________________
RAV) प्राप्नोति । तथा विचारयन् कुर्वन् संश्च सोऽहङ्कारतुष्टिमेव प्राप्नोति यां च सुखं मत्वा ) सततं पोषयत्यपि । अन्ततो गत्वा च पश्चात्तापः सन्तापो वैव तदर्थमवशिष्यते ।
__ अपि कश्चिच्छायां ग्रहीतुमुत्सहते खलु ? उत्सुकोऽपि कोऽपि किं तत्र सफलो भवति किल? स्वार्थवृत्त्या सुखस्य लिप्सा तु छायाग्रहणवृत्तितुल्याऽस्ति । NO मूलपदार्थं विहाय तच्छायाग्रहणे उत्सुक आजीवनं वञ्च्यते । सुखस्याऽभिलाषस्तदर्थं च प्रयत्नोऽपि स्वीकरणीय एव । किन्तु सुखं यदा स्वसुखत्वेन सीमितं भवति तदाऽभिलाष एवाऽऽग्रहो जायते, यश्च दुःखस्य मूलमस्ति । सुखाभिलाषो हि यदा स्वार्थवृत्त्या कर्दमितो भवति तदा स सन्तापे पर्यवस्यति । स्वसुखस्य शुद्धिरेषणा वा छायाग्रहणवृत्तिरस्ति । या वास्तवसुखात् सदा दूरमेव नयति । अत एवोक्तम्'ये केचिद् दुःखिता लोके सर्वे ते स्वसुखेच्छया' इति ।
अस्मिन् श्लोके प्राणिनां सहजवृत्तिं प्रति निर्देशः कृतोऽस्ति । दुःखमूला या वृत्तिरस्ति सैव परिवर्तिता सुखमूला जायते । वृत्तेः परिवर्तनं विना प्रवृत्तौ परिवर्तनं न सम्भवति, तद्विना च परिणामोऽपि नैव परिवर्तते । 'स्वा-ऽन्य'इतिशब्दाभ्यामेतदेव संसूचितमस्ति । स्वसुखचिन्तनरूपा या वृत्तिरस्ति सैव यदि परसुखचिन्तनरूपा स्यात् तदा वास्तवस्य सुखस्य तु सहजमेवाऽनुभव: स्यात् । यत्र चैवं वास्तव-सुखस्याऽनुभवः सम्प्रवर्तते तत्र स्वार्थकलुषितस्य मिथ्यासुखस्याऽऽकाङ्क्षालेशोऽपि तत्तृष्णा वाऽपि न समुद्गच्छति समुच्छलति वा । यश्च स्वसुखमेव चिन्तयति स कदाऽपि परसुखं सोढुं न प्रभवति । तस्य चित्ते सर्वदेाग्निः प्रज्वलितों भवति । ईष्र्यैव च दुःखं किल ? । यश्च परस्य सुखं चिन्तयति तस्य सर्वोऽपि व्यवहार औदार्य-विवेकादिगुणमण्डित एव भवति । परांश्च समाहितान् सुखितान् प्रसन्नांश्च दृष्ट्वा स आनन्दमनुभवति । तदेव च सुखं नाम । सोऽन्यस्मै दत्त्वैव सुखमनुभवति, न कस्यचिद् गृहीत्वा । एतादृशो जनो न कदापि दुःखी भवति ।
आ कुटुम्बात् समग्रविश्वस्य शान्तेर्मूलमन्त्रोऽस्ति- परसुखस्य चिन्ता परमार्थो वा । यदि नाम सर्वेऽपि परस्परं सुखं हितमानुकूल्यं वा चिन्तयेयुस्तदा सुखं तु छायावत् सदाऽप्यनुसरेदेव । अत एवोक्तं च - "ये केचित् सुखिता लोके सर्वे तेऽन्यसुखेच्छया ।"
यद्यपि स्वसुखं गौणीकृत्याऽपि परसुखस्य चिन्तनं तु दुष्करमस्त्येव, न किन्त्वसम्भवम् । मनुष्यत्वस्य परीक्षा हि दुष्करस्य सिद्धावेव किं नास्ति ? ।
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org