________________
र
ovo
तेनोक्तं, 'बाढम् । किन्तु सहैवैवमपि कुर्वन्तु - मम ग्रीवा सदैव सरला भवतु । सा कदाऽपि वक्रीभूय पृष्ठभागं द्रष्टुं शक्ता न स्यात् ।'
'भवतु, एवमेव भविष्यति ।'
तदनु, यत्राऽपि दरवेशोऽगच्छत् तत्र शुष्का वृक्षा हरिता अभवन् , पुष्पाणि फुल्लितान्यभवन् । रुग्णानां दुःखानि रोगाश्चाऽनश्यन् । दुर्भिक्षेऽपि तस्य गमनेन वृष्ट्यादिना सुभिक्षमभवत् । यत्र जलं क्षारयुतं तादृशे कुत्रचित् कूपे तटाके वाऽपि तस्य गमनेन जलं मधुरमभवत्..... ।
अथ च वर्षेषु व्यतीतेषु यदा तस्याऽन्तिमः समयः सन्निहितः, तदा ता एव देवताः पुनरप्यागताः । पृष्टवत्यश्च - 'भो महानुभाव ! किमस्माभिर्दत्तः स वरः सफलो जातो वा ?'
तेनोक्तं, 'नैव जानेऽहम् ! यतः कदाऽपि मया ग्रीवां परावर्त्य पृष्ठभागे नैव दृष्टम्, अथवा तादृशं द्रष्टुमहं शक्त एव नाऽऽसम् । अतो नैव जानाम्यहं, कदा किं जातमिति । अहं तु सदाऽपि स्वमार्गे चलनेवाऽऽसं केवलम् .... ।'
[आधार: वार्षिकोऽङ्कः ओशो टाइम्स, १९९८]
cools
शुद्धाः प्रसिद्धिमायान्ति लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः ।।
-
Jain Education International
For Privatè & Personal Use Only
www.jainelibrary.org