________________
वयं सर्वेऽपि विषयसुखेषु नितरामासक्ताः स्मः । एतद्विषयसुखलालसावशात् । क्षुद्रजन्तुत्वं प्राप्तम्, एवं बहुशो दुर्गतिं प्राप्नुवन्तो वयं सर्वेऽपि । तत्राऽतीव दुःखमवमाननं च सोढमस्माभिः । यथाऽशिक्षिताश्वो जनमुन्मार्ग नयति पातयति च, तथैवेते विषया आत्मानमुन्मार्ग नयन्ति दुर्गतौ च पातयन्ति, अकरणीयं कारयन्ति करणीयं च त्याजयन्ति, सद्बुद्धि सदाचरणं सन्नीतिं च नाशयन्ति, अन्यायं दुराचारं च कारयन्ति, क्लेशमुत्पादयित्वा शान्ति समाधि च घातयन्ति, तथाऽपि तद्विषयसुखमवाप्तुमन्धीभूय वयमटामः । रमणीयं रूपं, मनोहरं गन्धं शब्दं च, कोमलं स्पर्श मधुरं रसं चोररीकर्तुं किं किं न कृतम् । विषयसुखस्य निदानरूपं धनं लब्धुं कियन्ति कष्टानि सोढानि, हस्तगतं सुखं विहाय नूतनं दुःखं प्राप्तम्, नीतिर्दया मर्यादा चाऽप्यपाकृता, मन्त्रतन्त्रादिप्रयोगाः कृताः, तथा स्नेहिजनैस्सह संघर्षः क्लेशश्च कृतः । भो ! वद, धनप्राप्त्यर्थं किं किं न कृतम् । कथितं चउत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितांपतिपतयो यत्नेन सन्तोषिताः । मन्त्राराधनतत्परेण मनसा नीताः श्मशाने क्षपाः
प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् || भ्रातर् ! एतद्विषयसुखं तु क्षणिकमस्ति । यद्याजीवनमेतद्विषयसुखमनुभूयेत तथाऽपि तृप्तिर्नाऽनुभूयते । यथा नयनयोरुद्घाटितयोः सतोः स्वप्नेऽनुभूतस्य सुखस्योपलब्धिर्न भवति तथैव विषयसुखेऽनुभूते सति न कदाऽपि तस्य सुखस्याऽनुभवो भवति । स्वप्ने दृष्टो घृतपूरो न क्षुधां शमयति, न च मरीचिकाजलेन कदाऽपि तृष्णोपशाम्यति तथैव विषयसुखस्योपभोगेन चित्ते न कदाऽपि तृप्तिरनुभूयते।
विषयसुखं तु किंपाकफलमिव ज्ञेयम् । यथा बाह्यदर्शनेन किंपाकफलं सुन्दरं भासते, आस्वादनेऽपि मधुरमस्ति, किन्तु तत्फलोपभोक्ता तत्क्षणमेव मृत्युमवाप्नोति तथैव विषयसुखस्योपभोगकाले चित्ते आनन्दोऽनुभूयते किन्तु तत्फलरूपेण दुर्गतिरेव प्राप्यते । अध्यात्मकल्पद्रुमे उक्तं च
आपातरम्ये परिणामदुःखे सुखे कथं वैषयिके रतोऽसि । जडोऽपि कार्यं रचयन् हितार्थी करोति विद्वन् ! यदुदर्कतर्कम् ॥ बन्धो ! अत्रैतदेव चिन्तनीयमस्ति यद् मत्कोटकस्य मनो नास्ति, ततोऽत्र
४० For Private & Personal Use Only
Jain Education International
www.jainelibrary.org