SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ द्रक्ष्यन्ते मर्त्यलोके वै क्वचित् ते भृत्यविग्रहाः । पुत्रमित्रकलत्रादिसम्बन्धैर्वा निजाश्रिताः भ्रातृजभागिनेयौ वा मातृपितृसहोदराः । क्वचिदेते भविष्यन्ति विश्वस्ताः प्रतिवेशिनः ॥२३॥ जलौका रक्तशोषीव पास्यन्त्येते हि शोणितम् । उदरम्भरि पीत्वा च स्वयं मोक्ष्यन्ति संश्रयम् ॥२४॥ स्वार्थसिद्ध्यै परा प्रीतिः स्वार्थसिद्ध्यै प्रशंसनम् । स्वार्थसिद्ध्यै परा सेवा स्वार्थसिद्ध्यै समर्पणम् ॥२५॥ मानसं वाचिकं चैषां कायिकं वा प्रयोजनम् । प्रवर्तते जगद्रङ्गे स्वार्थसिद्ध्यै हि केवलम् રદ્દો किमप्याचरणं भद्र ! मुक्त्वाऽतिक्रम्य वा पुनः । निसर्ग लोकमर्यादां कर्तुमेते समुत्सुकाः ર૬ો स्वार्थ सिद्धे परन्त्वेते कूकलाससहोदराः । वर्णन परिवर्तन्ते प्रत्यभिज्ञातुमक्षमाः (૨૮) इमे ज्ञातरहोवृत्ताः स्वाश्रयं हि यशस्विनम् । अयशस्करकौलीनैराविलयन्ति निस्त्रपाः पारिजातमपि स्वीयैः साक्ष्यैः कृत्वा मुहीतरुम् । तोषयन्ति खला एते हृदिस्थं पिशिताशनम् ॥३०॥ रावणादपि बीभत्सा लोभमायासमाकुलाः । कृतघ्नास्ते प्रतीयन्ते सर्वथाऽचिन्त्यविक्रमाः ॥३१॥ तानहं प्रत्ययैर्वेद्मि मन्निर्मितिविलक्षणान् । येभ्यः कर्मविपाकोऽपि बिभेत्येव न संशयः રૂરી २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy