SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ग्रन्थसमीक्षा 'कथाद्वादशी') समीक्षकः डॉ. रूपनारायणपाण्डेय: ग्रन्थकार: आचार्य बाबूराम अवस्थी । (वाजपेयी कालोनी, लखीमपुर-खीरी) प्रकाशकः श्रीकृष्णमिश्रः, अरविन्द कोलोनी, लखीमपुर-खीरी 1 प्रथमं संस्करणम् २००१ ई. पृ.सं. ८+११२ । मूल्यम् - ७५/ who विराजतेतरां विपुलतरं कथासाहित्यं देववाणीवाड्मये, किन्तु नूतनकथा शिल्पदृष्ट्या प्रणीताः कथा विपुलतरा न सन्ति । साम्प्रतं डॉ. राजेन्द्रमिश्र- डॉ. प्रशस्यमित्रशास्त्रि - डॉ. प्रकाशमित्रशास्त्रि - डॉ. अशोकन - डॉ. केशवचन्द्रदाश* प्रभृतिभिर्नूतनकथाभिः संस्कृतवाङ्मयस्य श्रीः सन्तन्यते । तेषामेव परम्परायां - 'कथाद्वादशी' इति ग्रन्थ आचार्येन बाबूराम-अवस्थिमहोदयेन प्राणायि ।। ग्रन्थेऽस्मिन् द्वादश कथाः सन्ति-गुरुभक्तिः, अलङ्कारमञ्जूषा, अनघा, र * प्रभुस्त्यागेन तुष्यति, बं-बं महादेव, असाधोः साधुता, रङ्गभङ्गम्, अजाचारणम्, भवितव्यता, आश्रमरक्षा, यथोप्तं तथाऽऽप्तम्, शैला च । परिशिष्टेऽप्येका 'निर्दोषाकृतिरीश्वरस्य' वर्तते । 'गुरुभक्तौ' गुरावनन्यनिष्ठस्य शिष्यस्य परीक्षणं विद्यते । 'अलङ्कारमञ्जूषायाम्' सुबाला स्वकीयालङ्कारमञ्जूषाया भूषणानि स्वपत्युर्भगिन्या विवाहावसरे 7 प्रदाय तत्र पुस्तकानि निदधाति । 'अनघा' इति कथायां रजनी, गुरुजनानामनुज्ञां ।। विनैव, स्वपत्या सह समागमं विधाय, परित्यक्ता सती गोमतीजले पतिता, पत्या च रक्षिता । 'प्रभुस्त्यागेन तुष्यति' इत्यत्र प्रभोः कृते सर्वस्वत्यागस्य महिमाऽभिधीयते । 'बं बं महादेव' इति कथायां शिवभक्तानां 'बं बं' इत्युच्चारणेन आङ्ग्लकुटुम्बस्य बमभीतिरुच्यते । 'असाधोः साधुता' इति कथायां कस्यचिदसाधोः सद्व्यवहारो वर्ण्यते । 'रङ्गभङ्गे' जीवने सुखसमये कथं कुलीनाया उपरि वज्रपात: 7 द सञ्जातः ? इति रम्यतयोद्यते । 'अजाचारणे' लुब्धस्य द्रविणदासस्य शोषणप्रवृत्तेः । समीचीनं समाधानं युवकानां जीविकाविहीनानां दुर्दशाया साकं सम्प्रस्तूयते । 'भवितव्यतायाम्' अपि रङ्गभङ्गमिव विधिविधानस्य प्राबल्यं प्रतिपाद्यते । 'आश्रमरक्षायाम्' कल्पनाबलेन भारतस्य प्राचीनं नूतनं च स्वरूपं विशदीक्रियते । 'यथोप्तं तथाप्तम्' इति कथायां कृपणः कामाधीनः कामवासनया यत्करोति - ५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy