________________
सर्वार्थलाभसमये च सुखं नु यत् स्यात् सर्वाभिलाषपरिपूर्तिवशाच्च यत् स्यात् । तस्मादनन्तगुणमेव सुखं तु मुक्तौ स्याद् भावशत्रुविलयादिक हेतुभिर्हि ॥१५॥ युग्मम् ॥
भावारयो जगति सन्ति च रागमुख्याः कर्मादयश्च विदिताः किल भावरोगाः । लाभो मतः परमलब्धिगणस्य नूनमिच्छा तु केवलमनिच्छपदस्य चात्र ॥१६॥ .
.
एतत्सुसूक्ष्ममिति सिद्धिसुखं न गम्यं सिद्धेतरेण किल तात्त्विक भावसारम् । न ज्ञायते यतिसुखं गृहिणा यथा वा रुग्णेन वा बत निरामयतासुखं तु ॥१७॥
मोक्षे सुखं किल नितान्तमचिन्त्यरूपमेकं तु सिद्धमनुलक्ष्य च साद्यनन्तम् । किन्तु प्रवाहमनुलक्ष्य भवेदनादि मुक्तौ यतो भगवतां स्थितिरीदृशी हि ॥१८॥
भव्यत्वमस्ति विविधं तु तथाप्रकारं वैविध्यमस्य फलभेदवशात्तु लक्ष्यम् । भेदोऽन्यथा न सहकारिषु संभवेन्नु सापेक्षभाव इह सर्वनियामको यत् ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org