________________
दुःखमस्ति, अन्यत्र गमने सुखमस्तीति स न जानाति । अस्माकं समीपे मनोऽस्ति बोधश्चाऽप्यस्ति । यदि बोधो न स्यात्तदा किमपि क्रियमाणं क्षम्यं स्यात्, किन्तु सत्यपि बोधे सुखमार्गमाराधनां च विहाय दुःखमार्गे विराधनाया मूलरूपे विषये चैवाऽऽसक्तिः क्रियते तत्तु नितरामक्षम्यं भवति । शाश्वतं सुखं कथं केन च प्राप्यते तत्सर्वं वयं जानीम एव । कदाचिदुन्मार्गः प्राप्यते तदा प्रेरणां दत्त्वा सन्मार्गे स्थापयन्तो हितचिन्तका गुरवश्चाऽपि सन्ति, तथाऽपि विषयेष्वासक्तिं विधाय वयं सर्वेऽपि तस्यां दिश्येव धावामः । तदाऽस्माकं तस्य च मध्ये को भेदः ? इति प्रश्नोऽप्युद्भवति । तदा वयं मत्कोटकादपि निम्नाः स्म इति भासते!।
बन्धो ! परमपुण्योदयेनैतन्मानुषत्वं प्राप्तम् । पूर्वभवेषु क्लिष्टानि कर्माणि क्षपयितुमुग्रतप आचरितं भवेत्तथा बही धर्माराधना कृता स्यात् तद्यैवैतन्मानुष्यं लब्धम् । दुर्लभमेतन्मनुजभवमवाप्याऽपि यो मृगतृष्णासमेषु क्षणिकेषु विषयसुखेषु निरन्तरं रमते स मूर्ख इत्युपलक्ष्यते । मनुष्यभवस्तु चिन्तामणिरत्नसमो वर्णितः । किन्त्वत्राऽन्तरमेतदस्ति यत्, पतितं तद्रत्नं कदाचित् पुनरपि प्राप्यते, किन्त्वेतन्मानुषत्वस्याऽवाप्तिस्त्वतिदुष्कराऽस्ति । सिन्दूरप्रकरे गदितम्अपारे संसारे कथमपि समासाद्य नृभवं
न धर्मं यः कुर्याद् विषयसुखतृष्णातरलितः । बुडन् पारावारे प्रवरमपहाय प्रवहणं
स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ।। तत्राऽप्यन्येषां पीडने ताडने च तथा तेषामशुभचिन्तनेऽपि पापं मन्यते, तादृशमार्यधर्ममवाप्याऽपि वयं विषये लम्पटाः स्याम तदा किं भवेत् ? भो ! (7 विषयसुखं त्वनादिकालाद् बहुशोऽनुभूतं तथाऽपि तृप्तिर्न जाता । मत्कोटकस्यैषा
स्थितिरस्मान् बोधयति - भ्रातः ! विषयासक्तिं विहाय धर्ममाराधय । तत्रैव सुखमस्ति, 13 अत्र तु दुःखमेवाऽस्ति । अत एतद्विषयसुखं विहाय शाश्वतसुखप्राप्त्यर्थं
धर्ममाराधयेत्याशासे ।
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org