SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Jain Education International शौर्यविक्रमसन्मार्गैरुदेतुं सर्वथाऽक्षमाः । नीचा एते विनिघ्नन्ति विश्वासं प्राणसंश्रयम् निजोपकारिणं हत्वाऽपकारेणैव दुर्जनाः । सर्वं सांसारिकं सौख्यं प्राप्तुमिच्छन्ति लीलया आजीवनं दहन्त्येते किन्तु पापाग्निसञ्चये । यो न निर्वाप्यते हन्त तेषां नेत्रद्वयाश्रुभिः को नु जानाति तत्पीडां चैतन्यपरितापिनीम् । ऋते सरस्वतीपुत्रात् क्रान्तदृष्टिकवीश्वरात् जीवन्तोऽपि मृता एते जनमध्येऽतिगर्हिताः । मुखं निगूह्य जीवन्ति बिलस्थाः पन्नगा इव गुणानुक्रमदृष्ट्यातु चतुर्थोऽनृतभाषकः । योऽपहाय शुभं मार्गं वृणीतेऽशुभपद्धतिम् अनवाप्तसुसंस्कारा हीनवंशसमुद्भवाः । कविकोविदधर्मात्मगुरुसंसर्गवञ्चिताः सत्यतत्त्वमजानन्तो विद्याधिगमवर्जिताः । प्रायेण भुवि दृश्यन्ते जना अनृतभाषिणः द्विविधाः परिलक्ष्यन्ते नो तृतीयप्रकारकाः । अज्ञा विज्ञाश्व त एतेऽसत्यभाषणजीविनः . सत्यासत्यविवेकेषु येऽसमर्था निसर्गतः । - उभयञ्च समीकृत्य व्यवहारं प्रकुर्वते सन्ति निश्चप्रचं ते वै अज्ञा अनृतभाषिणः । पशुपक्षिनिर्विशेषा अतो विघ्नितचेतनाः ३१ For Private & Personal Use Only ॥७७॥ ॥७८॥ ॥७९॥ વોટનો ગી દો કો ોકો દી ॥८७॥ www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy