________________
छद्मना वञ्चयित्वा यस्सुजनं गर्वमुद्हेत् । धिक् तं तालद्रुवत्प्रांशुं हतस्वादं बृहत्फलम् ॥९॥ मातृष्वसेयः कोऽप्यन्यो वञ्चकस्य प्रतीयते । समाजे यो हि पाखण्डी सनिकारं समुच्यते ॥१००॥ पापं हाखण्डितं यस्य पाखण्डी स भवेत्किल । अनया शब्दव्युत्पत्त्या गूढार्थोऽस्य प्रकाश्यते ॥१०१॥ ज्ञानं योऽभिनयेद वाग्भिस्सत्त्वैः पटादिभिः । तत्त्वशून्यस्स दुर्वृत्तः पाखण्डीति समुच्यते ॥१०२॥ ज्यौतिषज्ञानशून्योऽपि दैवज्ञीभूय संसदि । प्रतिष्ठां महती स्वीयैः फलितैर्लभते क्वचित् ॥१०३॥
पाखण्डेन क्वचित्पाज्ञो मान्त्रिकस्ताविकोऽथवा । सिद्धदेवकृपश्चाऽयं जायते मूढसंसदि ॥१०४॥ रहस्यं यावदुद्भिद्यात्तावत्सर्वान् प्रवञ्च्य सः । कौबेरीं श्रियमादाय प्रयाति शशशृङ्गताम् ॥१०५॥ अस्याऽभिनयसम्मूढा लोकाश्चित्रार्पिता इव । वशेऽस्य ननु तिष्ठन्ति मोहिताश्च हतप्रभाः ॥१०६॥ धर्मेऽथ राजनीतौ च शिक्षायां न्यायसंसदि । पाखण्डिनां न कुत्राऽस्ति साम्राज्यमकुतोभयम् ? ॥१०७॥ असहिष्णुस्ततो रलमन्यदेवाऽस्ति भूतले । अहर्निशं ज्वलत्येव निस्तृणो यो निरिन्धनः ॥१०॥ परेषां सद्गुणोत्कर्ष सोढुमेवाऽयमक्षमः । सामञ्जस्यं निजं त्यक्त्वाऽसहिष्णुः खलु जायते ॥१०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org