SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ निर्वोढम् । सम्मेलनस्य मुख्यवक्ता कविश्रीजयन्तिजोषी-'शबाब'-महोदय आसीत् । तेन सहैव गान्धीधामस्वामिनारायणगुरुकुलस्य महन्तः स्वामिश्रीसत्यप्रकाशमहोदयः, अलवरनिवासी पण्डितश्रीसत्यानन्दवेदवागीशमहोदयः, प्रा.श्रीमेहुलशाहमहोदयः, प्रा.श्रीमीठालालदवे महोदयस्तथा कच्छसंस्कृतभारत्याः कार्यकर्तभिः श्रीगिरीशपण्ड्यामहोदय-सश्रीविलासबाजाडेजामहोदयइत्यादिभिः संस्कृतभाषाया महत्त्वविषये प्रवचनं कृतं तस्याश्च प्रचारप्रसारार्थमुद्यमयितुं प्रेरणा प्रदत्ता संस्कृतगीतानि च प्रस्तुतानि । सम्मेलनमध्ये कच्छविश्वविद्यालयस्य कुलपतेः संस्कृतप्राध्यापकस्य च श्रीमत: डॉ.कान्ति-गोरमहोदयस्य सन्मानमभिवादनं च गान्धीधामनगरस्य नगरपतिना श्रीमता हिम्मतदानगढवीमहोदयेन कृतम् । डॉ. कान्ति-गोरमहोदयेनाऽपि संस्कृतस्य महत्त्वमुपवर्णितं संस्कृतप्रदर्शन्याश्च प्रशंसा कृता । सम्मेलनस्य सञ्चालनं श्रीअखिलेशआर्यमहोदयेन कृतं, तथाऽस्मिन् प्रसङ्गे आर्यसमाजस्य कार्यकर्तारः, संस्कृतभारतीकार्यकर्तारः, कविश्रीरमणीकसोमेश्वरमहोदयः, स्वामिश्रीचिन्मयानन्द इत्यादय उपस्थिता आसन् । क्लान्तमपोद्यति खेदं, तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥ TITU ७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy