SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः MIRE NMENTA एच. वि. नागराजरा - मैसूरु - नमो वीतरागाय । नवनन्दनवनकल्पतरुं जनमानसनुतविज्ञगुरुम् । अभिवीक्ष्य निरन्तरमातनुते हृदयं मम नर्तनमद्य मुदा ॥ कीर्तित्रयी जयति लोकहितैषिणीयं वाग्भिः सदा विदधती बहुधर्मलाभम् । हासं कदाचन कदाचन बाष्पधारां सन्तन्वती जनमुखे ससुखेडसुखेडपि ॥ प्राकृतसंस्कृतवचनै रीतिं नीतिं च सकललोकस्य । यो बोधयति समस्तान् स जयतु नन्दनवनकल्पतरुः ॥ प्रा. अभिराजराजेन्द्रमिश्रः हरिद्वार नन्दनवनकल्पतरोः सप्तदशोऽङ्कः समवाप्तः । आचार्यचरणैविरचितां वर्धमानस्तुतिमधीत्य गादीभूतं मनो गौरवेण । हन्त, प्राकृतभाषाऽद्याऽपि जीवतितरां महता वैभवेन । वस्तुतो नन्दनवनकल्पतरुः संस्कृतभाषायाः सौष्ठवज्ञापने रुचिरमैतिचं किञ्चिद् विरचयति । सर्वोत्तमेयं संस्कृतपत्रिका प्रतिपाद्यगुणवत्ता-परिशुद्धिदृष्ट्या । अन्यथा तु प्रतिपदं त्रुटिनिचिताभिः पत्रिकाभिः काऽप्यन्यैव संस्कृतभाषा निर्मीयते । भवतां श्रमैः नन्दनवनकल्पतरुः स्वसंज्ञासार्थकतां साधु चरितार्थयतीति समाऽनुभवः । nak Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy