SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ एसा वि पिएण विणा गमेइ रअणि विसाअदीहअरं । गुरुअं पि विरहदुक्खं आसाबंधो सहावेदि ।। काश्यपः- शाङ्गुरव ! इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः । अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चाऽऽत्मनस्त्वय्यस्यां कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धुभिः ।। शार्गरवः- गृहीतः सन्देशः । काश्यपः- वत्से ! त्वमिदानीमनुशासनीयाऽसि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् । सा त्वमितः पतिकुलं प्राप्यशुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याऽऽधयः ।। कथं वा गौतमी मन्यते ? गौतमी- एष वधूजनस्योपदेशः । जाते ! एतत्खलु सर्वमवधारय । । काश्यपः- वत्से ! परिष्वजस्व मां सखीजनं च । सउन्दला- ताद ! इदो एव्व किं पिअंवदाअणसूआओ सहीओ णिवत्तिस्सन्ति ।। काश्यपः- वत्से ! इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति । सउन्दला- (पिदरं आसलिसिअ) कहं दाणि तादस्स अंकादो परिब्भट्ठा मलअतडुम्मूलिआ चन्दणलदा विअ देसन्तरे जीविअं धारइस्सं । काश्यपः- वत्से ! किमेवं कातराऽसि ? यदिच्छामि ते तदस्तु । सउन्दला- हला, दुवे वि मं समं एव्व परिस्सजइ । सहीओ- (तह करिअ) सहि ! जइ णाम सो राआ पच्चहिण्णाणमन्थरो भवे, तदो से इमं अत्तणामहेअअंकिअं अंगुलीअअं दंसेहि । सउन्दला- इमिणा संदेहेण वो आकम्पिदम्हि । । सहीओ- मा भाआहि । अदिसिणेहो पावसंकी । Jain Education International ८७ For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy