SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨 张张张张张张 器器器 * विचारयति, तद्यथा मखशतपरिपूतं गोत्रमुद्भासितं मे, सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् । . मम मरणदशायां वर्तमानस्य पापैस्तदसदृशमनुष्यैर्युष्यते घोषणायाम् ।। (मृच्छकटिकम् - १०/१२) देवीदेवतानां पूजाऽपि गृहस्थस्याऽऽवश्यकं कर्म । बलिकर्मणा देवीदेवताः संतुष्यन्ति । एतादृशी देशना निम्नश्लोकतो निर्गच्छति । चारुदत्तो मित्राय कथयति - गृहस्थस्य नित्योऽयं विधिः । तपसा मनसा वाग्भिः, पूजिता बलिकर्मभिः । तुष्यन्ति शमिनां नित्यं, देवताः किं विचारितैः ? ।। (मृच्छकटिकम् १/१६) एवंविधिना गीर्वाणवाड्मये बहूषु नाटकेषु भारतीयजीवनमूल्यानि प्राप्यन्ते । तेषां सुरभाषां विनाऽऽत्मसात्करणमशक्यम् । न केवलं काव्यनाटकेष्वेव जीवनमूल्यानि वर्णितानि परन्तु पाणिनीयव्याकरणेऽपि सूत्रमाध्यमैस्तान्युल्लिखितानि । यथा - तदस्य ब्रह्मचर्यम् (अष्टाध्यायी-५/१/९४), वर्णाद् ब्रह्मचारिणि (अष्टा. ५/ २/१३४) - सूत्रयोरनयोः शिक्षाया मूलाधारो ब्रह्मचर्यमिति ध्वन्यर्थो लभ्यते । विद्यायोनिसम्बन्धेन्यो वुत्र (अष्टा. ४/३/७७) अनेन सूत्रेण गुरुशिष्याणां विद्याविषये * सुसम्बन्धो भवतीति सिद्ध्यति । ___"छत्रादिभ्यो णः" (अष्टा. ४/४/६२) सूत्रेऽस्मिन् छात्रशब्दस्य कल्पनेयं मधुरा वर्तते यत् छात्र आचार्यजीवनोपरि छत्रवत् व्याप्नोति । छत्रं शीलं अस्येति छात्रः । “भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा" - (अष्टा. ३/४/ ६८) अत्र उपस्थानीयशब्देन छात्रस्य कर्तव्यं किमिति द्योत्यते । अर्थात् प्रथम तावत् शिष्यो गुरोः समीपे आगत्य तं सेवेत, तदनु चाऽध्ययनं कुर्यात् । गुरुरपि स्वविनेयं सविधे आनीय शिक्षयेदिति । पाणिनिना शिक्षकाणाम् - आचार्यः, प्रवक्ता, श्रोत्रियोऽध्यापकश्चेति चत्वारः प्रकारा निर्दिष्टाः । तेष्वाचार्यः श्रेष्ठोऽस्ति । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः (अष्टा. २/१/६८) - ae 100.00 张张张张张张张张张张 Jain Education International ४८ For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy