SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ परिष्कारं प्राप्नोति । शिक्षणमेव यदि भ्रष्टं स्यात् तर्हि ततो विचारशीलं विवेकशीलं वा यौवनं नैवोत्पत्स्यते ! भ्रष्टशिक्षणाज्जायते उन्मत्तं यौवनं, यच्च स्वपरोभयहितं नाशयति । अद्य यत्किमपि चित्तसङ्क्लेशजनकं व्यथोत्पादकं वा घटते तदेवोन्मत्तताया विवेकशून्यतायाश्च प्रमाणमस्ति । स्वातन्त्र्यं सर्वेषामभीष्टमेव, नाऽत्र संशयो नाऽपि विरोधः । किन्तु स्वातन्त्र्यं यदा विवेकमण्डितं भवति तदा तद् दीप्यतेऽनुसरणीयं चाऽपि सम्पद्यते । विवेकदानं तु शिक्षणस्य कार्यम् । ___पुनः समालोचनीया शिक्षणपद्धतिः । अत्यावश्यकमिदम् । नैतद्विना संस्कृतेः, संस्काराणां संस्कृतस्य चाऽपि संरक्षणं संवर्धनं च कथमपि शक्यम् । किन्तु क एतत् श्रोष्यति ? कस्य पुरः पूत्कुर्महे ?! कीर्तित्रयी फाल्गुनशुक्लपञ्चमी जामनगरम् .. . लेखकेषु वाचकेषु च सूचना १. सुरुचिपूर्ण शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम् । २. पत्रस्यैकस्मिन्नेव पार्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् । ३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) ४. अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । ५. वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्य स्यात्। ६. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः प्रतिभावो भवतु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy