________________
पत्रम
- मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । तव कुशलं कामये ।
सर्वेऽपि जना मत्कोटकं जानन्ति पश्यन्ति चाऽपि, किन्तु तस्य चेष्टास्तथा तत्पश्चाद्वर्तमाना मनोवृत्तीन केऽप्यवगच्छन्ति । न वा ता दृष्ट्वा मनसि बोधलेशोऽपि प्रादुर्भवति । यदि चित्तं स्वस्थं जागृतं च स्यात्तदाऽस्मिन् जगति क्षुद्रजन्तुष्वपि प्रवर्तमाना चेष्टाऽस्माकं बोधं जागरयितुं समर्थाऽस्ति । किन्तु
हन्त ! वयं सर्वेऽपि संवेदनबधिराः । अत एव प्रतिदिनं प्रतिक्षणं च चैतन्योद्बोधिका 12 घटना घटन्ते, तथाऽप्यन्तस्तले न किमपि संवेदनं जायते । संवेदनशून्यो मनुष्यो
मनुष्य एव न कथ्यते, यतः संवेदनशीलता जीवनस्य हार्दै दैवदत्तोऽमूल्य उपहारश्चाऽस्ति । अन्येषां दुःखं पीडां च दृष्ट्वा चित्ते करुणा नोत्पद्यते चेन्मनुष्यस्येतरप्राणिनश्च मध्ये को भेद: ? अतो न कदाऽपि संवेदनशून्यतया भवितव्यम् । अस्याः संवेदनाया वृद्ध्यर्थं निरन्तरं पशु-पक्षि-वनस्पत्यादिप्रकृतेः प्रत्येकमङ्गानि सूक्ष्मं संवीक्षणीयानि ।
मयैकं दृश्यं दृष्टम् । यद्यपि तत्तावद् महत्त्वोपेतं नाऽऽसीत्, तथाऽपि विचारप्रेरकं तु नूनमासीदेव । एको बालको मत्कोटकं स्वहस्तेन वारं वारं दूरीकरोति स्म, तथाऽपि स मत्कोटकस्तामेव दिशं मुहुर्मुहुः प्रत्यागच्छति स्म । प्रायः पञ्चदशवारमेवं कृतम् । कदाचित्तु स दूरं पतितः, कदाचिदुत्पतितः, एवं च तस्य पादो भग्नः, तथाऽपि स तामेव दिशं पुनः पुनः प्रत्यागच्छति स्म । एतद्देश्यं दृष्ट्वाऽस्माकं मनोदशा स्मृतिमागता । अस्माभिरनेकश उन्मार्गः प्राप्तः । सदुपदेशदानेन सद्गुरुभिः सन्मार्गे स्थापिता वयम् । तथाऽपि वयं पुनः पुनरुन्मार्गे एव गच्छेम ।
३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org