________________
वारं वारं हसामि
मुनिधर्मकीर्तिविजयः
अहं शालायां पठन्नासम् । 'अष्टमी-नवमी' इति द्वयोः कक्ष्ययोर्गुर्जरविषयं पाठयितुमेकः शिक्षकस्तदाऽऽगच्छति स्म । स वायुपूर्णफुद्र इव बृहत्काय आसीत् । कुम्भसदृशमुदरं गृहीत्वा स चलतीति प्रतिभासते स्म । अस्मादृग्जनानां तु चत्वारः पादांशुकास्स्युस्तावान् विस्तीर्णस्तस्य पादांशुक आसीत् । तत आगच्छन्तं तं दृष्ट्वैव सर्वेऽपि विद्यार्थिनो 'टट्टु झब्भो' इति नाम्नाऽऽरार्टि कुर्वन्तो हसन्ति स्म । स वेत्रयष्टिं गृहीत्वैव सर्वदा शालायामटति स्म । मार्गे यं कमपि विद्यार्थिनं पश्यति तमेतद्यष्टिना ताडयति स्म । ततो दूरत आगच्छन्तं तं निरीक्ष्यैव सर्वेऽपि विद्यार्थिनस्तं मार्गं विहायाऽन्येन मार्गेण प्रतिगच्छन्ति स्म । स सप्ताहे एकदैव कक्ष्याया - मध्यापयितुमागच्छति स्म । कक्ष्यायां प्रविशन्नैव स प्रथमपङ्क्तौ स्थितान् सर्वानपि विद्यार्थिनस्तद्यष्टिना ताडयति स्म । ततो यदा गूर्जरविषयस्य वर्गः स्यात्तदा सर्वदा कक्ष्यायां प्रथमपङ्क्ती रिक्तैव भवति स्म । कदाचित्तु द्वितीयपतिरपि रिक्ता भवति स्म यतस्सर्वेऽपि विद्यार्थिनस्स्वस्थानादुत्थाय चरमपङ्क्तौ उपविशन्ति स्म ।
स्मरणम्
अपराधं विनाऽपि मया बहुशो यष्टिप्रहारः सोढः । तथाऽपि वयं सर्वेऽपि परीक्षावेलायां परीक्षकरूपेण तमेवेच्छामः स्म । आङ्ग्लविषये मे गतिर्मन्दाऽऽसीत् । अतस्तत्परीक्षाकाले एष परीक्षकरूपेणाऽऽगच्छेदिति प्रार्थितवानहम्। दैववशात् सा प्रार्थना सफलीभूता । चित्तेऽतीव प्रसन्नता प्रसृता, यतोऽहमाङ्ग्लविषये उत्तीर्णो भविष्याम्येवेति मे प्रतिभातम् ।
अपवरके प्रविशतैव तेनाऽग्रेस्थितास्सर्वेऽपि विद्यार्थिनस्ताडिताः । पश्चात् प्रश्नपत्रं दत्तम् । किञ्चित्कालानन्तरं 'गुरुजी !' अस्य कोऽर्थः ? इति प्रष्टुं गतवान् तत्राऽहम् । स्खलितनिद्रेण तेन पञ्चषा यष्टिप्रहाराः कृताः । पश्चान्मां गृहीत्वा चतुरविद्यार्थिनो निकटमानीतवान् । तस्मै विद्यार्थिने यष्टिप्रहारं दत्त्वैनं सर्वमपि प्रश्नोत्तरं लेखय इत्युक्तवान् स शिक्षकः । मयाऽपि सानन्दं निराबाधं च सर्वमपि लिखितम् । उत्तीर्णतां प्राप्तुमप्ययोग्योऽहमाङ्ग्लविषये ६० गुणाङ्कान् प्राप्तवान् । प्रसङ्ग एष यदा स्मृतिपथमायाति तदा तदा मुहुर्मुहुर्हसामि ।
Jain Education International
५६
For Private & Personal Use Only
0000000
00
www.jainelibrary.org