Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
17
A 'अगरचंदजी नाहटा' समीपे विद्यमानानि सवृत्तिकस्याल्पस्य स्त्रीनिर्वाणप्रकरणान्त्यभागस्य अल्पीयसा केवलिभुक्तिप्रकरणाद्यभागेन सहितानि त्रीण्येव तालपत्राणि।
N. P. प्रत्योः काश्चन कारिका न विद्यन्ते, पाठा अपि अनेकत्राशुद्धाः। 5. प्रतावपि केचित् पाठा अशुद्धाः। A. प्रतावप्येवम् । शुद्धत्वेन सम्भाविताः केचित् पाठाः अत्र ( ) वृत्तकोष्ठके न्यस्ताः । ये तु ग्रन्थान्तराद्याधारेण परिपूरितास्तेऽत्र [ ] चतुरस्रकोष्ठके न्यस्ताः।। ___ अस्मिन् कार्ये यथामति प्रयतितेऽपि हस्तलिखितादर्शष्वशुद्ध्यादिबाहुल्यादस्मन्मतिमान्द्याच्च येऽत्र दोषा अवस्थिताः प्रादुभूता वा ते क्षम्यन्तां सज्जनैरिति प्रार्थये ।
बहुमानावेदनम् मुनिराजश्रीपुण्यविजयजीमहाभागैरेवैतत् सम्पादनं कतुं प्रेरितोऽहम् । वर्षपञ्चकात् प्राक् सम्पन्नमप्येतत् कार्यम् । तथापि विधिवशाद् मुद्रणात् प्रागेव तेषां दिवंगतत्वाद् मुद्रितमिमं ग्रन्थं द्रष्टुं तेऽस्माकं मध्ये न विद्यन्ते । तथापि तेषां करकमले ग्रन्थमिमं मनसा निधाय कृतज्ञतां कृतकृत्यतां चानुभवामि।
अस्य ग्रन्थस्य मुद्रणं चिरविलम्बितमासीत् । 'प्रो० खीमचंदभाई चांपशीभाई शाह - रतिभाई दीपचंदभाई देसाई - पं० दलसुखभाई मालवणिया' इत्येभिर्महोदयैरस्य मुद्रणादौ महत् साहायकमनुष्ठितम् ।
अन्तेवासिभ्यां मुनिश्रीदेवभद्रविजय-मुनिश्रीधर्मचन्द्रविजयाभ्यामस्य सम्पादनेऽनेकधा साहायकमनुष्ठितम् । एते सर्वेऽपि धन्यवादमर्हन्ति ।
परमात्मनः, पूज्यानां गुरुदेवानां पितृचरणानां मुनिराजश्रीभुवनविजयजीमहाराजानां च कृपया इत्थं सम्पादितोऽयं ग्रन्थो विदुषां पुरत उपन्यस्यते
- इत्यावेदयति विक्रमसंवत् २०२९
आचर्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारविजया दशमी
आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यसादडी (राजस्थानम्)
मुनिराजश्रीभुवनविजयान्तेवासी
मुनिजम्बूविजयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146