SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ स्वार्थान्धास्ते तथा स्वीयां हितसिद्धिमबाधिताम् । मुक्तिकल्पां मन्यमाना जीवन्ति ससुरवं भुवि ॥२१॥ निःस्वार्थान् परितश्चैते स्वार्थान्धाः सहगामिनः । कृशानुं परितो यद्वद् धूमबिम्बो विराजते ॥१२२॥ प्रतिवेशं ततः स्वीयं सम्यङ् निभालयेज्जनः । सम्परीक्ष्यैव मर्म स्वं स्वजनेषु प्रकाशयेत् ॥१२३॥ विकत्यनं नमाम्यन्ते नूरलं नवमं भुवि । प्रब्रह्माऽप्यतिशेते यस्य माहात्म्यमुज्ज्वलम् ॥१२४॥ भूतले कर्मशूरास्तु दृष्टा एव पदे-पदे । दानशूरा दयाशूरा धर्मशूरास्तथैव च मुरवशूराः परन्त्वेते जल्पाका बहुभाषिणः । अहंयवोऽतिधृष्टाश्व स्वरिमन्मुग्धा विकत्थनाः ॥१२६॥ पण्डिता आत्मवक्तव्यैर्वेदवेदाङ्गपारगाः । नयज्ञाश्च कलावन्तो मुखेनैव न कर्मणा ॥१२७॥ मुखेनैव महाप्राज्ञा मुखेनैव परन्तपाः । ऋषयो मुनयश्चाऽपि मुखेनैव कवीश्वराः ।।१२८॥ ॥१२९। कथा प्रकल्प्य निर्मूलामेकमात्रात्मसाक्षिणीम् । प्रख्यापयन्ति मुग्धेषु स्वीयां कीर्तिबृहत्कथाम् किमुच्येताऽधिकं हन्त सीमारेरवाविधायिनीम् । एकां लज्जां परित्यज्य त्रैलोक्यजयिनस्त्विमे ॥१३०॥ दृष्टा पार्थेन कृष्णरय वपुषा विश्वरूपता । मौखिकं विश्वरूपत्वं पश्येदेषां जगत्पुनः ॥१३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy