________________
Jain Education International
पूर्वं तु बन्धरहितोऽस्ति ततो दिदृक्षा तस्याश्च बन्धनमिति प्रवदन्ति केचित् । नैवं यतो न घटते खलु साऽप्यदृष्टे स्वाभाविकीति कथने न निवृत्तिरस्याः ॥ २५॥
तस्या निवृत्तिरपि चेत् स्थितिरात्मनोऽपि न स्याद्यतः सहजलक्षणनाश एषः । सांसिद्धिकी भवितुमर्हति सा दिदृक्षा भव्यत्वतुल्यकथनं च न नीतियुक्तम् ॥२६॥
भव्यत्वमस्ति नहि केवलजीवमात्रमेषा स्वभावघटिता बत जीवभूता । नो केवला यत इहाऽस्ति हि भाविकाले संयोग इत्यपि मतं न समञ्जसं स्यात् ॥२७॥
चेत् केवला प्रथमतो न ततस्तु शक्यः केनाऽपि योग इति नो विकृतिप्रसङ्गः । किं वाऽन्ययोगभवनोत्तरतोऽपि तस्याः सत्ता किलाssपतति साहजिकत्वतस्तु ॥२८॥
योगादनन्तरमियं च निवर्तते तत्स्वाभाव्यतः कथनमित्यपि न प्रमाणम् । नव्यः पदार्थ इति शास्त्रविरोधदोषो
दोषः प्रमाणविरहः किल कल्पितायाम् ॥ २९॥
११
For Private & Personal Use Only
www.jainelibrary.org