासीत् । किन्तु, तया सार्द्धमेव तस्याः ।
सप्तमासीयः पुत्रोऽपि जागृतोऽभूत् । रोदनं च तेनाऽऽरब्धम् । अथ किम् ? एकत्र कार्यव्यग्रत्वमन्यत्र च पुत्रस्य दायित्वम् ! किं करणीयम् ? किञ्चिद् विचार्य शयानां स्वश्वश्रू प्रति सा गतवती
'मातर् ! भो ! मातर् !.... मातर् !' – इत्युद्बोधितवती । किन्तु गाढनिद्रावशात् Neसा नाऽवबुद्धा । अतो हस्तेन तां विधुनाति ।
___ सहसोत्थाय - 'किमस्ति रे ?' - सा उवाच ।
५७
Page #71
--------------------------------------------------------------------------
________________
मातर् ! एष दारकः .... । किमस्ति दारकस्य ! पश्यतु मातर् ! एष रोदिति । कथं मया गृहकार्यं करणीयम् ?
पश्चाद्भागे क्षेत्रे तव श्वसुरः स्वपन् स्यात् कृशानुना वा तापयन् स्यात्, तत्र मुञ्चत्वेनम् ।
'ओम्' इत्युक्त्वाऽऽश्वस्ता सती सा क्षेत्रं प्रति गतवती । दूरत एव प्रज्वलितं AY, तापनकं दृष्टम् । तत्समीपे खट्वायां श्वसुरः सुप्त आसीत् । तापनकेनैव शीतापनयनं ।
शक्यमासीत् तेषाम् । न तेषां पार्वे नीशार ऊर्णप्रावारकं कम्बलं वाऽऽसन् येन A शीताद् रक्षणं स्यात् । कठोरपरिश्रमानन्तरमपि केवलं द्विर्भोजनमेव ते प्राप्नुवन्ति ।
स्म । नाऽन्यद् वैभवं तेषामासीत् । - वृद्धोऽपि स श्रमातिरेकाद् गाढनिद्रां प्राप्तवानासीत् । सर्वत्र कज्जलVश्यामलोऽन्धकारः प्रसृत आसीत् । वधूश्च दारकं गृहीत्वा तत्राऽऽगतवती।
*भा ! ओऽऽऽ भा !' - इत्युच्चारितवती । किन्तु वृद्धस्य नासिकाया । - घर्घरध्वनौ तस्याः शब्दा विलीना जाता । अतः पुनः सा सम्बोधितवती
भा! ओऽऽऽ भा ! - इति । तदा कश्चित् सञ्चारो वृद्धस्य शरीरे सञ्जातः । * अत 'उत्थित' इति मत्वा-'भा ! अत्र मुक्तोऽयं दारकः । सम्भालयत्वेनम्'इत्युक्त्वा सा गतवती ।।
किन्तु वृद्धस्त्वथाऽपि नोत्थितः, गाढं निद्रित एवाऽऽसीत् । दारकस्त्वेष * शनैः शनैः स्वहस्तपादानुच्छालयति स्म । मन्दं मन्दं च रोदित्यपि ।
अत्र तस्य माता तु गृहकार्ये व्यापृता जाता । दधिमथनादि कृत्वा तक्रं नवनीतं च विभज्य नवनीताद् घृतमपि निष्पादितं तया । सर्वेभ्योऽपि गृहकार्येभ्यो निवृत्त्य सा स्नानादिकं कृतवती । तस्या पतिामान्तरं गतवानासीत् । वस्त्रक्षालनगृहसम्मार्जनादि सर्वं कार्यजातं यदा सम्पन्नं जातं तदा सूर्योऽपि स्वरथमारुह्य पूर्वाकाशं रक्तवर्णेन रञ्जयन्नागतवानासीत् ।
कार्यजातान्निवृत्ता सती सा यावत् किञ्चिद् विश्रान्तिमनुभूतवती तदैव M पुत्रस्तस्याः स्मृतिपथमागतवान् – 'हे ! क्व मे दारकः ?'-इति । युवतिरासीत् सा, * * 'भा' इति वृद्धजनस्य सम्बोधनम् ।
५८
Page #72
--------------------------------------------------------------------------
________________
1 तस्या मातृत्वमुच्छलितमभूत् । धावन्तीव सा गृहस्य पश्चाद्भागे क्षेत्रं गतवती । तापनकं प्रज्वलितमासीत् । ततः किञ्चिद् दूरमेव तया यद् दृष्टं तेन तस्या मुखं व्यादितमेव स्थितम् । साऽऽराटिं कृतवती "ओ मातर् ! रे sss !" । दृश्यमेव _तादृशमासीद् येन नेत्रे निमीलनं हृदयं च स्पन्दनं विस्मृयुः ।
तापनकात् किञ्चिद् दूरमेवैको भयानको व्याघ्र उपविष्ट आसीत् । तस्य च हस्तयोस्तस्या दारक आसीत् । एतद् दृष्ट्वैव सा कम्पितवती । चीत्कारोऽपि तस्या मुखान्निर्गतः, क्षणं तत्रैवमेव सा स्थिता । पश्चाद् भीता सती गृहं प्रत्यागत्य श्वश्रू सर्वं निवेदितवती । प्रातिवेशिकैरपि ज्ञातो व्यतिकरः । एवं च सर्वत्र ग्रामे प्रसृतेयं वार्ता वायुवेगेन । यैरपि श्रुतमेतत् तेषां समेषां मुखेभ्यो 'हें !!' इत्याश्चर्योद्वारो • निःसृतः । एतादृशं तु न कदाऽपि दृष्टं श्रुतं वा केनाऽपि यद् व्याघ्रो बालकं रमयेत् ! किन्तु सत्यमासीदेतत् ।
गृहे जनसम्मर्दः सञ्जातः । सर्वेऽपि स्वस्वाभिप्रायं दर्शयन्त आसन् । "व्याघ्रं गुलिकास्त्रेण मारयतु', 'शरेण प्रहरतु', 'आरक्षकानाह्वयतु' - इत्यादि ।' जनसम्मर्दः सर्वोऽपि क्षेत्रं प्राप्तवान् । दूरं स्थित्वैव तद् दृश्यं दृष्टवान् । किन्तु बालकस्य माता रुदत्यासीत्, यतस्तस्या हृदयस्पन्दनतुल्यः पुत्रो व्याघ्रस्य : हस्तयोरासीत् । कुटुम्बस्य वृद्धस्त्वथाऽपि खट्वायां गाढं प्रसुप्त एवाऽऽसीत् । सर्वेषां मनस्येक एव प्रश्नः पुनः पुनः समुपस्थितो भवति स्म यत् - कथमेष दारको व्याघ्रहस्तात् प्रापणीयो रक्षणीयश्च ? ।
शरप्रहारो गुलिकास्त्रप्रयोगो वोभयावप्युपायौ न समुचितौ । यतः स्वल्पेनाऽप्यनवधानेन बालकस्य प्राणसंशयो जायेताऽपि । गुलिकाप्रक्षेपेण यदि व्याघ्रः कुद्धः स्यात् तदा बालकस्याऽस्य का गतिः ? - इत्यादिकं सर्वमपि चिन्तनीयमस्ति । सर्वेषां हृदि भयं प्रसृतमासीत् किं करणीयमिति ।
तदा कश्चिद् विवेकी वृद्धजनो बालकस्य मातुः समीपमागत उक्तवांश्च" वधु ! अधुना त्वेक एवोपायोऽस्ति" - इति ।
“किं तत् ?" वधूः पृष्टवती ।
" त्वं माताऽसि । तवाऽयं बालो । व्याघ्रेणैव गृहीतोऽस्ति । त्वमेव धैर्यमवधार्य तत्समीपं गच्छ । यद्यपि व्याघ्रस्तु हिंस्र प्राणी तथाऽपि तस्य हृदयेऽपि करुणा विद्यत एव। पशवो न शतप्रतिशतं पशुत्वमावहन्ति, न च मनुष्याः
५९
Page #73
--------------------------------------------------------------------------
________________
शतप्रतिशतं मनुष्यत्वम् । मनुष्येषु यथा कदाचित् पशुत्वं दृश्यते तथा पशुष्वपि, कदाचिन्मनुष्यत्वं परिलक्ष्यत एव । अतः पुत्रि ! त्वमेव व्याघ्रसमीपं याहि । हस्तौ संयोज्य विज्ञप्तिं कुरु । व्याघ्रोऽवश्यमेव तुभ्यं बालकं समर्पयिष्यति " इति वृद्ध
उवाच ।
वृद्धपुरुषस्य वचनानां श्रवणमात्रेणैव तस्याश्चित्ते धैर्यमुद्गतम् । यतो माताऽऽसीत् सा । पुत्राय माता यत्किमपि कर्तुं पारयत्येव । उक्तमपि"प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं, नाऽभ्येति किं निजशिशोः परिपालनार्थम् ?" इति ।
साऽपि साहसमवलम्ब्य धैर्येण पदं निदधती व्याघ्रस्य सम्मुखं गतवती । : तत्समीपं गत्वा स्वोत्सङ्गं दर्शयन्ती सगद्गदस्वरेणोक्तवती 'भो ! व्याघ्र ! ममैष लघुबालो मह्यं समर्पयतु ।'
व्याघ्रोऽपि तस्या मुखं दृष्टवान् । परस्परं दृष्टेरनुसन्धानं जातम् । व्याघ्रस्य दृष्टेः क्रौर्यं व्यपगतमिवाऽऽभाति स्म । तस्याऽपि हृदये करुणाभावः समुद्गतः । बालकं हस्तयोर्गृहीत्वा व्याघ्रस्तन्मातुः समीपमागतवान् । हस्तौ प्रसार्य बालकं तस्या उत्सङ्गे मुक्तवान् । तदनु क्षणमपि तत्राऽस्थाय उच्छलन्निव समीपवर्तिनि पर्वतीयप्रदेशेऽदृश्योऽभूत् ।
* ★
निपानमिव मण्डूकाः सरः पूर्णमिवाऽण्डजाः । शुभकर्माणमायान्ति विवशाः सर्वम्पदः ॥
६०
Page #74
--------------------------------------------------------------------------
________________
(कथा) गुरुदृष्टिः
EMA
मुनिधर्मकीर्तिविजयः
दशानां वर्षाणां साधनाया अन्ते "अन्येषां जीवानां साधनां कारयितुं' जो योग्योऽस्मि" इति विचिन्त्य बुद्धशिष्योऽङ्कमालो गुरोः समीपं जगाम । प्रभो ! "अहं लोककल्याणार्थं गन्तुमिच्छुक" इति तेन निवेदितं गुरवे ।
"अन्यस्मै दातव्यं किमपि त्वयि नास्ति । ततोऽधुना साधनां कृत्वा । 6 योग्यतां प्राप्नुहि" इत्याह बुद्धः ।
पुनस्तेनाऽङ्कमालेन साधना प्रारब्धा । पूर्ववद् दशवर्षाणामन्ते गुरोः सविधे गत्वा तेनोक्तं "क्रोधादिविजये पारङ्गतोऽहं, ततो यदि भवान् मामाज्ञापयेत् तर्हि ३ लोककल्याणार्थं गच्छेयम्" इति ।
तस्य वदनं वीक्ष्य बुद्धोऽवोचत् - "त्वया विनयादिसद्गुणाः शिक्षिताः, । तथाऽपि यदा त्वं मे परीक्षायामुत्तीर्णो भवेस्तदैव त्वं पारङ्गत इति वक्तुं शक्यम्" ।
अन्यदा बुद्ध उपासिकाया आम्रपाल्या गृहं गतवान् । अङ्कमालोऽपि गुरुणा साकं तत्र प्रयातः । तस्याः स्त्रिया अनुपमं रूपं संदृश्य क्षणार्धं स अङ्कमालो । रागी बभूव ।
___सन्ध्याकाले बुद्धेनाऽऽदिष्टौ द्वौ भिक्षुकौ कठोरवचनं तस्मै अश्रावयताम् । ततोऽङ्कमाल: क्षणं क्रुद्धोऽभवत् ।
प्रातर्बुद्धस्य निकटं गतोऽङ्कमाल: । बुद्धेन "किं रागविजये द्वेषविजये च - त्वं पारङ्गत इति कथनमुचितं न वे'ति पृष्टम् ।।
___ अङ्कमालो लज्जालुर्बभूव । “प्रभो ! नैव पारङ्गतोऽहम्, किन्तु स्वल्पोऽपि NE शिक्षितोऽहमिति कथनेऽपि शङ्का भवति ।"
एषैव गुरुदृष्टिः ।
Page #75
--------------------------------------------------------------------------
________________
Ramaste
(कथा) मिथ्याभिमानः
मुनिधर्मकीर्तिविजयः एको 'नन्दी' नाम लघुग्रामोऽस्ति । तत्र केवलं द्विशताधिका जना एव वसन्ति । ते सर्वे परस्परं संमील्यैव सर्वमपि कार्यं कुर्वन्ति । तेषां मध्ये नक
कदाचिदपि क्लेशो भवति । के तत्रैको मुसलमीनजनो वसति । 'सलीम' इति तस्य नामाऽस्ति । तस्य कर
गृहे एकः कुक्कुटो विद्यते । स जनः कस्यचिद् वणिज आपणे कार्यार्थं गच्छति । ॐ तस्य पत्नी प्रातिवेश्मिकानां गृहकार्यं विधायाऽऽजीविका निर्वहति । एवं सुखपूर्वकं
तौ कालं गमयतः । सलीमः स्वभावत उद्धतोऽभिमानी चाऽस्ति । प्रतिपदं सो- ऽन्येभ्यः कुप्यति, किन्तु तस्य पत्नी प्रशान्तचित्ता व्यवहारकुशला चतुरा चाऽस्ति।
अतस्सा क्षमा याचित्वा कुशलतया समाधानं करोति । “अस्यैतादृश एव स्वभाव" - इति जानन्तः सर्वेऽपि जना औदार्येण क्षमन्तेऽपि ।
"मम कुक्कुटस्य 'कूकडे कूक्' इति शब्दं निशम्यैव प्रातिवेश्मिका - जाग्रति, तथा तदैव प्रभातं भवति । अतः कुक्कुटो वदेत्तर्येवोषा भवेद'' इति तस्य
चित्तेऽभिमान आसीत् । ततो मे कुक्कुटस्य प्रभावादेव यूयं सर्वेऽपि सुखिनः स्थ।।
तस्याऽनुपस्थितौ भवतां का गतिस्स्यात्, इति पुनः पुनर्वदति । CR एकदैतदभिमानेनोन्मत्तस्स पत्न्यै कथयति - "यद्येष कुक्कुटो न वदेत्तर्हि कर - प्रभातं न भवेत्, ततश्चैते सर्वेऽपि दुःखिनः स्युः । अत इतः परमस्माभिरेतेषां - के गृहकार्यं न करणीय''मिति ।
पत्नी प्राह- किं भवतो मनः स्वस्थमस्ति न वा ?
___ पतिर्जल्पति - सत्यमेव कथयामि । कुक्कुटं विनैते दुःखिनो वराका की रगृहमागत्य मां विज्ञपयिष्यन्ति, तथा भीतास्ते कार्यमकुर्वद्भ्योऽपि धनधान्यादिकं । ॐ स्वयमेवाऽस्मभ्यं दास्यन्त्येव ।
सोपहासं पत्नी गदति - "भवतैतादृशो भ्रमो नाऽऽसेवनीयः । इतः परं । ॐ न कुत्रचिदप्येवं वदनीयम्" । किन्तु तेन तद्वचनं न स्वीकृतम् । स तु मम कुक्कुटो JS न स्यात्तर्हि भवतां किं स्या'"दिति मुहुर्मुहुः सर्वत्र जल्पति ।।
६२
Page #76
--------------------------------------------------------------------------
________________
सर्वेऽपि ग्रामीणा जनास्तस्य सलीमस्यैतादृशमभिमानयुक्तं वचनं वर्तनं च त निरीक्ष्य संक्रुद्धा जाताः । एव'मस्याऽभिमानो निराकरणीय एवे'ति सङ्कल्पितवद्भिस्तैस्स आकारितः । “तव कुक्कुटो भवेन वा प्रभातं तु भविष्यत्येव, तथाऽस्माकं
भाग्यबलेनैव वयं सुखिनः स्मः । अतो मिथ्याभिमानमपाकृत्य किमप्यनुक्त्वा च पर * सुखेन वस, अन्यथाऽन्यत्र गच्छ'"-इत्युक्तं ग्रामण्या । 3 "यूयमपि पश्यत, मां विना व: का स्थितिर्भवे''दिति साक्रोशं साभिमानं पर
च व्याकृत्य पादौ आस्फालयन् ततो निर्गतवान् । सदनं सम्प्राप्य 'गृहवस्तूनि १. सर्वाण्यपि एकत्र कुरु, अधुनैव ग्रामं विहायाऽन्यत्र गमिष्याव' इति पत्नीमुद्दिश्य ) स उक्तवान् ।
पत्नी पृष्टवती - किमर्थम् ?
पतिरुक्तवान् - त्वयाऽद्य किमपि न वक्तव्यम्, किन्त्वहमनुसरणीय ( एवाऽद्य । सा किमप्यनुक्त्वा गृहवस्तूनि सज्जीकृतवती । तत्क्षणमेव स पत्न्या कर
सहाऽन्यत्र गतवान् । द्वितीयदिने प्रातस्स मनसि चिन्तयति यद्, 'ममाऽनुपस्थिते: का हानिर्भवति तदद्य ते ज्ञास्यन्ति' । तावदेवैकेन पान्थेन पृष्टम् – 'भो ! नन्दीग्रामः कथं गमनीयः ?' तदा सोपहासं स गदति- 'भोः ! तत्र तु सदाऽन्धकार एवाऽस्ति, ततस्तत्र गमनेन किम् ?
पान्थो वदति - 'कथम् ?' ___स वक्ति - 'भोः ! कुक्कुटो वदति तदैव प्रभातं भवति, किन्तु स कुक्कुटस्तु मम समीपेऽस्ति । ततः कथं प्रकाशः स्यात् ?' 3 एतच्छ्रत्वोच्चैर्हसित्वा स कथयति - 'मूर्ख ! कुक्कुट: स्यान्न वा प्रभातं भवत्येव । यदि मे वचने विश्वासो न भवेत्तर्हि आवां द्वौ तत्र गच्छेव ।'
___ साक्रोशं "तव कथनमसत्यमस्ति, तथाऽपि तत्र गच्छेव" इत्युक्तवान् स । सलीमः । द्वावपि गतौ । प्रभातं दृष्ट्वैव स लज्जितो जातोऽभिमानश्च तस्य
में गलितः ।
TAGS
Page #77
--------------------------------------------------------------------------
________________
STARDS
(स्वमार्गे चलनम् ।
मुनिकल्याणकीर्तिविजयः
(कथा)
छ
पुरा किलैको दरवेश आसीत् । स्वस्थ: स्वच्छान्तःकरणः समाहितश्च । तदीयमान्तरं प्रकाशं निरीक्ष्य देवताः प्रसन्ना जाताः । ताभिरागत्याऽभिनन्दितः स कथितश्च - 'महात्मन् ! कमपि वरं याचताम् । यद् भवान् अभिलषेत् तत् प्राप्स्यते ।'
दरवेश उक्तवान् , 'याचनीयं किमपि नास्ति, किमपि नाऽभिलषाम्यहम् । कृपया भवन्त्योऽत्राऽऽगतास्तदेव मदर्थं प्रभूतम्....'
देवताभिरुक्तं, 'अथ चाऽऽगता वयं स्म एव, अतो यत्किमपि तु दातव्यमेव । वदतु भवान् , किञ्चिदपि वदतु ।'
तेनोक्तं, 'मम मनसि न किमप्युद्भवति, याचितुम् । तथाऽपीदं वक्तुं शक्नोमि यद् भवन्त्यो यद् दद्युस्तदहं सहर्षं ग्रहीष्ये....'
ताभिरुक्तं, 'वयं भवते वरमिमं दद्मो यद् - भवान् यं कमपि स्प्रक्ष्यति स, यावानपि रुग्णः स्यात् , सज्जो भविष्यति । मृतोऽपि चोज्जीविष्यति । तस्मिन् प्राणाः प्रस्फुरिष्यन्ति....'
तच्छ्रुत्वा दरवेशेन कथितं, 'तिष्ठन्तु भोः !, अनेन तु ममैव काठिन्यम् । । मृतो यद्यपि जीविष्यति परं मम तु मरणमेव भविष्यति । एतत् सर्वं कुर्वतो मे ४ ॐ चित्ते 'अहमेतत् करोमी'ति अहङ्कारो यदोदेष्यति तदाऽहं निश्चितमेव मरिष्यामि।' दर
किञ्चिद् विचार्य देवताभिरुक्तं, 'भवतु नाम, तद्देवं करिष्यामः - यस्मिन्नपि 5 ६ भवतः प्रतिच्छाया पतेत् स सुखीभविष्यति, तस्य दुःखानि रोगाश्च नंक्ष्यन्ति ।' हर
६४
Page #78
--------------------------------------------------------------------------
________________
र
ovo
तेनोक्तं, 'बाढम् । किन्तु सहैवैवमपि कुर्वन्तु - मम ग्रीवा सदैव सरला भवतु । सा कदाऽपि वक्रीभूय पृष्ठभागं द्रष्टुं शक्ता न स्यात् ।'
'भवतु, एवमेव भविष्यति ।'
तदनु, यत्राऽपि दरवेशोऽगच्छत् तत्र शुष्का वृक्षा हरिता अभवन् , पुष्पाणि फुल्लितान्यभवन् । रुग्णानां दुःखानि रोगाश्चाऽनश्यन् । दुर्भिक्षेऽपि तस्य गमनेन वृष्ट्यादिना सुभिक्षमभवत् । यत्र जलं क्षारयुतं तादृशे कुत्रचित् कूपे तटाके वाऽपि तस्य गमनेन जलं मधुरमभवत्..... ।
अथ च वर्षेषु व्यतीतेषु यदा तस्याऽन्तिमः समयः सन्निहितः, तदा ता एव देवताः पुनरप्यागताः । पृष्टवत्यश्च - 'भो महानुभाव ! किमस्माभिर्दत्तः स वरः सफलो जातो वा ?'
तेनोक्तं, 'नैव जानेऽहम् ! यतः कदाऽपि मया ग्रीवां परावर्त्य पृष्ठभागे नैव दृष्टम्, अथवा तादृशं द्रष्टुमहं शक्त एव नाऽऽसम् । अतो नैव जानाम्यहं, कदा किं जातमिति । अहं तु सदाऽपि स्वमार्गे चलनेवाऽऽसं केवलम् .... ।'
[आधार: वार्षिकोऽङ्कः ओशो टाइम्स, १९९८]
cools
शुद्धाः प्रसिद्धिमायान्ति लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः ।।
-
For Privatè & Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
ASA
उत्तमं शासनम्
मुनिकल्याणकीर्तिविजयः
RO
एकः कश्चिद् राजा स्वराज्यमत्यन्तं नीतिमत्तया पालयति स्म । सर्वा अपि... प्रजाः स्वसन्ततिवत् परिगणय्य व्यवहरति स्म सः । तासां सुखदुःखयोरेव स्वसुखर दुःखे अवलम्बेते इति मन्वानः स कदाचिदपि तासां स्वल्पाऽपि पीडा न स्यात् । A - इति जागरूकतया निरीक्षते स्म, राज्याधिकारिवर्गमपि च तादृशमेव शिक्षयति
200se
ANTAR
एवं च तस्य राज्यं निष्पीडं निष्कण्टकं चाऽऽसीत्, प्रजाजनाश्च सदा निश्चिन्ताः सुखिनश्चाऽऽसन् । तस्याऽपि च मनसि सन्तोषानुभूतिरुद्भूता, कदाचिच्च गर्वोऽपि समुद्भवति स्म।
__ अथैकदा राजाऽऽस्थान्यामुपविष्टश्चिन्तयन्नाऽऽसीद् 'यद् , 'ननु यथा मयि शासति राज्यं स्वाराज्यमिवाऽत्यन्तं सुखि सन्तुष्टं चाऽस्ति, किं तथैव मम पितुः . शासनकाले पितामहस्य वा शासनकालेऽपीदृशमेव सुखि सन्तुष्टं चाऽऽसीद् है उताऽन्यथाऽऽसीत् ? मया कथमप्येतज्ज्ञातव्यं येन निर्णीयते यद् मम शासनकाल उत्तम उत तयो'रिति ।
अतस्तेन सभासदेभ्यः पृष्टं, 'महाशयाः ! अहं ज्ञातुमिच्छामि यन्मदीयः * शासनकाल उत्तम प्रत्युत मे पितृ-पितामहयोरिति । किं विद्यते तादृशः कश्चनोपायो येनेदं ज्ञायेत ?'
तदैकेन मन्त्रिणोत्थाय कथितं, 'प्रभो ! उपायस्त्ववश्यं विद्यते सरलश्चाऽपि। यदि कस्यचन नगरजनस्य गृहे तत्पितामहः प्रपितामहो वा जीवितः स्यात् यश्च नवत्यधिकवर्षदेशीयः स्यात् , तस्मै यद्येतत् पृच्छयेत तदाऽवश्यं ज्ञायेत भवतः प्रश्नस्योत्तरम् । यतस्तेन भवतः पितामहस्य पितुश्च भवतश्चाऽपि शासनमनुभूतं स्यात् । त्रयाणामपि शासनस्य परिशीलनेन सोऽवश्यं कथयितुं शक्नुयाद् यत् कस्य शासनकाल उत्तम' इति ।
SO
For Private &
Sonal Use Only
Page #80
--------------------------------------------------------------------------
________________
SO-Ha
Da
Mi
'अयमेव उत्तम उपायः' इति सर्वैरपि समर्थनं कृतम् । तदा राज्ञाऽऽदिष्टम् ,... ‘एवं, तर्हि मृगयन्तां कञ्चित् तादृशं वयोवृद्ध जनमानयन्तु चाऽत्र, तमेव पृष्ट्वा कर ** मे शङ्कायाः समाधानं प्राप्स्यामि' ।
अथ च मन्त्रिभिः समग्रे राज्ये उद्घोषणा कारिता यद् 'यदि कस्यचित् प्रजाजनस्य वयोवृद्धेन पितामहेन प्रपितामहेन वाऽस्माकं राज्ञः पितुः शासनं पितामहस्याऽपि च शासनं दृष्टमनुभूतं च स्यात् तदा स प्रजाजनस्तं वयोवृद्धं जनं राजास्थाने आनयतु, राजा तं किञ्चित् प्रष्टुमिच्छति ।'
अथोद्धोषणामेनां श्रुत्वा जनः कश्चनोद्घोषकस्य पार्वे गतवान् कथितवांश्च, 'भो राजपुरुष ! अस्ति मे प्रपितामहः षण्णवतिवर्षदेशीयो जीवितः, येन राज्ञः पितामहस्य पितश्च शासनकालोऽनभतोऽस्ति । यद्यपि स समर्थोऽस्ति राजास्थान्यामागन्तुं राज्ञः शङ्कां च समाधातुं तथाऽपि स कथयति यद् , “यदि राज्ञो जिज्ञासा . स्यात् तदा स एव मे गृहे आगच्छेत् । अहमत्रैव तस्य प्रश्नान् उत्तरयिष्यामि" इति । अतो भवान् राज्ञे एतत् कथयतु ।'
उद्घोषकेणाऽपि सभायां गत्वैतत् कथितम् । तन्निशम्य सभासदाः सर्वेऽपि * कुपिता जाताः । 'तस्येयद् धाष्टर्यम्?' 'निगृह्यतां निगृह्यतां सः' इत्यादयः शब्दाः * सभायां सर्वत्र श्रूयन्ते स्म। तदा राज्ञा हस्तमुन्नीय सर्वेषां तूष्णीं भवितुमादिष्टं -
कथितं च, 'भोः ! सर्वेऽपि शान्तचित्तेन विचारयन्तु । तस्य वृद्धस्य कथनमुचितमेव । र यदि मे जिज्ञासा स्यात् तदा मयैव तत्र गन्तव्यम् । अपरं च, एतावति वयसि को तस्याऽत्राऽऽनयनं तु सर्वथाऽनुचितमेव । अहमेव तत्र गमिष्यामि ।'
ततश्च राजा द्वित्रा मन्त्रिणश्चाऽल्पपरिवारेण सह तस्य जनस्य गृहं गतवन्त उद्घोषकेण दर्श्यमानपथाः । तेनाऽपि जनेन राज्ञ आगमनं ज्ञात्वा यथोचितं स्वागतं . १. कृतं, सर्वेऽपि चोत्तमेषु भद्रासनेषूपवेशिताः । ततः स्वप्रपितामहस्य पार्वे गत्वा
तेन कथितं यद्, 'राजाऽऽगतोऽस्ति स्वजिज्ञासां शमयितुं, किं भवान् बहिरागच्छेद् ।
se
SO
स
वा ?'
-
तेनोक्तं, 'पुत्र ! अहमत्रैवैकान्ते एकलेनैव राज्ञा सह वार्तालापं करिष्ये । . तृतीयेन न केनाऽपि स्थातव्यमत्र ।'
'भवत्वि'ति कथयित्वा स राज्ञः पार्वे गत्वा तस्मै तद् निवेदितवान् । ई * राज्ञा तत् सहर्ष स्वीकृतम् । तत्क्षणमेव तत उत्थाय स तेन सह वृद्धस्याऽपवरके
६७
Page #81
--------------------------------------------------------------------------
________________
-
SOTE
804
* गन्तुं चलितः । सहाऽऽगमनाय सन्नद्धान् मन्त्रिणो निषिध्य स यावदग्रे गच्छति स्म ... - तावत् तेनैकस्मिन् कोणे उपविष्टः कासेनाऽत्यन्तं पीडितः सर्वथा दुर्बलश्चैको वृद्धो र * दृष्टः । तेन स जनः पृष्टः, 'किमयमेव ते प्रपितामहो वा ?'
'नैव प्रभो !, अयं तु मे पिता, बहुभी रोगैराक्रान्तदेहः कथं कथमपि __ जीवति', स उक्तवान् ।
'यद्ययं तस्य पिता तर्हि प्रपितामहस्तु कीदृक् स्यात् , कथं वा स मे प्रश्नमुत्तरयेत्' इति यावद् राजा चिन्तयति स्म तावत् तत्राऽन्यः कश्चन वृद्धस्तत्राऽलिन्दके यष्टिं गृहीत्वाऽटन् तेन दृष्टः । राजानं साभिप्रायं तत्र पश्यन्तं दृष्ट्वा । जनेन तेनोक्तं, 'अयं मे पितामहोऽस्ति । स सर्वथा स्वस्थोऽस्ति, केवलं तस्य नेत्ररोगोऽस्ति येन तस्य वीक्षणे काचिद् बाधा भवति । अत एव यष्टिं गृहीत्वा * तेनाऽटितव्यं भवति ।'
श्रुत्वैतदाश्चर्यमनुभवन् राजा यावदपवरकमेकं प्राप्तस्तावद् एको महाकाय: र पुरुषस्तत्पुरत आगतः, तं नमस्कृत्य च कथितवान्, 'धन्यभाग्योऽहं कृतपुण्योऽहं । यद् गो-ब्राह्मणप्रतिपालको महाराजः स्वयमेव मम गृहे समागत' इति ।
तच्छ्रुत्वा राजा यावत् किञ्चिद् वक्तुमुद्यतस्तावत् तेन जनेनोक्तम् , 'प्रभो! . अयमेव मे प्रपितामहः, तिलमात्रमपि रोगैरस्पृष्टो दृढकायश्च । भवान् अत्रैवोपविश्य * तेन सह वार्तालापं करोतु । अहं गच्छामि मे पितुरौषधमानेतुम् ।'
अथो विस्मयचकितो राजा तत्रैव तेन वृद्धेन सहाऽऽसने उपविष्टः, वृद्धेन । . निवेदितश्च पृष्टवान् यद् 'अहं भवते किञ्चित् प्रष्टुमिच्छामि, भवता निःसङ्कोचमेव निर्भयमेव च मे समाधानं कर्तव्यम् ।'
'पृच्छतु प्रभो ! यथेष्टम् , अहमपि यथामति भवते उत्तराणि दास्ये', इति , * वृद्धेनोक्तम् ।
भोः ! भवता हीयति दीर्घ जीवितावधौ मे पितामहस्य राज्यपालनं, मे पितू राजशासनं मम चाऽपि प्रजापालनं निरीक्षितमनुभूतं च । अतः सम्यक् * परिशील्य मां कथयतु त्रयाणामपि गुणदोषान् न्यूनाधिकभावं च । यत्किमपि
स्यात् , भवता सत्यमेव वक्तव्यं, भवदुक्तं सर्वमपि सादरमेव श्रोष्येऽहम् । तथा ' भवतो भवत्पुत्रस्य भवत्पौत्रस्य च कथमीदृशी विचित्रा परिस्थितिरस्तीत्यपि कथनीयं * भवता ।'
For Private & besonal Use Only
Page #82
--------------------------------------------------------------------------
________________
05
'प्रभो ! भवतः प्रश्नस्योत्तररूपेण मम जीवने घटितमेकं प्रसङ्ग श्रावयामि, ... तस्य श्रवणेन तदीयहार्दस्याऽवगमनेन च भवतः समाधानमवश्यं भविष्यति ।'
..... तदाऽहं विंशतिवर्षीयो युवाऽऽसम् । सस्यरक्षणार्थं रात्रौ मया क्षेत्रे एव शयनीयमिति मम पितुराज्ञा । अतोऽहं जलं लगुडं च गृहीत्वा प्रतिरात्रं क्षेत्रे
गच्छामि स्म, तत्रैवेकस्यां खट्वायां स्वपिमि स्म । मम निद्रा श्वनिद्रेवाऽऽसीत् । - ततश्च स्वल्पमपि ध्वनिं श्रुत्वा जागर्मि स्म ।' ।
राजा सश्रद्धं शृण्वन्नाऽऽसीत् ।
'एष भवतः पितामहस्य शासनकाल आसीत्' वृद्धेनाऽनुवृत्तम् । ॐ 'अथाऽन्यदा रात्रौ यामार्धे यामे वा व्यतीते सति खट्वामास्तीर्य सुप्तवानहं,
क्षणार्धेनैव च निद्रावशो जातः । मुहूर्तमानं यावत् सुप्तस्तावत् कुतश्चिन्नूपुररणत्कारं , * श्रुत्वा सहसा प्रबुद्धोऽहम् । झटिति उत्थाय यावत् पश्यामि तावत् काचित् स्त्री
तत्राऽऽगच्छन्ती दृष्टा मया । क्षणेनैव सा मत्समीपमागता । चन्द्रज्योत्स्नायां ज्ञातं. - मया यदेषा नवयौवना षोडशी सालङ्कारा सरसनेपथ्या सुरूपलावण्या कन्या व
समस्ति । "कथमियत्यां रात्रौ ग्रामाद् बहिरत्रैषाऽऽगता स्या''दिति यावदहं तर्कये । तावता तयैवोक्तं, "बन्धो ! समीपवर्तिनो ग्रामात् पतिगृहं प्रति अपराह्ने प्रस्थिताऽहं मार्गभ्रष्टा जाता । कृपया मे मार्ग दर्शयतु ।" मयाऽपि तस्याः श्वशुरादिनाम पृष्ट्वा * ज्ञात्वा च कथितं, "चलतु मया साधू भगिनि ! एषोऽहं भवत्यै मार्ग दर्शयामि" | ततस्तां तत्पतिगृहे मुक्त्वाऽहं पुनरपि स्वक्षेत्रे आगत्य सुप्तवान् । इह तावद् एवम् ।'
'अथ त्रिंशतो वर्षाणामनन्तरं पुनरप्येकदा रात्रावहं तत्रैव क्षेत्रे सस्यरक्षणार्थं । सुप्त आसीत् । एतावतैव भवतः पितामहो दिवङ्गत आसीत् । राजत्वेनाऽभिषिक्तो भवतः पिता प्रजाः पालयति स्म । अहं तु निशि तत्र सुप्तः, किन्तु निद्रा नैवाऽऽगता। अहं विचारमग्न आसीत् , तावतैव मम त्रिंशतो वर्षेभ्यः पूर्वस्य सा रात्रिः स्मृतिपथमागता, यदा सा कन्या मत्क्षेत्रे आगताऽऽसीत् । “कियन्तोऽलङ्कारा लक्षशो मूल्ययुतास्तया धृता आसन्", अहं चिन्तयन्नासम् । “यदि तदा मया तां भीषयित्वा तेऽलङ्कारा अपाहरिष्यन्त तदाऽद्याऽहं तल्लब्धधनेन वाणिज्यं कृत्वा र कोट्यधिपतिरभविष्यम् । किन्तु तदा तादृशो विचारो नैवाऽऽगतः मे चित्ते, कीदृशो मूर्योऽहमासं खलु !!" एवं चिन्तयत एव मे निद्रा समागता ।'
‘भवतः पितुः शासनं प्रायशः पञ्चत्रिंशद् वर्षाणि यावत् प्रचलितम् । तदनु .
830218
*
Parda
Page #83
--------------------------------------------------------------------------
________________
भवतो राज्याभिषेको जातः । भवानपीदानी प्रजाः पालयति सम्यक्तया । इदानीमपि ... कदाचिदहं रात्रौ क्षेत्रे स्वप्तुं गच्छामि । तत्र च स्वपतो मम यदा कदाचिन्निद्रा र नाऽऽयाति तदा सैव रात्रिः स्मर्यते विचारश्च समायाति यत् , “तदाऽहं नितरां मूर्ख हैं एवाऽऽसम् । तादृशी नवयौवने वर्तमाना कन्याऽऽसीत् सा । रूपवती सर्वाङ्गसुन्दरा चाऽपि । अहमपि उच्छलद्यौवनो दृढकाय: साहसिकश्चाऽऽसम् । यदि तां कन्यामेव - तदाऽपहृत्याऽन्यत्र कुत्रचिद् नीत्वा पर्यणेष्यं तदलङ्कारैश्च वाणिज्यमकरिष्यं तदा र कियद् वरमभविष्यत् ।" एवं च चिन्तयन्नेव रात्रिं गमयामि, यतो वार्धक्यवशात् .. कदाचिद् आरात्रि निद्रारहितो भवामि ।'
'ईदृशी मे परिस्थितिरस्ति । किन्तु यदाऽस्य कारणजातं विचारयामि तदा मे प्रतिभाति यत् भवतां त्रयाणां शासनमेवाऽत्र कारणम् । पश्यतु, यदा भवतः पितामहः शासक आसीत् तदा तस्याऽत्यन्तं सात्त्विकवृत्तित्वाद् वातावरणमपि सर्वथा सात्त्विकं, जना अपि स्वच्छान्त:करणाः, सस्यं चाऽपि सत्त्ववर्धकमभवत् ।
तस्य सत्त्वस्यैव प्रभावेन तदा रात्रौ तां कन्यां दृष्ट्वाऽपि मे चित्ते मलिनविचारो २ विकारो वा नैवाऽऽगतः । तथा तत्सत्त्वप्रभावेनैव मम शरीरमपि दृढं नीरोगि जातं
ॐ यद् अद्ययावत् तादृशमेवाऽस्ति ।' .
'यदा च भवतः पिता शासिताऽभवत् तदा तस्य किञ्चिद् राजसवृत्तित्वाद् है. वातावरणे प्रसृतं सत्त्वमपि किञ्चिन्मलिनं जातम् । जनानां मनांस्यपि शनैः
शनैर्नैर्मल्याच्च्युतानि, सस्यमपि तादृशपोषकं नाऽभवत् । अतो मे विचारेषु परिवर्तनं to जातम् । अन्यथाऽत्यन्तं सात्त्विकोऽहं कथं तादृशविचाराधीनो जात इति तदा , * नैवाऽवबुद्धमासीत् । किन्तु पश्चात् सावधानं चित्तं परीक्षमाणस्य मम प्रतिभातं यदत्र है ॐ नृपस्य राजसवृत्तिरेव कारणम् । तस्या एव कारणात् सस्येष्वपि पोषकत्वहानिर्जाता १२.. यत्प्रभावाद् मम पुत्रस्य नेत्ररोगादिकं जातम् ।'
'भवतः पितुरनन्तरं यदा भवान् राजपदमलङ्कतवान् तदा नीतिमत्तायां प्रजापालने च तयोस्तुल्यस्याऽपि भवतोऽत्यन्तं राजसवृत्तित्वात् सर्वत्र राजसवृत्तिरेव प्रबला जाताऽस्ति । वातावरणे जनचित्तेषु सस्येषु चाऽपि तस्या एव प्रभावो र वर्ततेऽद्यत्वे । तत्प्रभावेनैव मम चित्तेऽपि तादृशा विचारा उद्भवन्ति । पूर्णयौवने *
वर्तमानस्याऽपि मम मनसि नेत्रयोर्वा न कदाऽपि परस्त्रियं दृष्ट्वा विकारलेशोऽपि * समुद्भूत आसीत् । तत्कथमियति वयसि तादृशा विचाराः समागच्छन्ति ? * वातावरणस्यैव प्रभावोऽत्र । तथा सस्यानामप्यल्पपोषकतया मम पौत्रोऽल्पे एव
.074
७०
Page #84
--------------------------------------------------------------------------
________________
वयसि बहुरोगाक्रान्तो जातोऽस्ति ।'
'राजन् ! इदमेवाऽस्ति भवतो भवत्पितृ-पितामहयोश्च शासनानां तारतम्यम् । मत्कथनस्य हार्दमवगतवतो भवतो मनसि समाधानमवश्यं जातं स्यात् । भवतो नीतिमत्ता प्रजापालनं चोत्तममेव । किन्तु यत् परावर्तनं जातं तत् त्रयाणामपि भवतां वृत्तिवशादेव ।'
श्रुत्वैतद् राज्ञश्चित्ते यो गर्वः समुद्भूत आसीत् स सर्वथा विलीनोऽभवत् । तं वृद्धं प्रति स्वकृतज्ञतां दर्शयन् राजा तं प्रणम्य "स्वीयचित्तमपि सात्त्विकं यथा भवेत् तथाऽवश्यं प्रयतिष्ये" इति च प्रतिज्ञां कृत्वा ततो निर्गतः ।
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणो गुणलुब्धाः स्वयमेव सम्पदः ॥
७१
Page #85
--------------------------------------------------------------------------
________________
) अमरफलम्
वाजता
के अमरफलम।
यां चिन्तयामि सततं मयि सा विरक्ता
डॉ. आचार्यरामकिशोरमिश्रः
returnkamsutar
(१) "पिङ्गले ! क्वाऽस्ति तदमरफलम् ? यन्मया तुभ्यं ह्यो दत्तमासीत्' । एतद् भर्तृहरिवचनमाकर्ण्य - 'तन्मया ह्य एव भक्षितं राजन् !' इति सा तदुक्तं प्रत्युत्तरितवती । 'यदि त्वया ह्यस्तद् भुक्तम्, तर्हि तदमरफलमद्य मे पार्वे कथमागतं राज्ञि !' इति श्रुत्वा 'नाऽहं जाने देव ! तस्याऽमरफलस्याऽऽगमनरहस्यम् ।' इति राजीवचनं निशम्य 'सत्यं ब्रूहि, मया त्वयि विश्वासः कृतः, परं त्वया तदमरफलं कस्मैचिदन्यस्मै जनाय भक्षणाय दत्त्वा मम विश्वासघातः कृतः ।' इत्युक्त्वा राज्ञा तस्यां वेत्राघातः कृतः । पिङ्गला मा मारय मां राजन् ! मा मारय माम् । भर्तृहरिः अहं वेत्राघातैस्तव प्राणान् हरिष्ये, यदि त्वं सत्यं न वदसि । पिङ्गला तदहं सत्यं वच्मि, वेत्राघातैर्मा न मारय । भर्तृहरिः सत्यं वद, तदमरफलं त्वया कस्मैचिद् दत्तम्, यन्मे पार्वं प्रत्यागतमद्य ।
त्वया विश्वासघातः कृतः । त्वामहं वेत्रैर्हन्मि । पिङ्गला राजन् ! मां वेत्राघातैर्न जहि, सत्यमेव वदामि त्वाम् । अहममरफलं
भक्षयितुमुद्यताऽऽसम्, परं तदन्तर्गतं कीटमवलोक्य नाऽभक्षयम् ।
तदश्वपालाय दत्तम् । भर्तृहरिः तस्मै त्वया तदमरफलं कथं दत्तम् ? पिङ्गले ! सत्यं कथय । पिङ्गला मया तस्मै भक्षणाय तदमरफलं दत्तं राजन् ! मां न मारय । भर्तृहरिः पिङ्गले ! तदमरफलमासीत् । यस्तद् भक्षयिष्यति, स त्वमरो भविष्यतीति
साधुनोक्तम् । राजसभायामागतेन साधुना तदमरफलं मह्यं भक्षणाय
७२
Page #86
--------------------------------------------------------------------------
________________
दत्तम् । तदमरफलं भक्षयित्वाऽहममरो भवेयमिति साधोरिच्छाऽऽसीत्, परमहं त्वामत्यन्तमिच्छामीति तदमरफलं न भक्षयित्वा तुभ्यमददाम् । मदिच्छाऽऽसीद् यत्त्वं तदमरफलं भक्षयित्वा हमरा स्याः, परं त्वमपि तन्न भक्षयित्वा स्वाभीष्टजनायाऽश्वपालाय तदददाः । त्वं मदपेक्षया
तस्याऽमरत्वमिच्छसीति त्वामहं हनिष्यामि । (वेत्रैस्तां ताडयति ।) पिङ्गला क्षमस्व मां राजन् ! मां न जहि, मां न जहि । (रोदिति) ।
राज्ञा सोऽश्वपाल आहूतः । स उक्तो यद्-राज्ञीदत्तममरफलं वाऽस्ति ? तेन कथितं-तदमरफलमिष्टगणिकायै दत्तम् । राज्ञीदत्तममरफलं त्वया कथन्न भक्षितमिति निशम्य-राज्ञी ममाऽमरत्वमिच्छति स्म, परं मया स्वगणिकाया अमरत्वमिच्छितमित्यश्वपालो राजानं न्यवेदयत् ।।
ROO
(२) भर्तृहरिरुज्जयिन्या राजाऽऽसीत् । स प्रजापालकः प्रजाप्रियश्च बभूव । एक: साधुरेकस्मिन्दिने तस्य राजसभायामागतः । स एकममरफलं तस्मै भक्षणार्थं
ददौ जगाद चाऽमरफलं भक्षयित्वा स त्वमर: स्यादित्याकर्ण्य राजा-'भवनं गत्वा . स्नात्वा भजनं च कृत्वाऽमरफलं भक्षयिष्यामी'ति कथयित्वा साधं विससर्ज ।
राजसभां समाप्य राजा भवनं गत्वा सज्ञी जगाद - 'पिङ्गले ! गृहाणाऽमरफलमेतत् । एतद् भक्षयित्वा त्वममरा स्या इत्यहमिच्छामि ।' तन्निशम्य राज्ञी 'राजन् ! प्रथमं त्वां भोजनं कारयित्वा, शयनकक्षे सेवया शुश्रूषया च त्वां स्वापयित्वाऽमरफलं भक्षयिष्यामी'ति निगद्य तत्कार्यसंलग्ना बभूव ।
रात्रौ राजनि शयिते निशीथे राज्ञी स्वप्रियमश्वपालं निकषा तदमरफलं गृहीत्वा जगाम निजगाद च – 'प्रियवर ! त्वममरफलमेतद् भक्षयित्वा ह्यमरः स्या इति कामनया त्वदर्थममरफलमानयम्' । राजीवचनं श्रुत्वा 'प्रिये ! स्वममरफलं तत्र मञ्जूषायां स्थापयित्वा मम पार्श्वमेहि, निशा व्यतति, कथं विलम्बः क्रियते' ? इति तेनोकम् । इत्थं स्वप्रियवचनं निशम्य तत्पाश्र्वं गत्वा गाढमालिङ्गनसुखमनुभूय सा निशीथानन्तरं राजभवनमाययौ ।
तदनन्तरमश्वपालस्तदमरफलं गृहीत्वा स्वप्रेमिकां गणिकामुपजगाम जगाद च - "प्रिये ! गृहाण त्वममरफलम् । एतत्खादित्वा त्वममरा भव । ततः सुरर्ति करिष्ये ।' इति तद्वचो निशम्य - 'नहि, नहि प्रियतम ! मे पार्श्वमेहि मां गाढमालिङ्ग
७३
Page #87
--------------------------------------------------------------------------
________________
सुरतिं च कुरु । ततोऽहममरफलं खादिष्यामि ।' इत्थं तद्वचः श्रुत्वा सोऽश्वपालस्तस्यै तत्फलं दत्त्वा प्रणयं च कृत्वा स्वस्थानमाजगाम ।
द्वितीये दिने सा गणिका मध्याह्ने राजसभां जगाम जगाद च.- 'राजन् ! एतदमरफलं मया त्वदर्थमानीतम्, तदेतत्खादित्वा त्वममर: स्या इत्यहं कामये ।' इति श्रुत्वा गणिकाया हस्तादमरफलं गृहीत्वा - ‘भद्रे ! गच्छ, राजभवनं गत्वा फलं भक्षयिष्यामि ।' इति तां निगद्य राजसभायामुपविष्टः स साधुना दत्तं तदमरफलं पर्यचिनोत् । ततो राजसभाविसर्जनं कृत्वा स राजभवनं ययौ ।
(३) राजभवनं गत्वा राजा भर्तृहरिः स्वराज्ञीमुवाद - 'पिङ्गले ! ह्यस्त्वया तदमरफलं न भक्षितम् । एतदमरफलं तदेव, यन्मया तुभ्यं दत्तम्, पश्य, पश्य । तत्फलं त्वया कस्मै जनाय दत्तं, सत्यं ब्रूहि ।' एतत्कथयित्वा राज्ञा तस्यां वेत्राघातः कृतः । ततो 'मारय मां न राजन् ! सत्यं वदामि ।' इत्थं कथयन्त्या राज्यास्तत्फलगमनवृत्तं श्रुत्वा तां विश्वासघातिनी मत्वा राज्ञा मृत्युर्घोषितः । ततो गर्तं खानयित्वा शिरोवर्जितं तस्याः शरीरं तस्मिन् गर्ने निक्षिप्य मृत्तिकया च गर्त प्रपूर्य तस्याः शिरसि हिंसकसारमेया दन्ताघाताय मोचिताः । राज्ञा भर्तृहरिणा विश्वासघातिन्यै राज्यै मृत्युर्दत्तः । .
राज्ञो राज्यां बहु प्रेमाऽऽसीत् । स तां सर्वं मन्यते स्म । परं विश्वासघातात्तेन तस्यै मृत्युर्दत्तः । राज्ञीमृत्योः पश्चात्तस्य मनो विषण्णमभवत् । सांसारिकप्रपञ्चात्स विरक्तो बभूव । तेन स्वानुजो विक्रमादित्य उज्जयिन्या राजा घोषितः । तस्मै राज्यं समर्प्य स तप्तुं वनं जगाम । तेन शारीरिकं प्रेम धिकृतम् । राज्ञीसम्बन्धितघटनां गृहीत्वा भर्तृहरिणा लिखितम् - यां चिन्तयामि सततं मयि सा विरक्ता
साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परिशुष्यति काचिदन्या धिक् ताञ्च तञ्च मदनं गणिकाञ्च माञ्च ।।
२९५/१४, पट्टीरामपुरम्
खेकड़ा (बागपत) उत्तरप्रदेशः-२०११०१
७४
Page #88
--------------------------------------------------------------------------
________________
Navsad
___ गान्धीधाम (कच्छ)नागारे संस्कृताप्रदर्शनी संस्कृतासम्मेलन च
गुजरातराज्यस्य कच्छप्रदेशे गान्धीधामनगरे दि. १ सितम्बर २००६तः ३सितम्बर-२००६ पर्यन्तं तत्रत्येनाऽऽर्यसमाजे नैकस्याः संस्कृत-प्रदर्शन्याः संस्कृतसम्मेलनस्य चाऽऽयोजनं (वैदिकसंस्कारकेन्द्र) कृतमासीत् ।
___संस्कृतप्रदर्शन्यां विविधकक्षेषु संस्कृतभाषायाः संस्कृतसाहित्यस्य च परिचयार्थं विविधवस्तूनि भित्तिचित्राणि चित्रपटाश्च स्थापिता आसन् तत्र-स्वागतवाक्यानि, स्वागतगीतानि, वेदोपनिषदां षड्दर्शनानां च परिचयः, वेदानां महत्त्वं, वेदेषु विज्ञानं, संस्कृतभाषाविषयिक्यो जागतिकविदुषां प्रशस्तयः, संस्कृतभाषाया अन्याभिर्भाषाभिः सह सम्बन्धः, संस्कृतकविलेखकादीनां परिचयः, संस्कृतभाषिग्रामाणां परिचयः, संस्कृतविश्वविद्यालयानां संस्कृतोन्नत्यर्थं प्रयतमानानां च संस्थानां परिचयः, विदेशेषु संस्कृतविषयिकी जागृतिः, संस्कृतधातु-शब्दादीनां परिचयः, संस्कृतपत्रिकाण च परिचयः - इत्यादयोऽनेके विषयाः प्रदर्शिता आसन् ।
अस्याः प्रदर्शन्या मुख्य उद्देश-आङ्ग्लमाध्यमेन पठमानानां छात्राणां संस्कृतभाषा-साहित्यादीनां परिचयः स्यात् - इत्यासीत् ।
अस्याः प्रदर्शन्याः संयोजक: कच्छसंस्कृतसभाया मुख्यकार्यकर्ता श्रीमान् अखिलेश-आर्यमहोदय आसीत् ।
संस्कृतसम्मेलनम् : दि.२ सितम्बरदिने सायंकाले प्रदर्शन्याः पूरकतयैकं संस्कृतसम्मेलनमप्यायोजितमासीत् तत्रैव केन्द्रे । सम्मेलनस्याऽध्यक्षत्वं कच्छसाहित्यअकादमीसभ्येन श्रीमता प्रभाशङ्कर-फडके महोदयेन
७५
Page #89
--------------------------------------------------------------------------
________________
निर्वोढम् । सम्मेलनस्य मुख्यवक्ता कविश्रीजयन्तिजोषी-'शबाब'-महोदय आसीत् । तेन सहैव गान्धीधामस्वामिनारायणगुरुकुलस्य महन्तः स्वामिश्रीसत्यप्रकाशमहोदयः, अलवरनिवासी पण्डितश्रीसत्यानन्दवेदवागीशमहोदयः, प्रा.श्रीमेहुलशाहमहोदयः, प्रा.श्रीमीठालालदवे महोदयस्तथा कच्छसंस्कृतभारत्याः कार्यकर्तभिः श्रीगिरीशपण्ड्यामहोदय-सश्रीविलासबाजाडेजामहोदयइत्यादिभिः संस्कृतभाषाया महत्त्वविषये प्रवचनं कृतं तस्याश्च प्रचारप्रसारार्थमुद्यमयितुं प्रेरणा प्रदत्ता संस्कृतगीतानि च प्रस्तुतानि ।
सम्मेलनमध्ये कच्छविश्वविद्यालयस्य कुलपतेः संस्कृतप्राध्यापकस्य च श्रीमत: डॉ.कान्ति-गोरमहोदयस्य सन्मानमभिवादनं च गान्धीधामनगरस्य नगरपतिना श्रीमता हिम्मतदानगढवीमहोदयेन कृतम् । डॉ. कान्ति-गोरमहोदयेनाऽपि संस्कृतस्य महत्त्वमुपवर्णितं संस्कृतप्रदर्शन्याश्च प्रशंसा कृता । सम्मेलनस्य सञ्चालनं श्रीअखिलेशआर्यमहोदयेन कृतं, तथाऽस्मिन् प्रसङ्गे आर्यसमाजस्य कार्यकर्तारः, संस्कृतभारतीकार्यकर्तारः, कविश्रीरमणीकसोमेश्वरमहोदयः, स्वामिश्रीचिन्मयानन्द इत्यादय उपस्थिता आसन् ।
क्लान्तमपोद्यति खेदं, तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥
TITU
७६
Page #90
--------------------------------------------------------------------------
________________
रमणी आवयोर्भावि कियत् सुन्दरं भविष्यति,
यदाssai सम्भूय जीविष्यावः । तथा अहं सदाऽपि दुःखसहने भवतः साहाय्यं करिष्ये ।
HOSPITAL
पुरुषेभ्यः किमर्थं सङ्गणकमधिकतया रोचते ? सङ्गणकाः कदाऽपि प्रतिभाषणं नैव कुर्वते, अत: !!
रमणः किन्तु नाऽस्ति मम किञ्चिद् दुःखं भोः ! रमणी नाऽहं वर्तमानकालविषयं वदामि प्रिय ! अहं तु विवाहानन्तरं यद् भविष्यति तद्विषयं वदामि !!
मर्म-नर्म
POLICE
मद्यपः
STATION
किं भवान् मम सुरामोचने सहायको भवेद् वा ?
चिकित्सकः अवश्यम् ! तदतीव सुकरम् !!
मद्यपः
तर्हि मोचयतु कृपया, आरक्षकैर्मम पेटिकाद्वयं गृहीतमस्ति !!
७७
Page #91
--------------------------------------------------------------------------
________________
KAAS
ASANA
ES
(स्वस्याऽऽगमने जातस्य विलम्बस्य कारणं वदन्-) गमनः भो ! ममाऽयमेवाऽभ्यासो यत्, यत्किञ्चिदपि कार्यमहं करोमि तदा
तत्कार्येऽहं निमज्जामीव । RACT जल्पन: तर्हि भवान् कूपमेव किमर्थं न खनसि ?
॥
।
। । ।
FRHA
(एका प्रसिद्धा कार्यकर्ती सभायां महिलोत्कर्षविषये वदन्ती आसीत्) "यदि स्त्रियो नाऽभविष्यन् तदा पुरुषाणां का गतिरभविष्यत् ?" (तदा पृष्ठतः कश्चित् पूत्कृतवान्-) "स्वर्गः !!"
७८
Page #92
--------------------------------------------------------------------------
________________
LIAN
TV
Anis अध्यापकः यदा, जनास्तस्य कथनं नीरसमनुभवन्ति, अशृण्वन्त इवाऽपि me
व्यवहरन्ति, तदाऽपि यः सततं वावद्यते स कः ? .
(अन्त्यपीठात्) विद्यार्थी शिक्षकः !!
NA
RANT
न पिता किं परीक्षायां प्रश्नाः कठिना आसन् ? Ans, KI पुत्रः प्रश्नास्तु सरला एव आसन्, किन्तु TS
तदुत्तराण्येव कठिनान्यासन् !!
Page #93
--------------------------------------------------------------------------
________________
प्राकृत-विभाग: (
श्रीमहावीरजिणथुई ते धन्ना जेहि दिट्टो सि
मुनिरत्नकीर्तिविजयः
तु नामग्गहणेण वि, धन्ना हवंति जीवा महावीर ! | किमेत्थच्छेरयं जं, 'ते धन्ना जेहिँ दिट्ठो सि' ॥ १ ॥
हरिउमिंदस्स संकं, निच्चलो वि चालिओ तए मेरू 1 जातमित्तेण वि तया, ते धन्ना जेहिं दिट्ठो सि ||२||
बालत्तणे वि पंडिय-संसए हरंतो, थुणिज्जंतो य । 'अहो नाणि' त्ति जणेहि, ते धन्ना जेहिं दिट्ठो सि ||३||
वरिसदुगं गिहवासे, वि पडिमं धरिऊण जं निस्संगं । वसिओ समणुव्व तया, ते धन्ना जेहिं दिट्ठो सि ||४|| निग्गंतूण घराओ, चइऊण सव्वसंगमेगागी । दिक्खिओ य तया णाह !, धन्ना जेहिं दिट्टो सि ||५||
' तित्थयरा हि सहायं, घोरुवसग्गे वि न लहंति कस्स वि' । इंदमिति निसेतो, ते धन्ना जेहिं दिट्ठो सि ||६|| निहं सव्वजणाण-मविगणिय वि चंडकोसिअं घोरं । पडिबोहेउं करुणा - यर ! गओ तुमं महासत्तो ||७||
पच्छा दुज्झाणाओ - वि रक्खिऊण तं पंचदसदिणाणि । तत्थेव ठिओ य, तया, ते धन्ना जेहिं दिट्ठो सि ||८|| जुम्मं ॥
उवसग्गअस्स वि तुज्झ, नयणजुयलं किवाए झरियं जं । संगमस्स कए तया, ते धन्ना जेहिँ दिट्ठो सि ||९||
सीयले पउंजिय, गोसालो रक्खिओ य जया णाह ! । तेउलेसाओ तया, ते धन्ना जेहिँ दिट्ठो सि ||१०||
८०
Page #94
--------------------------------------------------------------------------
________________
དཔy བྱ་ཚེy ༤་༡ ཚེ་
styskySAURUSAOSAUSTRUSSIAustry.statuskusulyAISALIT0UAASH
गोदोहिआसणत्थो, संपत्तो केवलं जया नाणं । कम्म खविऊण तया, ते धन्ना जेहिँ दिट्ठो सि ॥११।।
दूरं बारसवरिसं, झाणेणुग्गतवं तुह चरंतस्स ।
दसण-मवि उ खणमवि, ते धन्ना जेहिँ दिट्ठो सि ॥१२॥ केवलं पप्प भयवं !, पढमं चेव जया समवसरणम्मि । उवविट्ठो देसणत्थं, ते धन्ना जेहिं दिट्ठो सि ॥१३।।
माणमवहरिय नाणं, सिक्खिय दिक्खिआ गोयमाईणो ।
जेउमागया य तया, ते धन्ना जेहिँ दिट्ठो सि ॥१४॥ 'किं तत्तं ?' ति य पुट्टो, गणहराण तिपइं जया दाहीअ । बारसंगस्स मूलं, ते धन्ना जेहिँ दिट्ठो सि ॥१५।।
हरिउमन्नाणतिमिरं, पंकं पावस्स य सोसिउं तहा ।
सूरो व्व पयासंतो, ते धन्ना जेहिँ दिट्ठो सि ॥१६।। निव्वाणाओ पुव्वं, सोलसपहरं भव्वोवयाराय । कया य देसणा तया, ते धन्ना जेहिँ दिट्टो सि ॥१७॥
भवियजणविबोहणत्थ-मविरयं देसणमिसेण जगणाह ! ।
जलहरुव्व वरिसंतो, ते धन्ना जेहि दिट्ठो सि ॥१८॥ सुरदुमो सुरमणी अ, कामधेणू वि अ पाविआ जेहिँ । न हि धन्ना ते, परं तु, ते धन्ना जेहिँ दिट्ठो सि ॥१९।।
दसणमित्तेण हरइ, तावं न चंदणं किंतु जिण ! तुमं ।
हरइ तिविहं पि तत्तो, ते धन्ना जेहिं दिट्ठो सि ॥२०॥ चलणं करुणा कहणं, करुणा मोणं पि ठाणं झाणं पि । करुणामओ उ भयवं !, ते धन्ना जेहिँ दिट्ठो सि ॥२१॥
༼ ༤ རེདུ>>འདུ༼
དེ་དུ་ཏུརེདུ་དུརྗེདeyཔ་ད་ དང Jey ༤༡ དུ་བ་དབུ་འདུལ་དུ་ དུ་ ཚེ་བུམ་དུ་བུད་མེད་ -g ༤དུབ་༤) ༤y>ད་ཀྱི་འདུ་རུ་དུ་རུ་
I KHALISATIRSTURUSAudiostostsAUSA
८१
Page #95
--------------------------------------------------------------------------
________________
उन्दलाचार (गताङ्कादग्रे)
सङ्कलयिता___ डॉ. आचार्यरामकिशोर-मिश्रः
कथा
प्राकृत-विभाग:
.
अणसूआ- हला पिअंवदे ! जइवि गन्धव्वेण विहिणा णिव्वुत्तकल्लाणा सउन्दला
अणुरूवभत्तुगामिणी संवुत्तेति णिव्वुदं मे हिअअं । तहवि एतिअं'
चिन्तणिज्जं । पिअंवदा- कहं विअ? अणसूआ- अज्ज सो राएसी इट्टि परिसमाविअ इसीहिं विसज्जिओ अत्तणो णअरं|
पविसिअ अन्तेउरसमागदो इदोगदं वुत्तन्तं सुमरदि वा ण वेदि। पिअंवदा- वीसद्धा होहि । ण तादिसा आकिदिविसेसा गुणविरोहिणो होन्ति ।
तादो दाणिं इमं वुत्तन्तं सुणिअ ण आणे किं पडिवज्जिस्सदि त्ति । व अणसूआ- तह अहं देक्खामि, तह तस्स अणुमदं भवे । पिअंवदा- कहं विअ? | अणसूआ-गुणवदे कण्णआ पडिवादणिज्जे त्ति अअं दाव पढमो संकप्पो । तं (."
..जइ देव्वं एव्व संपादेदि णं अप्पआसेण किदत्थो गुरुअणो । पिअंवदा- सहि, अव इदाई वलिकम्मपज्जत्ताई कुसुमाई । अणसूआ- णं सहीए सउन्दलाए सोहग्गदेवआ अच्चणीआ । पिअंवदा- जुज्जदि ।
(नेपथ्ये) अणसूआ- ('अयमहं भोः !' इदि सुणिअ) सहि, अदिधीणं विअ णिवेदिदं । पिअंवदा- णं उडजसण्णिहिदा सउन्दला । अणसूआ- अज्ज उण हिअएण असण्णिहिदा । अलं एत्तिएहिं कुसुमेहिं ।
(इदि पत्थिदे ।)
(नेपथ्ये) | पिवदा- (किंवि सुणिअ) हद्धी, हद्धी । अप्पिअं एव्व संवुत्तं । कस्सि पि ।
.
Page #96
--------------------------------------------------------------------------
________________
.
.
पूआरुहे अवरद्धा सुण्णहिअआ सउन्दला । (देक्खिअ) ण हु जस्सि से कस्सि पि । एसो दुव्वासो सुलहकोवो महेसी । तह सविअवेअबलु
ब्फुल्लाए दुव्वाराए गईए पडिणिवुत्तो । अणसूआ- को अण्णो हुदवहादो दहिदुं पहवदि । गच्छ, पादेसु पणमिअ णिवत्तेहिणं न
जाव अहं अग्घोदअं उवकप्पेमि । पिअंवदा- तह । (पत्थिदा)। अणसूआ- अम्मो, आवेअक्खलिदाए गईए पब्भर्ट्स मे अग्गहत्थादो पुप्फभाअणं । पिअंवदा- (पविसिअ) सहि, पकिदिवको सो कस्स अणुण पडिगेण्हदि । किं ।
वि उण साणुक्कोसी किदो । अणसूआ- तस्सि बहु एदं पि । कहेहि । P) पिअंवदा- जदा णिवत्ति, ण इच्छदि, तदा विण्णविदो मए । भअवं, पढम ति."
पेक्खिअ अविण्णादतवप्पहावस्स दुहिदुजणस्स भअवदा एक्को अवराहो ,
मरिसिदव्वो त्ति । अणसूआ- तदो तदो। पिअंवदा- तदो ण मे वअणं अण्णहाभवितुं अरिहदि, किंदु अहिणाणाभरणदंसणेण
सावो णिवत्तिस्सदि त्ति मन्तअन्तो एव्व अन्तरिहिदो । | अणसूआ- सक्कं दाणि अस्ससितुं । अत्थि तेण राएसिणा संपत्थिदेण सणामहेअंकिअं
अंगुलीअअं सुमरणीयं त्ति स पिणद्धं । तस्सि साहीणोवाआ सउन्दला
भविस्सदि । पिअंवदा- (किं वि पेक्खिअ) अणसूए ! पेक्ख दाव । वामहत्थोवहिदवअणा
आलिहिदा विअ पिअसही। भत्तुगदाए चिन्ताए अत्ताणं पि ण एसा
विभावेदि । किं उण आअन्तुअं? अणसूआ- पिअंवदे ! दुवेणं एव्व णो मुहे एसो वुत्तन्तो चिट्ठदु । रक्खिदव्वा क्खु
___पाकिदिपेलवा पिअसही।। पिअंवदा- को णाम उण्होदएण णोमालिअं सिंचेदि ? [पत्थिदा]।
अणसूआ- जइ वि णाम विसअपरम्मुहस्स जणस्स एवं ण विदिअं .) (अत्तगदं) तह वि तेण रण्णा सउन्दलाए अणज्जं आअरिदं । कामो दाणिं.)
सकामो होदु । जेण असच्चसंधे जणे सुद्धहिअआ सही पदं कारिदा।।
८३
Page #97
--------------------------------------------------------------------------
________________
अहवा दुव्वाससो सावो एसो विआरेदि । अण्णहा कहं सो राएसी से तारिसाणि मन्तिअ एत्तिअस्स कालस्स लेहमेत्तं पि ण विसज्जेदि । ता इदो अहिण्णाणं अंगुलीअअं तस्स विसज्जेम । दुक्खसीले तवस्सिजणे को अब्भत्थीअदु । णं सहीगामी दोसोत्ति व्ववसिदा वि ण पारेमि पवासपडिणिउत्तस्स तादकस्सवस्स दुस्सन्तपरिणीदं आवण्ण
सत्तं सउन्दलं णिवेदिदं । इत्थंगदे अम्हेहिं किं करणिज्जं? पिअंवदा- (पविसिअ) सहि ! तुवर तुवर सउन्दलाए पत्थानकोदुअंणिव्वत्तिहुँ । अणसूआ- सहि ! कहं एवं ? पिअंवदा- सुणाहि । दाणिं सुहसइदपुच्छिआ सउन्दलासआसं गदम्हि ।
अणसूआ- तदो तदो। पिअंवदा- दाव एणं लज्जावणदमुहि परिस्सजिअ तादकस्सवेण एव्वं अहिणन्दिदं ।
दिट्ठिआ धूमाउलिददिट्ठिणो विजअमाणस्स पावए एव्व आहुदी पडिदा।
वच्छे ! सुसिस्सपरिदिण्णा विज्जा विअ असोअणिज्जासि संवुत्ता । (. ___अज्ज एव्व इसिरक्खिदं तुमं भत्तुणो सआसं विसज्जेमि त्ति । अणसूआ- अह केण सूइदो तादकस्सवस्स वुत्तन्तो ? पिअंवदा- अग्गिसरणं पविट्ठस्स सरीरं विणा कून्दोमईए वाणिआए । अणसूआ- कहं विअ ? पिअंवदा- (संस्कृतमाश्रित्य)
दुष्यन्तेनाऽऽहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भा शमीमिव ।। अणसूआ- (पिअंवदां आसलिसिअ) सहि ! पिअं मे । किंदु अज्ज एव्व सउन्दला
णीअदित्ति उक्कंठासाहारणं परितोसं अणुहोमि ।। पिअंवदा- सहि ! वअं दाव उक्कंठं विणोदइस्सामो । सा तवस्सिणी णिव्वुदा
होदु। अणसूआ- तेण हि एदस्सि चूदसाहावलम्बिदे णारिएरसमुग्गए एतण्णिमित्तं एव्व
कालान्दरक्खमा णिक्खित्ता मए केसरमालिआ । ता इमं हत्थसण्णिहिदं करेहि । जाव अहंपि से गोरोअणं तित्थमित्तिअं दुव्वाकिसलआणि त्ति मंगलसमालंभणाणि विरएमि ।
८४
Page #98
--------------------------------------------------------------------------
________________
"
पिअंवदा- तह करीअदु । (किं वि सुणिअ) अणसूए ! तुवर, तुवर । एदे क्खु
हत्थिणाउरगामिणो इसीओ सद्दावीअन्ति । अणसूआ- सहि ! एहि, गच्छम्ह । पिअंवदा- (पेक्खिअ) एसा सुज्जोदए एव्व सिहामज्जिदा पडिच्छिदणीवारहत्थाहिं
सोत्थिवअणिकाहिं तावसीहिं अहिणन्दीअमाणा सउन्दला चिट्ठइ ।
उवसप्पम्ह एणं । तावसी- जादे ! भत्तुणो बहुमाणसूअअं महादेई सदं लहेहि । एकई- वच्छे ! वीरप्पसविणी होहि । दुइआ- वच्छे ! भत्तुणो बहुमदा होहि । (सव्वा पत्थिदा ।) सहीओ- (उवसरिअ) सहि सउन्दले ! सहमज्जणं दे होदु । सउन्दला- साअदं मे सहीणं । इदो णिसीदह । सहीओ- हला, सज्जा होहि । जावदे मंगलसमारंभणं विरएम । सउन्दला- इदं पि बहु मन्तव्वं । दुल्लहं दाणिं मे सहीमंडणं भविस्सदि ।
(रोइदि)। सहीओ- सहि ! उइणं दे ण मंगलकाले रोइदं । (पसाहइद) । अए सउन्दले !
अणुवजुत्तभूसणो अअं जणो । चित्तकम्मपरिअएण अंगेसु दे
आहरणविणिओअं करेम्ह । सउन्दला- जाणे वो णेउणं । सहीओ- हला सउन्दले ! णारदाणीदपसाहणेहिं अवसिदमंडणासि । परिधेहि
संपदं खोमजुअलं । गौतमी- जादे ! एसो दे आणन्दपरिवाहिणा चक्खुणा परिस्सजन्तो विअ गुरु
उवट्ठिदो । आआरं दाव पडिवज्जस्स । सउन्दला- ताद ! वन्दामि । काश्यपः- वत्से !
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ।। गौतमी- भअवं ! वरो क्खु एसो । ण आसिसा । काश्यपः- क्व ते शाङ्गरवमिश्राः ?
८५
Page #99
--------------------------------------------------------------------------
________________
शार्ङ्गरवमिश्रा:- भगवन् ! इमे स्मः । काश्यपः- भगिन्यास्ते मार्गमादेशय ।
शार्ङ्गरवमिश्राः - इत इतो भवती । (सर्वे चलन्ति ।)
गौतमी - जादे ! एदा तवोवणदेवदा । पणम भअवदीणं ।
सउन्दला - (पणमअ) हला पिअंवदे ! अज्ज उण दंसणुस्सुआए वि अस्समपदं परिच्चअन्तीए दुक्खेण मे चलणा पुरदो पवट्टन्ति ।
पिअंवदा - ण केवलं तवोवणविरहकादरा सही एव्व । तुए उवद्विदविओअस्स तवोवणस्स वि दाव समवत्था दीसइ ।
उगलि अदब्भकवला मिआ परिच्चत्तणच्चणा मोरा । ओसरिअपंडुपत्ता मुअन्ति अस्सू विअ लदाओ ॥
सउन्दला (सुमरिअ ) ताद ! लदाबहिणिअं वणजोसिणि दाव आमन्तइस्सं । काश्यपः- अवैमि ते तस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन ।
सउन्दला - (लदं आलिंगिअ) वणजोसिणि ! चूदसंगदा विमं पच्चालिंग इदोगदाहिं साहाबाहाहिं । अज्जप्पहुदि दूरपरिवत्तिणी दे क्खु भविस्सं । (सहीओ पदि) हला अणसूए पिअंवदे ! एसा दुवेणं वो हत्थे णिक्खेवो । सहीओ- अअं जणो कस्स हत्थे समप्पिदो ?
सउन्दला - ताद ! एसा उडअपज्जन्तचारिणी गब्भमन्थरा मअबहूजदा अणघप्पसवा होइ, तदा मे कंपि पिअणिवेदइत्तअं विसज्जइस्सह ।
काश्यपः- नेदं विस्मरिष्यामः ।
सउन्दला - ( गदिं भंगिअ ) को णु क्खु एसो णिवसणे मे सज्जइ ? (पेक्खिअ मअसावअं) वच्छ ! कि सहवासपरिच्चाइणि मं अणुसरसि ? अचिरप्पसूदाए जपाणीए विणा वड्ढिदो एव्व । दाणि पि मए विरहिदं तुमं तादो चिन्तइस्सदि । णिवत्तेहि दाव । (पत्थिदा) ।
शार्ङ्गरवः- भगवन् ! ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हति भवान् ।
सउन्दला - ( जणान्तिअं) हला अणसूए ! पेक्ख, णलिणीपत्तन्तरिदंवि सहअरं अक्खन्ती आदुरा चक्कवाई आरडदि । दुक्करं अहं करेमि त्ति । अणसूआ सहि ! मा एव्वं मन्तेहि ।
८६
Page #100
--------------------------------------------------------------------------
________________
एसा वि पिएण विणा गमेइ रअणि विसाअदीहअरं ।
गुरुअं पि विरहदुक्खं आसाबंधो सहावेदि ।। काश्यपः- शाङ्गुरव ! इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।
अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चाऽऽत्मनस्त्वय्यस्यां कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धुभिः ।। शार्गरवः- गृहीतः सन्देशः । काश्यपः- वत्से ! त्वमिदानीमनुशासनीयाऽसि । वनौकसोऽपि सन्तो लौकिकज्ञा
वयम् । सा त्वमितः पतिकुलं प्राप्यशुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याऽऽधयः ।।
कथं वा गौतमी मन्यते ? गौतमी- एष वधूजनस्योपदेशः । जाते ! एतत्खलु सर्वमवधारय । । काश्यपः- वत्से ! परिष्वजस्व मां सखीजनं च । सउन्दला- ताद ! इदो एव्व किं पिअंवदाअणसूआओ सहीओ णिवत्तिस्सन्ति ।। काश्यपः- वत्से ! इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी
यास्यति । सउन्दला- (पिदरं आसलिसिअ) कहं दाणि तादस्स अंकादो परिब्भट्ठा
मलअतडुम्मूलिआ चन्दणलदा विअ देसन्तरे जीविअं धारइस्सं । काश्यपः- वत्से ! किमेवं कातराऽसि ? यदिच्छामि ते तदस्तु । सउन्दला- हला, दुवे वि मं समं एव्व परिस्सजइ । सहीओ- (तह करिअ) सहि ! जइ णाम सो राआ पच्चहिण्णाणमन्थरो भवे,
तदो से इमं अत्तणामहेअअंकिअं अंगुलीअअं दंसेहि । सउन्दला- इमिणा संदेहेण वो आकम्पिदम्हि । । सहीओ- मा भाआहि । अदिसिणेहो पावसंकी ।
८७
Page #101
--------------------------------------------------------------------------
________________
सउन्दला- ताद ! कदा णु भूओ तवोवणं पेक्खिस्सं ? काश्यप:- श्रूयताम्
भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य । भळ तदर्पितकुटुम्बभरेण सार्धं
शान्ते ! करिष्यसि पदं पुनराश्रमेऽस्मिन् ।। गौतमी- जादे ! परिहीअदि गमणवेला । णिवत्तेहि पिदरं । अहवा चिरेण वि |
पुणो पुणो एसा एव्वं मन्तइस्सदि । णिवत्तदुभवं । काश्यपः- वत्से ! उपरुध्यते तपोऽनुष्ठानम् । सउन्दला:- (भूअ पिदरं आसलिसिअ) तवच्चरणपीडिदं तादसरीरं । ता मा.
अदिमेत्तं मम किदे उक्कंठस्स । काश्यपः- (सनिःश्वासम्)
शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ? उटजद्वारविरूढं नीवारबलिं विलोकयतः ।। गच्छ, शिवास्ते पन्थानः सन्तु ।
(निष्क्रान्ता शकुन्तला सहयायिनश्च ।) सहीओ- (सउन्दलां पेक्खिअ) हद्धी, हद्धी । अन्तलिहिदा सउन्दला वणराईए । काश्यपः- (सनिःश्वासम्) अनसूये प्रियंवदे ! गतवती वां सहचारिणी । निगृह्य
__ शोकमनुगच्छतं मां प्रस्थितम् । सहीओ- ताद ! सउन्दलाविरहिदं सुण्णं विअ तवोवणं कहं पविसामो ?
(इदि दुक्खेण गदे ।)
क्रमश:
SSA
८८
Page #102
--------------------------------------------------------------------------
________________ सद्यः प्रकाशितम् नन्दनवनकल्पतरुप्रकाशनस्य द्वितीयं पुष्पं सागरविहङ्गमः सागरविहङ्गमः सं, कोर्तित्रयो अमेरिकादेशीय-रिचार्डबाक् (Richard Bach)लिखितस्य Jonathan Livingston Seagull नामकस्य विश्वप्रसिद्धस्य रूपकस्य संस्कृतभाषायामनुवादः। समाजस्य कुरुढीः अन्धपरम्पराः मिथ्याबन्धनानि च त्रोटयित्वा जोनाथन्-नामा सागरपक्षी अदम्योत्साहेनाऽकुण्ठितजिज्ञासयाऽविरतप्रयत्नैश्च स्वोन्नतिं साधयन् परिपूर्णत्वशिखरं कथमवाप्नोति, कथं चाऽन्यान् पक्षिणः प्रेरयित्वा ध्येयोन्मुखान् करोतीत्येतत् सर्वमत्र सचित्रं चित्रितमस्ति। एतदनुवादकरणेऽस्यैव पुस्तकस्य श्रीमत्या मीराभट्टमहोदयया कृतस्य गूर्जरानुवादस्य 'सागरपंखी तिनाम्नः साहाय्यं गृहीतमस्ति। सं. कीर्तित्रयी प्राप्तिस्थानम् : प्रकाशकः भद्रङ्करोदय शिक्षण ट्रस्ट श्री विजयनेमिसूरीश्वरजी स्वाध्याय मन्दिर प्रकाशनवर्षम् 2006 ई. 12, भगतबाग, शेठ आणंदजी कल्याणजी पेढी समीप, मूल्यम् रू. 60-00 पालडी, अमदावाद-३८०००७ www.jainelibrary.orm