SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ योगा भवन्ति सकला हि वियोगवन्तः सिद्धस्य नो भवति तन्नभसा वियोगः । तल्लक्षणाननुगमान्न किलैष योगः सिद्धस्य नास्ति नभसोऽपि च काऽप्यपेक्षा ॥१०॥ लोकान्तदेशगमनं सहजस्वभावात् सौख्यस्वभाव इच चाऽयमपि स्वभावः । कर्मक्षये प्रकटितश्च भवेत्स्वभावः । सर्वं समञ्जसमिति प्रकृतं श्रयामः ॥११॥ नैवोपमाऽस्ति किल सिद्धसुखस्य विश्धे तस्य प्रमाणमथ चाऽनुभवः किलैकः । स्यान्नूनमेष बत सिद्धिगतस्य तस्य नाऽन्यस्य चेति नियता स्थितिरत्र बोध्या ॥१२॥ सर्वज्ञभाषितमिदं सकलं स्वरूपं तन्नाऽन्यथा भवितुमर्हति निश्चयेन । तेषां निमित्तमपि नाऽनृतभाषणेऽस्ति नैवानिमित्तमपि संभवतीह कार्यम् ॥१३॥ प्रस्तूयते तदपि सिद्धसुखस्य किञ्चिद् बोधाय लौकिकनिदर्शनमात्रमेतत् । K यादृक् सुखं सकलशत्रुविनाशतः स्याद् यादृक् च सर्वविधरोगसमाप्तितः स्यात् ॥१४॥ Jain Education International For Private & Gersonal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy