________________
1 तस्या मातृत्वमुच्छलितमभूत् । धावन्तीव सा गृहस्य पश्चाद्भागे क्षेत्रं गतवती । तापनकं प्रज्वलितमासीत् । ततः किञ्चिद् दूरमेव तया यद् दृष्टं तेन तस्या मुखं व्यादितमेव स्थितम् । साऽऽराटिं कृतवती "ओ मातर् ! रे sss !" । दृश्यमेव _तादृशमासीद् येन नेत्रे निमीलनं हृदयं च स्पन्दनं विस्मृयुः ।
तापनकात् किञ्चिद् दूरमेवैको भयानको व्याघ्र उपविष्ट आसीत् । तस्य च हस्तयोस्तस्या दारक आसीत् । एतद् दृष्ट्वैव सा कम्पितवती । चीत्कारोऽपि तस्या मुखान्निर्गतः, क्षणं तत्रैवमेव सा स्थिता । पश्चाद् भीता सती गृहं प्रत्यागत्य श्वश्रू सर्वं निवेदितवती । प्रातिवेशिकैरपि ज्ञातो व्यतिकरः । एवं च सर्वत्र ग्रामे प्रसृतेयं वार्ता वायुवेगेन । यैरपि श्रुतमेतत् तेषां समेषां मुखेभ्यो 'हें !!' इत्याश्चर्योद्वारो • निःसृतः । एतादृशं तु न कदाऽपि दृष्टं श्रुतं वा केनाऽपि यद् व्याघ्रो बालकं रमयेत् ! किन्तु सत्यमासीदेतत् ।
गृहे जनसम्मर्दः सञ्जातः । सर्वेऽपि स्वस्वाभिप्रायं दर्शयन्त आसन् । "व्याघ्रं गुलिकास्त्रेण मारयतु', 'शरेण प्रहरतु', 'आरक्षकानाह्वयतु' - इत्यादि ।' जनसम्मर्दः सर्वोऽपि क्षेत्रं प्राप्तवान् । दूरं स्थित्वैव तद् दृश्यं दृष्टवान् । किन्तु बालकस्य माता रुदत्यासीत्, यतस्तस्या हृदयस्पन्दनतुल्यः पुत्रो व्याघ्रस्य : हस्तयोरासीत् । कुटुम्बस्य वृद्धस्त्वथाऽपि खट्वायां गाढं प्रसुप्त एवाऽऽसीत् । सर्वेषां मनस्येक एव प्रश्नः पुनः पुनः समुपस्थितो भवति स्म यत् - कथमेष दारको व्याघ्रहस्तात् प्रापणीयो रक्षणीयश्च ? ।
शरप्रहारो गुलिकास्त्रप्रयोगो वोभयावप्युपायौ न समुचितौ । यतः स्वल्पेनाऽप्यनवधानेन बालकस्य प्राणसंशयो जायेताऽपि । गुलिकाप्रक्षेपेण यदि व्याघ्रः कुद्धः स्यात् तदा बालकस्याऽस्य का गतिः ? - इत्यादिकं सर्वमपि चिन्तनीयमस्ति । सर्वेषां हृदि भयं प्रसृतमासीत् किं करणीयमिति ।
तदा कश्चिद् विवेकी वृद्धजनो बालकस्य मातुः समीपमागत उक्तवांश्च" वधु ! अधुना त्वेक एवोपायोऽस्ति" - इति ।
“किं तत् ?" वधूः पृष्टवती ।
" त्वं माताऽसि । तवाऽयं बालो । व्याघ्रेणैव गृहीतोऽस्ति । त्वमेव धैर्यमवधार्य तत्समीपं गच्छ । यद्यपि व्याघ्रस्तु हिंस्र प्राणी तथाऽपि तस्य हृदयेऽपि करुणा विद्यत एव। पशवो न शतप्रतिशतं पशुत्वमावहन्ति, न च मनुष्याः
Jain Education International
५९
For Private & Personal Use Only
www.jainelibrary.org