SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सुरतिं च कुरु । ततोऽहममरफलं खादिष्यामि ।' इत्थं तद्वचः श्रुत्वा सोऽश्वपालस्तस्यै तत्फलं दत्त्वा प्रणयं च कृत्वा स्वस्थानमाजगाम । द्वितीये दिने सा गणिका मध्याह्ने राजसभां जगाम जगाद च.- 'राजन् ! एतदमरफलं मया त्वदर्थमानीतम्, तदेतत्खादित्वा त्वममर: स्या इत्यहं कामये ।' इति श्रुत्वा गणिकाया हस्तादमरफलं गृहीत्वा - ‘भद्रे ! गच्छ, राजभवनं गत्वा फलं भक्षयिष्यामि ।' इति तां निगद्य राजसभायामुपविष्टः स साधुना दत्तं तदमरफलं पर्यचिनोत् । ततो राजसभाविसर्जनं कृत्वा स राजभवनं ययौ । (३) राजभवनं गत्वा राजा भर्तृहरिः स्वराज्ञीमुवाद - 'पिङ्गले ! ह्यस्त्वया तदमरफलं न भक्षितम् । एतदमरफलं तदेव, यन्मया तुभ्यं दत्तम्, पश्य, पश्य । तत्फलं त्वया कस्मै जनाय दत्तं, सत्यं ब्रूहि ।' एतत्कथयित्वा राज्ञा तस्यां वेत्राघातः कृतः । ततो 'मारय मां न राजन् ! सत्यं वदामि ।' इत्थं कथयन्त्या राज्यास्तत्फलगमनवृत्तं श्रुत्वा तां विश्वासघातिनी मत्वा राज्ञा मृत्युर्घोषितः । ततो गर्तं खानयित्वा शिरोवर्जितं तस्याः शरीरं तस्मिन् गर्ने निक्षिप्य मृत्तिकया च गर्त प्रपूर्य तस्याः शिरसि हिंसकसारमेया दन्ताघाताय मोचिताः । राज्ञा भर्तृहरिणा विश्वासघातिन्यै राज्यै मृत्युर्दत्तः । . राज्ञो राज्यां बहु प्रेमाऽऽसीत् । स तां सर्वं मन्यते स्म । परं विश्वासघातात्तेन तस्यै मृत्युर्दत्तः । राज्ञीमृत्योः पश्चात्तस्य मनो विषण्णमभवत् । सांसारिकप्रपञ्चात्स विरक्तो बभूव । तेन स्वानुजो विक्रमादित्य उज्जयिन्या राजा घोषितः । तस्मै राज्यं समर्प्य स तप्तुं वनं जगाम । तेन शारीरिकं प्रेम धिकृतम् । राज्ञीसम्बन्धितघटनां गृहीत्वा भर्तृहरिणा लिखितम् - यां चिन्तयामि सततं मयि सा विरक्ता साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परिशुष्यति काचिदन्या धिक् ताञ्च तञ्च मदनं गणिकाञ्च माञ्च ।। २९५/१४, पट्टीरामपुरम् खेकड़ा (बागपत) उत्तरप्रदेशः-२०११०१ ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy