SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 0. # . 张张张张张器 A HRIEEEEEEE HERE: भ्रातृलक्ष्मणगात्रे शक्तिपाते सति रामो हृदयोद्गारं प्रकटयन् ब्रूते देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ।।। __ (वाल्मीकिरामायणं काण्ड-६, सर्ग-१०१, श्लोक-१४) 1 'प्रत्येकं देशे स्त्रिय आप्तुं सम्भवन्ति, बन्धुजना अपि सुलभाः परन्तु कोऽप्येतादृशो देशो न विद्यते यत्र लक्ष्मणसदृशः भ्राता प्राप्यते' । भ्रातृप्रेम्णः श्रेष्ठमुदाहरणमिदम् । अवैरविषये तु रामस्यौदार्यं कल्पनातीतम् । रावणवधप्रसङ्गे रामो विभीषणाय कथयति मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारो ममाऽप्येष यथा तव ।। (वाल्मीकिरामायणं काण्ड-६, सर्ग-१०१, श्लोक-२५) _ 'भो विभीषण ! वैरस्याऽस्तित्वं तु शत्रुमरणपर्यन्तमेव । रावणस्य मृत्युना सहैवाऽस्माकं रिपुता दिवङ्गता । तस्य दाहसंस्कारः क्रियताम् । यथाऽयं तव भ्राता तथा ममाऽपि भ्रातैव ।' एवं प्रकारेण रामायणे पित्राज्ञापालनं, कर्तव्यपरायणता, प्रगाढस्नेहयुक्तदाम्पत्यजीवनं, न्यायप्रियशासनमितिप्रभृतीन्यनेकानि जीवनमूल्यानि समुपलब्धानि भवन्ति । __ ग्रन्थोऽपरो महाभारतं पञ्चमवेदेति नाम्ना ख्यातोऽस्ति । ग्रन्थोऽयं भारतीयसभ्यताया भव्यस्वरूपम् । पञ्चमवेदेऽस्मिन् कौरवपाण्डवानां न केवलमितिहास: परन्तु हिन्दुधर्मणो विस्तृतचित्रणमपि प्रस्तुतम् । अनेनैव कारणेनेतिहासग्रन्थो भूत्वाऽपि धर्मागमो मन्यते । महाभारतस्य पठन पाठनं श्रवणं मननं च सर्वदृष्ट्याऽस्माकं कृते हितावहम् । भारतीयसाहित्यस्य सर्वोत्कृष्टग्रन्थो भगवद्गीताऽप्यस्यैव महाभारतस्यांऽशस्तथा विष्णुसहस्रनाम, अनुगीता, भीष्मस्तवराजः, गजेन्द्रमोक्षश्चाऽपि भक्तिग्रन्थाः । एते पञ्चग्रन्थाः “पञ्चरत्नमिति" शब्देन व्यवह्रियन्ते । [संस्कृतसाहित्य का इतिहास, आ.बलदेव उपाध्याय, पृ. ५७] वस्तुतो भारतीयाध्यात्मिकज्ञानस्य विश्वकोशो महाभारतम् । इत्थं रघुवंशः, हर्षचरितं, मेघदूतमितिप्रभृतीनि विविधानि सुरभाषाकाव्यानि सन्ति येषु जीवनमूल्यानि विहितानि । तेषां जीवनमूल्यानामधुनाऽवश्यमेव प्रयोग: करणीयः । 张张张张张张张器器 vedeos 諾諾张器器器器器器 ४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy