SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ SERIES MARA BETTERS 张张张张张张张器 號涨涨涨涨涨涨涨涨 नाटकेष्वपि बहूनि भारतीयजीवनमूल्यानि लभ्यन्ते । तत्र प्रसिद्धं * नाटकमभिज्ञानशाकुन्तलम् । नाटकेऽस्मिन् विविधप्रकरणानि भारतीयजीवनमूल्यानि सूचयन्ति । यथा कः पौरवे वसुमती शासति शासितरि दुविनीतानाम् ।. अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥ (अभिज्ञानशाकुन्तलम् १/२९) तपोवने यदा शकुन्तला भ्रमरबाधां अनुभूय साहाय्यार्थं सखिजनमनुनयति तदा राजा दुष्यन्तः कथयति-'को दुष्ट एतास्तपस्विकन्याः पीडयति कष्टं वा ददाति ?' भ्रमवशङ्गतदुष्यन्तो दुष्टान्प्रति स्वं कठोरानुशासकं मत्वा कथयति - 'दुष्टानां दण्डदातरि सति, पुरुवंशे उत्पन्ने दुष्यन्ते पृथ्वी रक्षति सति कोऽसौ दुष्टः * सरलासु तपस्विकन्यास्वौद्धत्यमाचरति ? एवं प्रजाः प्रति सहानुभूतिं वात्सल्यं वा प्रकटयति । अस्मात् शासकेन प्रजावत्सलत्वेन भवितव्यमिति प्रकटनं भवति । एकोऽन्यः प्रसङ्गः शाकुन्तले पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नाऽऽदत्ते प्रियमण्डनाऽपि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ।। (अभिज्ञानशाकुन्तलम् ४/९) श्लोकेऽस्मिन् शकुन्तलायाः प्रकृतिप्रेम निर्दिष्टम् । पर्यावरणसंरक्षणाय प्रकृतिप्रेमाऽनिवार्यमेतद् द्योतयति पद्यमिदम् । जगति दृश्यते या प्रकृतिः सा न केवलं श्रीवृद्ध्यर्थं न भूषणाय न च हननाय । मानवेन वनस्पतीनां हिंसाऽपि न करणीया । प्रकृतिसन्तुलनसंचालनाय प्रकृतिप्रेम्णः संरक्षणं संवर्धनं चाऽऽवश्यकमित्यस्माच्छ्लोकादित्यपि सूचनं भवति । यदि मनुष्यः पशुपक्षिणः प्रकृतिं च प्रति सहृदयो भवति तर्हि साऽपि मानवान्प्रत्यामीयतां प्रकटयति । एतद्भावस्य बोधकामपरामेकां गाथां प्रियंवदा उवाच - उग्गलिअदब्भकवला मिआ परिच्चत्तणच्चणा मोरा । ओसरिअपण्डुपत्ता मुअन्ते अस्सू विअ लदाओ ॥ 涨涨涨涨涨涨涨涨涨涨 涨涨涨涨涨涨 涨涨涨涨涨涨涨 Jain Education International For Private 8 Eersonal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy