SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ तेषां कृते किमुच्येत हीनसत्त्वाः स्वयं नु ते । प्राग्दुष्कर्माणि भुआनाः पशुभ्यो नाऽधिकास्तु ते ॥८॥ विज्ञप्रकारकाः किन्तु समाजेऽनृतभाषिणः । सन्ति सृष्टिकलङ्कास्ते छलच्छद्मसु पारगाः ॥९॥ असत्यं तेऽभिभाषन्ते स्वार्थसिद्ध्यै हि केवलम् । शाठ्यकैतवधौर्यादिविद्याशाखासु शिक्षिताः ॥१०॥ . रज्जुर्यथा सृजत्येव प्रदोषे भुजगभ्रमम् । तथैषामनृतञ्चाऽपि स्वस्मिन्सूते ऋतभ्रमम् s संरक्षेदनृतं कामं प्रयोक्तारं श्रितभ्रमम् । ज्ञानसूर्योदये जाते किन्तु तद्वै प्रलीयते sરી यथा ज्ञानोदये जाते रज्जू रज्जुन चोरगः ।। तथा सत्योदये जातेऽसत्यमेवाऽवशिष्यते असत्यभाषणेनैव साधयितुं य इच्छति । सापवर्ग त्रिवर्ग स जले सौधं चिकीर्षति ॥४॥ अनृतं भाषितुं दक्षो भवत्येव प्रवञ्चकः । उभयोरविनाभावः स्वयंसिद्धश्चिरन्तनः । Resો ॥१३॥ साध्यं प्रवञ्चनं नाम न्यायशास्त्रदृशा यदि । असत्यभाषणं तस्य साधनं भवति ध्रुवम् ॥६॥ आदौ विश्वासमुत्पाद्य ततः संस्थाप्य सौहृदम् । अन्ते प्रवञ्चयन्त्येव सज्जनान् श्वजनाः खलु ॥१७॥ आत्महीनस्स मन्तव्यो वञ्चकः पुरुषाधमः । पशुभ्योऽपि गतं वीतं जीवनं यो हि जीवति ॥८॥ Jain Education International ३२ For Private Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy