SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सत्ता किलेयमभितः स्तिमिता प्रशान्ता संयोगमुक्त मिति चाऽत्र सुखं प्रकृष्टम् । आनन्द एष परमो विदुषां मतोऽस्ति दुःखस्य मूलमियमेव भवत्यपेक्षा ॥५॥ संयोगमात्रमिह पर्यवसानहेतु संयोगजातमिह यन्न फलं हि तत्स्यात् । यरमादिदं नियमतो विनिपातशीलं मोहादबोधजनता बहु मन्यते तत् ॥६॥ मोहाद्विपर्ययमतिस्तदनु प्रवृत्तिमिथ्येत्यपर्यवसिताश्च ततस्त्वनाः । मोहो ह्ययं भगवता गदितोऽस्ति भावशत्रुः परोऽस्य विगमो हि मता विमुक्तिः ॥७॥ मुक्तस्य नो भवति केन सहाऽपि योगो नास्त्येव तस्य नभसाऽपि हि कोऽपि योगः । नैजं स्वपमधितिष्ठति सिद्धजीव आधार एव नभसोऽपि च नास्ति कश्चित् ॥८॥ सत्तान्तरं न खलु गच्छति सत्पदार्थ एतत्त्वचिन्त्यमति केवलिगम्यतत्त्वम् । एतद्धि निश्चयनयाश्रयणेन गूढतत्त्वावबोधरसिकेन विचारणीयम् ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy