SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकम् वर्तमानस्य समाजस्य समयस्य च बृहती समस्याऽस्ति शिक्षणस्य । शिक्षणस्य दारिद्यमेव सर्वत्र प्रसृतमनुभूयते । बाह्यदृष्ट्या यद्यपि शिक्षणस्य प्रमाणं वृद्धि गतमस्ति तथापि तदक्षरज्ञान एव पर्यवसितं दृश्यते, न तस्य साफल्यं परिणमनं वाऽनुभूयते, नाऽपि शिक्षणाज्जायमानं तेजः कस्याऽपि मुखे विलसद् दृश्यते । आडम्बरस्तु दृश्यते, न किन्तु तेजः । अत्र कारणं त्वेतावदेव यदद्यत्वे शिक्षणं स्वकीयान्मूलभूताल्लक्ष्याच्च्युतं जातम् । शिक्षणं तु शिक्षकाणां धर्म आसीद् यदद्य व्यवसायरूपेण तैः परिकल्प्यते । विद्यार्थिनां कृते तु विद्या उपासनीयाऽऽसीत् , किन्तु तैरप्येषाऽऽजीविकाया साधनत्वेन परिकल्पिता । शिक्षणस्य मुख्य लक्ष्यमासीदस्ति चाऽपि, विद्यार्थिनां सत्त्वस्योज्जागरणम् , तेषां विचारशीलतायाः सम्यग् विकसनम् । यत्र विचारोऽस्ति तत्र विवेको जागृतो भवत्येव । यत्र च विवेकस्तत्र जीवनस्य सौन्दर्यं विकसति । वर्तमानकाले तु विपरीता स्थितिर्दृश्यते । “सर्वे गुणाः काञ्चनमाश्रयन्ते''-इत्येतादृशं विकृतविचारं विचारविषं वा सिच्यते आबाल्यात् । एतच्च विषं विवेकं नाशयति । सम्प्रति सर्वत्र-आहारे, विहारे, व्यवहारे, विचारे, व्यवसाये, भोगोपभोगे, वस्त्रपरिधाने, परिचये चेत्यादिषु-विवेकस्याऽभाव एव परिलक्ष्यते । नैतावदेव किन्तु येषां देवालयतुल्यो महिमा विद्यते तेषु विद्यालयेषु महाविद्यालयेषु चाऽपि ! तत्र कीदृशा दिवसाः कीदृश्यश्च स्पर्धा आयोज्यन्ते ? एतादृशैरायोजनैः किं विद्यार्थिनां सात्त्विकता, तेजस्विता, विचारौन्नत्यं वा सिद्ध्यति परिपुष्यति वा ? एतादृशान्यायोजनान्यध:पतनं निमन्त्रयन्ति । नितान्तं भौतिकताया एव पुरस्कारो गानं वा सर्वत्र क्रियते । समानताया उद्घोषणयाऽऽन्दोलनेन वा परस्परं समादरस्य संस्कारा अस्माभिर्नाशिताः । आङ्ग्लैर्भारतवर्षे शासनं कृतम्। 'भारतीयानां मनःस्थितिः परिवर्तनीया' - इत्येषाऽऽसीत् तेषां मनीषा । 'मेकोले' इत्यभिधो जनोऽत्राऽऽगतः । सर्वत्र सर्वेक्षणं कृतवान् । स्वदेशे गत्वा स नेतृणां पुरः स्वाभिप्रायं प्रदर्शितवान् यद् - "यदि भारतीयानां संस्कृतौ परिवर्तनमभीप्सितं तर्हि तेषां शिक्षणपद्धतौ परिवर्तनमनिवार्यम् । न तद्विना किमपि कर्तुं शक्यम् ।" ईदृश आसीन्महिमाऽस्माकं शिक्षणस्य शिक्षणपद्धतेर्वा । लोकजिह्वासु कालिदास-माघ-बाण-धनपालादिमहाकवीनां काव्यानां श्लोकानां गानं श्रूयमाणमासीत्, लोकहृदयेषु च महावीर-बुद्ध-कृष्णप्रमुखाणां महापुरुषाणां जीवनमादर्शरूपेण संस्थितमासीत् । ततः प्राप्यमाणानां संस्काराणां तेजो विलसदासीत् । किन्तु, अद्य? किं गानं श्रूयते ? के वाऽऽदर्शरूपेण संस्थिताः ? सर्वं लज्जास्पदमेव ! आङ्ग्लैः स्वकार्य साधितम् । पाश्चात्यानामनुकरणेऽस्माकं मौढ्यस्य मूलमत्रैवाऽस्ति । अतः शिक्षणेनैव जीवनं, परिवारः, कुटुम्बः, समाजः, ग्रामः, नगरं, राज्यं-राष्ट्रं वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy