SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मातर् ! एष दारकः .... । किमस्ति दारकस्य ! पश्यतु मातर् ! एष रोदिति । कथं मया गृहकार्यं करणीयम् ? पश्चाद्भागे क्षेत्रे तव श्वसुरः स्वपन् स्यात् कृशानुना वा तापयन् स्यात्, तत्र मुञ्चत्वेनम् । 'ओम्' इत्युक्त्वाऽऽश्वस्ता सती सा क्षेत्रं प्रति गतवती । दूरत एव प्रज्वलितं AY, तापनकं दृष्टम् । तत्समीपे खट्वायां श्वसुरः सुप्त आसीत् । तापनकेनैव शीतापनयनं । शक्यमासीत् तेषाम् । न तेषां पार्वे नीशार ऊर्णप्रावारकं कम्बलं वाऽऽसन् येन A शीताद् रक्षणं स्यात् । कठोरपरिश्रमानन्तरमपि केवलं द्विर्भोजनमेव ते प्राप्नुवन्ति । स्म । नाऽन्यद् वैभवं तेषामासीत् । - वृद्धोऽपि स श्रमातिरेकाद् गाढनिद्रां प्राप्तवानासीत् । सर्वत्र कज्जलVश्यामलोऽन्धकारः प्रसृत आसीत् । वधूश्च दारकं गृहीत्वा तत्राऽऽगतवती। *भा ! ओऽऽऽ भा !' - इत्युच्चारितवती । किन्तु वृद्धस्य नासिकाया । - घर्घरध्वनौ तस्याः शब्दा विलीना जाता । अतः पुनः सा सम्बोधितवती भा! ओऽऽऽ भा ! - इति । तदा कश्चित् सञ्चारो वृद्धस्य शरीरे सञ्जातः । * अत 'उत्थित' इति मत्वा-'भा ! अत्र मुक्तोऽयं दारकः । सम्भालयत्वेनम्'इत्युक्त्वा सा गतवती ।। किन्तु वृद्धस्त्वथाऽपि नोत्थितः, गाढं निद्रित एवाऽऽसीत् । दारकस्त्वेष * शनैः शनैः स्वहस्तपादानुच्छालयति स्म । मन्दं मन्दं च रोदित्यपि । अत्र तस्य माता तु गृहकार्ये व्यापृता जाता । दधिमथनादि कृत्वा तक्रं नवनीतं च विभज्य नवनीताद् घृतमपि निष्पादितं तया । सर्वेभ्योऽपि गृहकार्येभ्यो निवृत्त्य सा स्नानादिकं कृतवती । तस्या पतिामान्तरं गतवानासीत् । वस्त्रक्षालनगृहसम्मार्जनादि सर्वं कार्यजातं यदा सम्पन्नं जातं तदा सूर्योऽपि स्वरथमारुह्य पूर्वाकाशं रक्तवर्णेन रञ्जयन्नागतवानासीत् । कार्यजातान्निवृत्ता सती सा यावत् किञ्चिद् विश्रान्तिमनुभूतवती तदैव M पुत्रस्तस्याः स्मृतिपथमागतवान् – 'हे ! क्व मे दारकः ?'-इति । युवतिरासीत् सा, * * 'भा' इति वृद्धजनस्य सम्बोधनम् । ५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy