SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ दत्तम् । तदमरफलं भक्षयित्वाऽहममरो भवेयमिति साधोरिच्छाऽऽसीत्, परमहं त्वामत्यन्तमिच्छामीति तदमरफलं न भक्षयित्वा तुभ्यमददाम् । मदिच्छाऽऽसीद् यत्त्वं तदमरफलं भक्षयित्वा हमरा स्याः, परं त्वमपि तन्न भक्षयित्वा स्वाभीष्टजनायाऽश्वपालाय तदददाः । त्वं मदपेक्षया तस्याऽमरत्वमिच्छसीति त्वामहं हनिष्यामि । (वेत्रैस्तां ताडयति ।) पिङ्गला क्षमस्व मां राजन् ! मां न जहि, मां न जहि । (रोदिति) । राज्ञा सोऽश्वपाल आहूतः । स उक्तो यद्-राज्ञीदत्तममरफलं वाऽस्ति ? तेन कथितं-तदमरफलमिष्टगणिकायै दत्तम् । राज्ञीदत्तममरफलं त्वया कथन्न भक्षितमिति निशम्य-राज्ञी ममाऽमरत्वमिच्छति स्म, परं मया स्वगणिकाया अमरत्वमिच्छितमित्यश्वपालो राजानं न्यवेदयत् ।। ROO (२) भर्तृहरिरुज्जयिन्या राजाऽऽसीत् । स प्रजापालकः प्रजाप्रियश्च बभूव । एक: साधुरेकस्मिन्दिने तस्य राजसभायामागतः । स एकममरफलं तस्मै भक्षणार्थं ददौ जगाद चाऽमरफलं भक्षयित्वा स त्वमर: स्यादित्याकर्ण्य राजा-'भवनं गत्वा . स्नात्वा भजनं च कृत्वाऽमरफलं भक्षयिष्यामी'ति कथयित्वा साधं विससर्ज । राजसभां समाप्य राजा भवनं गत्वा सज्ञी जगाद - 'पिङ्गले ! गृहाणाऽमरफलमेतत् । एतद् भक्षयित्वा त्वममरा स्या इत्यहमिच्छामि ।' तन्निशम्य राज्ञी 'राजन् ! प्रथमं त्वां भोजनं कारयित्वा, शयनकक्षे सेवया शुश्रूषया च त्वां स्वापयित्वाऽमरफलं भक्षयिष्यामी'ति निगद्य तत्कार्यसंलग्ना बभूव । रात्रौ राजनि शयिते निशीथे राज्ञी स्वप्रियमश्वपालं निकषा तदमरफलं गृहीत्वा जगाम निजगाद च – 'प्रियवर ! त्वममरफलमेतद् भक्षयित्वा ह्यमरः स्या इति कामनया त्वदर्थममरफलमानयम्' । राजीवचनं श्रुत्वा 'प्रिये ! स्वममरफलं तत्र मञ्जूषायां स्थापयित्वा मम पार्श्वमेहि, निशा व्यतति, कथं विलम्बः क्रियते' ? इति तेनोकम् । इत्थं स्वप्रियवचनं निशम्य तत्पाश्र्वं गत्वा गाढमालिङ्गनसुखमनुभूय सा निशीथानन्तरं राजभवनमाययौ । तदनन्तरमश्वपालस्तदमरफलं गृहीत्वा स्वप्रेमिकां गणिकामुपजगाम जगाद च - "प्रिये ! गृहाण त्वममरफलम् । एतत्खादित्वा त्वममरा भव । ततः सुरर्ति करिष्ये ।' इति तद्वचो निशम्य - 'नहि, नहि प्रियतम ! मे पार्श्वमेहि मां गाढमालिङ्ग ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy