SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तादृश्वभावपरिकल्पनमप्ययुक्तमन्त्यक्षणस्य हि निरन्वयता निवृत्तेः । नष्टे च वस्तुनि कथं भवतु स्वभाव ? आद्य क्षणस्य विषयेऽपि विचिन्त्यमेतत् ॥३५॥ युक्तं भवेदिदमपि क्षणसात्वयत्वे न स्वीकृतं परमिदं क्षणवादपक्षे । मुक्ते: स्वरूपमिति सिध्यति नाऽत्र पक्षे सूक्ष्मोऽयमर्थ इति सूक्ष्मधिया विभाव्यः ॥३६॥ एवं ह्यपर्यवसितं सुखमत्र मोक्षे श्रेष्ठं किलैतदत एव सुखं प्रसिद्धम् । औत्सुक्यमत्र न समस्ति तु लेशमात्रं सौख्यं त्वनन्तमिति नास्ति तुलाऽस्य लोके ॥३७॥ लोकाग्रसंस्थितविशुद्धतरप्रदेशे सिद्धा वसन्ति वरसिद्धशिलाख्यभूमौ । एकोऽस्ति यत्र खलु तत्र गता अनन्तास्तिष्ठन्ति शाश्वततयोज्झितकर्मणस्ते ॥३८॥ निष्कर्मणामपि गतिः पुनरुर्ध्वमेव पूर्वप्रयोगवशतो भवतीति बोध्यम् । अन्तर्जलं पतति लेपयुता एलाबुलेपव्यये सहजमूर्ध्वमसौ यथेयात् ॥३९॥ १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy