SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ STARDS (स्वमार्गे चलनम् । मुनिकल्याणकीर्तिविजयः (कथा) छ पुरा किलैको दरवेश आसीत् । स्वस्थ: स्वच्छान्तःकरणः समाहितश्च । तदीयमान्तरं प्रकाशं निरीक्ष्य देवताः प्रसन्ना जाताः । ताभिरागत्याऽभिनन्दितः स कथितश्च - 'महात्मन् ! कमपि वरं याचताम् । यद् भवान् अभिलषेत् तत् प्राप्स्यते ।' दरवेश उक्तवान् , 'याचनीयं किमपि नास्ति, किमपि नाऽभिलषाम्यहम् । कृपया भवन्त्योऽत्राऽऽगतास्तदेव मदर्थं प्रभूतम्....' देवताभिरुक्तं, 'अथ चाऽऽगता वयं स्म एव, अतो यत्किमपि तु दातव्यमेव । वदतु भवान् , किञ्चिदपि वदतु ।' तेनोक्तं, 'मम मनसि न किमप्युद्भवति, याचितुम् । तथाऽपीदं वक्तुं शक्नोमि यद् भवन्त्यो यद् दद्युस्तदहं सहर्षं ग्रहीष्ये....' ताभिरुक्तं, 'वयं भवते वरमिमं दद्मो यद् - भवान् यं कमपि स्प्रक्ष्यति स, यावानपि रुग्णः स्यात् , सज्जो भविष्यति । मृतोऽपि चोज्जीविष्यति । तस्मिन् प्राणाः प्रस्फुरिष्यन्ति....' तच्छ्रुत्वा दरवेशेन कथितं, 'तिष्ठन्तु भोः !, अनेन तु ममैव काठिन्यम् । । मृतो यद्यपि जीविष्यति परं मम तु मरणमेव भविष्यति । एतत् सर्वं कुर्वतो मे ४ ॐ चित्ते 'अहमेतत् करोमी'ति अहङ्कारो यदोदेष्यति तदाऽहं निश्चितमेव मरिष्यामि।' दर किञ्चिद् विचार्य देवताभिरुक्तं, 'भवतु नाम, तद्देवं करिष्यामः - यस्मिन्नपि 5 ६ भवतः प्रतिच्छाया पतेत् स सुखीभविष्यति, तस्य दुःखानि रोगाश्च नंक्ष्यन्ति ।' हर ६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy