SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Ramaste (कथा) मिथ्याभिमानः मुनिधर्मकीर्तिविजयः एको 'नन्दी' नाम लघुग्रामोऽस्ति । तत्र केवलं द्विशताधिका जना एव वसन्ति । ते सर्वे परस्परं संमील्यैव सर्वमपि कार्यं कुर्वन्ति । तेषां मध्ये नक कदाचिदपि क्लेशो भवति । के तत्रैको मुसलमीनजनो वसति । 'सलीम' इति तस्य नामाऽस्ति । तस्य कर गृहे एकः कुक्कुटो विद्यते । स जनः कस्यचिद् वणिज आपणे कार्यार्थं गच्छति । ॐ तस्य पत्नी प्रातिवेश्मिकानां गृहकार्यं विधायाऽऽजीविका निर्वहति । एवं सुखपूर्वकं तौ कालं गमयतः । सलीमः स्वभावत उद्धतोऽभिमानी चाऽस्ति । प्रतिपदं सो- ऽन्येभ्यः कुप्यति, किन्तु तस्य पत्नी प्रशान्तचित्ता व्यवहारकुशला चतुरा चाऽस्ति। अतस्सा क्षमा याचित्वा कुशलतया समाधानं करोति । “अस्यैतादृश एव स्वभाव" - इति जानन्तः सर्वेऽपि जना औदार्येण क्षमन्तेऽपि । "मम कुक्कुटस्य 'कूकडे कूक्' इति शब्दं निशम्यैव प्रातिवेश्मिका - जाग्रति, तथा तदैव प्रभातं भवति । अतः कुक्कुटो वदेत्तर्येवोषा भवेद'' इति तस्य चित्तेऽभिमान आसीत् । ततो मे कुक्कुटस्य प्रभावादेव यूयं सर्वेऽपि सुखिनः स्थ।। तस्याऽनुपस्थितौ भवतां का गतिस्स्यात्, इति पुनः पुनर्वदति । CR एकदैतदभिमानेनोन्मत्तस्स पत्न्यै कथयति - "यद्येष कुक्कुटो न वदेत्तर्हि कर - प्रभातं न भवेत्, ततश्चैते सर्वेऽपि दुःखिनः स्युः । अत इतः परमस्माभिरेतेषां - के गृहकार्यं न करणीय''मिति । पत्नी प्राह- किं भवतो मनः स्वस्थमस्ति न वा ? ___ पतिर्जल्पति - सत्यमेव कथयामि । कुक्कुटं विनैते दुःखिनो वराका की रगृहमागत्य मां विज्ञपयिष्यन्ति, तथा भीतास्ते कार्यमकुर्वद्भ्योऽपि धनधान्यादिकं । ॐ स्वयमेवाऽस्मभ्यं दास्यन्त्येव । सोपहासं पत्नी गदति - "भवतैतादृशो भ्रमो नाऽऽसेवनीयः । इतः परं । ॐ न कुत्रचिदप्येवं वदनीयम्" । किन्तु तेन तद्वचनं न स्वीकृतम् । स तु मम कुक्कुटो JS न स्यात्तर्हि भवतां किं स्या'"दिति मुहुर्मुहुः सर्वत्र जल्पति ।। Jain Education International ६२ For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy