SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सत्त्वमूलं भवेद्धैर्यं धैर्यमूला सहिष्णुता । वञ्चिताः सत्त्वधैर्याभ्यां भवन्त्येवाऽसहिष्णवः ॥११०॥ यथा समस्तरोगाणामुदरं चैव कारणम् । तथैव सर्वपापानां मूलमेषाऽसहिष्णुता ॥१११॥ पाखण्डी वञ्चको धूर्ताऽनृतभाषी च निन्दकः । स्वार्थी विश्वासघाती चाऽसहिष्णुरेव जायते ॥११२॥ क्वथिताम्भसि कासारे यथा शक्ता न जीवितुम् । भेककच्छपपाठीना हंसकारण्डवादयः ૩૨૩ો तथैवाऽमर्षसप्तार्चिरसन्दीप्ते हृदये नृणाम् । क्व दया ममता प्रीतिः क्च धर्मः क्व शमोऽथवा॥११४॥ जीवन्नपि ततश्चाऽयं मृत्युकष्टं प्रतिक्षणम् । आत्मशप्तस्सहत्येव हतभाग्यो वृथा नर: ॥११५॥ समेषामेव जीवानां सकृन्मृत्युरिति श्रुतः । पराभ्युदयसामर्षो नित्यमृत्युरयम्पुनः ઉદ્દો स्वार्थान्धो मोहसंग्रस्तो नूनमत्र न संशयः ।। अदूरदर्शी गाढञ्च सक्तो ज्ञातिषु बन्धुषु ॥१७॥ अज्ञानं मूलमरयाऽस्ति दुर्विवेकश्च भूतलम् । याभ्यां संवर्ध्य ते क्षिप्तं सोऽयं स्वार्थान्धताद्रुमः ॥११८॥ गुणानुपेक्ष्य निर्लज्जो लोकनिन्दां विधूय च । स्वलाभञ्च पुरस्कृत्य स्वार्थी प्राणी प्रवर्तते ॥११९॥ मत्वा ब्रह्माण्डविरतारं कूप एव प्रतिष्ठितम् । यथा सुनेन जीवन्ति क्रीडन्तः कूपदर्दुराः ॥१२०॥ ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy