Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 81
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलकृतं केवलिभुक्तिप्रकरणम् चरमदेह इति सम्यग्दर्शनज्ञानचारित्रैर्भवन्ती मुक्तिन विना तैर्भवति । चरमदेहत्वं च ध्रुवं मुक्तिकारणानि तस्य सम्पद्यन्त इत्येव विज्ञायते । तथाऽनपवर्तायुष्क इति भुक्त्या भवन्ती कायस्थितिर्न विना तया भवति । अनपवर्तायुष्कत्वमिति च ध्रुवमस्यानपवर्तहेतवः सम्पद्यन्ते 'नापवर्तहेतव इति विज्ञायते । किञ्च, असति क्षुद्बाधेऽङ्गेऽलये न शक्तिक्षयो न संक्लेशः ।। आयुश्चानपवतं बाधलयो प्राग्वदधुनापि ॥२०॥ अनपवर्तायुष्कत्वात् केवली न भुङ्क्ते इति ब्रुवाणस्य चरमदेह[52b]स्य छद्मस्थकालेऽपि भुक्त्यभावप्रसङ्गः, तदाप्यनपवर्तायुष्कत्वस्याविशेषात् । अथ तदा भुक्त्यभावे शक्तिक्षयः स्यात् शक्तिक्षयनिबन्धनस्यान्तरायस्य विद्यमानत्वात्, संक्लेशश्च संक्लेशहेतोर्मोहनीयस्य भावात्, अतस्तन्निवृत्तये भुङ्क्ते इति । स शक्तिक्षयः संक्लेशश्च किं क्षुद्बाधायां तया च शरीरहानौ सत्यां भवति उत असत्यामेव ? असत्यां यदि स्याद् भुक्तावपि सत्यां प्राप्नोति । तदसत्यां क्षुद्बाधायां शरीरहानौ च न शक्तिक्षयो न संक्लेशः । अथ सत्याम्, यथा छद्मस्थावस्थायां सत्यप्यनपवर्तायुष्कत्वे क्षुद्बाधा तया च शरीरविलयः तथा केवल्यवस्थायामपि क्षु[53a]द्बधा तया च -- मा भून्मोहाभावात् संक्लेशः -- शरीरविलयः प्राप्नोतीति । देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः । सूत्रोक्तमुपापादि न, मुक्तिश्च न नियतकाला स्यात् ॥२१॥ शरीरविलये च ‘मासपृथक्त्वेनाष्टाभिश्च वर्षेरूना पूर्वकोटी उत्कर्षेण केवलिविहरणकाल: शास्त्रे पठ्यते' तन्नोपपन्नम् । नियतकाला च मुक्तिस्तस्य केवलिनो देशोनपूर्वकोट्यादेः प्रविहरणकालस्यान्ते भवन्ती 'तत्कालाप्राप्तौ न स्यात्, ओदनपाकादिवत् । अतः अपवर्त हेत्वभावेऽनपवर्तनिमित्तसम्पदायुष्के । स्यादनपवर्त इति तत् केवलिभुक्ति समर्थयते ॥२२॥ अ[53b]नपवर्तमायुः अपवर्तहेतवो यदि न सन्निपतेयुः जीवनहेतवश्च यदि सम्पद्येरन्नेवं स्यात्, नान्यथा। भुक्तिश्च जीवनहेतुः, तदभावश्चापवर्तकारणम्, इत्यनपवर्तायुष्कत्वं केवलिनो दीर्घकालविहारस्य भुक्तिमेव प्रतिपादयति, न तदभावम् । १. नापवर्तन्ते हेतवः S। (नापवर्तने हेतवः?) । २. तत्काल S. || ३. भावो P.S. ॥ ४. 'दायुष्को P॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146