________________
शतप्रतिशतं मनुष्यत्वम् । मनुष्येषु यथा कदाचित् पशुत्वं दृश्यते तथा पशुष्वपि, कदाचिन्मनुष्यत्वं परिलक्ष्यत एव । अतः पुत्रि ! त्वमेव व्याघ्रसमीपं याहि । हस्तौ संयोज्य विज्ञप्तिं कुरु । व्याघ्रोऽवश्यमेव तुभ्यं बालकं समर्पयिष्यति " इति वृद्ध
उवाच ।
वृद्धपुरुषस्य वचनानां श्रवणमात्रेणैव तस्याश्चित्ते धैर्यमुद्गतम् । यतो माताऽऽसीत् सा । पुत्राय माता यत्किमपि कर्तुं पारयत्येव । उक्तमपि"प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं, नाऽभ्येति किं निजशिशोः परिपालनार्थम् ?" इति ।
साऽपि साहसमवलम्ब्य धैर्येण पदं निदधती व्याघ्रस्य सम्मुखं गतवती । : तत्समीपं गत्वा स्वोत्सङ्गं दर्शयन्ती सगद्गदस्वरेणोक्तवती 'भो ! व्याघ्र ! ममैष लघुबालो मह्यं समर्पयतु ।'
व्याघ्रोऽपि तस्या मुखं दृष्टवान् । परस्परं दृष्टेरनुसन्धानं जातम् । व्याघ्रस्य दृष्टेः क्रौर्यं व्यपगतमिवाऽऽभाति स्म । तस्याऽपि हृदये करुणाभावः समुद्गतः । बालकं हस्तयोर्गृहीत्वा व्याघ्रस्तन्मातुः समीपमागतवान् । हस्तौ प्रसार्य बालकं तस्या उत्सङ्गे मुक्तवान् । तदनु क्षणमपि तत्राऽस्थाय उच्छलन्निव समीपवर्तिनि पर्वतीयप्रदेशेऽदृश्योऽभूत् ।
Jain Education International
* ★
निपानमिव मण्डूकाः सरः पूर्णमिवाऽण्डजाः । शुभकर्माणमायान्ति विवशाः सर्वम्पदः ॥
६०
For Private & Personal Use Only
www.jainelibrary.org