SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ) अमरफलम् वाजता के अमरफलम। यां चिन्तयामि सततं मयि सा विरक्ता डॉ. आचार्यरामकिशोरमिश्रः returnkamsutar (१) "पिङ्गले ! क्वाऽस्ति तदमरफलम् ? यन्मया तुभ्यं ह्यो दत्तमासीत्' । एतद् भर्तृहरिवचनमाकर्ण्य - 'तन्मया ह्य एव भक्षितं राजन् !' इति सा तदुक्तं प्रत्युत्तरितवती । 'यदि त्वया ह्यस्तद् भुक्तम्, तर्हि तदमरफलमद्य मे पार्वे कथमागतं राज्ञि !' इति श्रुत्वा 'नाऽहं जाने देव ! तस्याऽमरफलस्याऽऽगमनरहस्यम् ।' इति राजीवचनं निशम्य 'सत्यं ब्रूहि, मया त्वयि विश्वासः कृतः, परं त्वया तदमरफलं कस्मैचिदन्यस्मै जनाय भक्षणाय दत्त्वा मम विश्वासघातः कृतः ।' इत्युक्त्वा राज्ञा तस्यां वेत्राघातः कृतः । पिङ्गला मा मारय मां राजन् ! मा मारय माम् । भर्तृहरिः अहं वेत्राघातैस्तव प्राणान् हरिष्ये, यदि त्वं सत्यं न वदसि । पिङ्गला तदहं सत्यं वच्मि, वेत्राघातैर्मा न मारय । भर्तृहरिः सत्यं वद, तदमरफलं त्वया कस्मैचिद् दत्तम्, यन्मे पार्वं प्रत्यागतमद्य । त्वया विश्वासघातः कृतः । त्वामहं वेत्रैर्हन्मि । पिङ्गला राजन् ! मां वेत्राघातैर्न जहि, सत्यमेव वदामि त्वाम् । अहममरफलं भक्षयितुमुद्यताऽऽसम्, परं तदन्तर्गतं कीटमवलोक्य नाऽभक्षयम् । तदश्वपालाय दत्तम् । भर्तृहरिः तस्मै त्वया तदमरफलं कथं दत्तम् ? पिङ्गले ! सत्यं कथय । पिङ्गला मया तस्मै भक्षणाय तदमरफलं दत्तं राजन् ! मां न मारय । भर्तृहरिः पिङ्गले ! तदमरफलमासीत् । यस्तद् भक्षयिष्यति, स त्वमरो भविष्यतीति साधुनोक्तम् । राजसभायामागतेन साधुना तदमरफलं मह्यं भक्षणाय ७२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy