________________
(कथा) गुरुदृष्टिः
EMA
मुनिधर्मकीर्तिविजयः
दशानां वर्षाणां साधनाया अन्ते "अन्येषां जीवानां साधनां कारयितुं' जो योग्योऽस्मि" इति विचिन्त्य बुद्धशिष्योऽङ्कमालो गुरोः समीपं जगाम । प्रभो ! "अहं लोककल्याणार्थं गन्तुमिच्छुक" इति तेन निवेदितं गुरवे ।
"अन्यस्मै दातव्यं किमपि त्वयि नास्ति । ततोऽधुना साधनां कृत्वा । 6 योग्यतां प्राप्नुहि" इत्याह बुद्धः ।
पुनस्तेनाऽङ्कमालेन साधना प्रारब्धा । पूर्ववद् दशवर्षाणामन्ते गुरोः सविधे गत्वा तेनोक्तं "क्रोधादिविजये पारङ्गतोऽहं, ततो यदि भवान् मामाज्ञापयेत् तर्हि ३ लोककल्याणार्थं गच्छेयम्" इति ।
तस्य वदनं वीक्ष्य बुद्धोऽवोचत् - "त्वया विनयादिसद्गुणाः शिक्षिताः, । तथाऽपि यदा त्वं मे परीक्षायामुत्तीर्णो भवेस्तदैव त्वं पारङ्गत इति वक्तुं शक्यम्" ।
अन्यदा बुद्ध उपासिकाया आम्रपाल्या गृहं गतवान् । अङ्कमालोऽपि गुरुणा साकं तत्र प्रयातः । तस्याः स्त्रिया अनुपमं रूपं संदृश्य क्षणार्धं स अङ्कमालो । रागी बभूव ।
___सन्ध्याकाले बुद्धेनाऽऽदिष्टौ द्वौ भिक्षुकौ कठोरवचनं तस्मै अश्रावयताम् । ततोऽङ्कमाल: क्षणं क्रुद्धोऽभवत् ।
प्रातर्बुद्धस्य निकटं गतोऽङ्कमाल: । बुद्धेन "किं रागविजये द्वेषविजये च - त्वं पारङ्गत इति कथनमुचितं न वे'ति पृष्टम् ।।
___ अङ्कमालो लज्जालुर्बभूव । “प्रभो ! नैव पारङ्गतोऽहम्, किन्तु स्वल्पोऽपि NE शिक्षितोऽहमिति कथनेऽपि शङ्का भवति ।"
एषैव गुरुदृष्टिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org