________________
ऊर्ध्वं ततोऽपि नहि याति च सिद्धजीवो नाऽधो गतागतमसौ कुरुते पुनश्च । ईदृक्रवभावनियमोऽपि भवेदलाबुदृष्टान्ततो विशद इत्यवधारणीयम् ॥४०॥
एषा गतिर्निगदिता परमस्पृशन्ती वेगप्रकर्षवशतस्तुलनातिगा च । भव्यात्मनां जगति नाऽपि च शङ्कनीया व्युच्छिन्नतैवमिह यत् तदनन्तसंख्या ॥४१॥
प्रमादनन्तगुणितेऽयमनन्तसंख्या यस्या निदर्शनमलं समयावली स्यात् । भव्यत्वमप्यमुकजीवगतं नु शक्तिमात्रं यतो न परिपाकमिदं प्रयाति ॥४२॥
काष्ठं यथोचितमपि प्रतिमाविधानसंस्कारमेव लभते न कदापि किञ्चित् । जीवेषु केचिदिह सन्ति तथा प्रकारा बोध्यं किलैतदिह सद्व्यवहारदृष्ट्या ॥४३॥
तत्त्वाङ्गमेव च नयो व्यवहार एषः शुद्धिं प्रवृत्तिविषयां यदसौ विधत्ते । संपादयेदिति स निश्चयसाधनं चाऽनेकान्तसिद्धिरनयैव भवेत्सुनीत्या ॥४४॥
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org