Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 126
________________ प्रथमं परिशिष्टम् । समानः, लक्षणो लोमाद्याहारस्तस्य प्रतिक्षणं सद्भावेऽप्यदोषात् । यदपि यथासंभवमाहारव्यवस्थितेः केवलिनः कवलाहारः अन्यथा शरीरस्थितेरभावात् व्यवस्थाप्यते' इत्यभिधानम् तद्युक्तमेव, न हि देशोनपूर्वकोटिं यावद् विशिष्टाहारमन्तरेण विशिष्टौदारिकशरीरस्थितिः संभविनी । न च तच्छद्मस्थावस्थानः केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वं येन प्रकृताहारविरहेऽपि तच्छरीरस्थितेरविरोधो भवेत् ज्ञानाद्यतिशयेऽपि प्राक्तनसंहननाद्यधिष्ठितस्य तस्यैवापातमनुवृत्तेः । अस्मदाद्यौदारिकशरीरविशिष्टस्थितेर्विशिष्टाहारनिमित्तत्वं प्रत्यक्षानुपलम्भप्रभवप्रमाणेन सर्वत्राधिगतमिति विशिष्टाहारमन्तरेण तत्स्थितेरन्यत्र सद्भावे सकृदपि तत्स्थितिस्तन्निमित्ता न भवेत्, अहेतोः सकृदपि सद्भावाभावात् । यदि पुनर्विशिष्टाहारनिमित्ताप्यस्मदादिषु विशिष्टशरीरस्थितिः पुरुषान्तरे तद्व्यतिरेकेणापि भवेत् तर्हि महानसादौ धूमध्वजप्रभवोऽपि धूमः पर्वतादौ तमन्तरेणापि भवेदिति धूमादेरग्न्याद्यनुमानमसङ्गतं भवेद् व्यभिचारात् । अथैतज्जातीयो धूमः एतज्जातीयाग्निप्रभवः सर्वत्र सकृत्प्रवृत्तेनैव प्रमाणेन व्यवस्थाप्यते तत्कार्यताप्रतिपत्तिबलात्, अग्निस्वभावादन्यत्र तस्य भावे सकृदप्यग्नेर्न भावः स्याद्, अग्निस्वभावाजन्यत्वात् तस्य, भवति चाग्निस्वभावान्महानसादौ धूम इति सर्वत्र सर्वदा तत्स्वभावादेव तस्योत्पादे तदुत्पत्तिकस्याधूमस्वभावत्वादिति न धूमादेरग्न्याद्यनुमाने व्याभिचार:, तर्ह्ययं प्रकारः प्रकृतेऽपि विशिष्टौ दारिकशरीरस्थिते विशिष्टाहारमन्तरेणापि भावे तच्छरीरस्थितिरेवासौ न भवेत् । न चात्यन्तविजातीयत्वं तस्या इति प्रतिपादितम् । सर्वथा समानजातीयत्वं तु महानस पर्वतोपलब्धधूमयोरप्यसंभवि । ततोऽस्मदादेरिव केवलिनोऽपि प्रकृताहारमन्तरेणौदारिकशरीरस्थितिश्चिरतरकाला न संभवतीत्यनुमानं प्रवर्तत एव अन्यथा धूमादेरग्न्यानुमानमपि न स्यात् । यदपि 'कुतस्तस्यैवं सर्वज्ञतादिसिद्धि:' इत्यभिधानम् तदप्यसंगतम् घातिकर्मक्षयप्रभवसर्वज्ञतादेः प्रकृताहारेण तत्कार्येण वा चिरकालभाव्यौदारिकशरीरस्थित्यादिना विरोघासंभवात् सर्वज्ञतासिद्धिनिबन्धनस्य च प्रमाणस्य प्रतिपादितत्वात् प्रकृताहारप्रतिपादकस्य च । यदपि 'निराहारौदा रिकशरीरस्थितेः प्रथमतीर्थंकरप्रभृतीनामतिशयश्रवणात् तदियत्तानियमप्रतिपादकप्रमाणाभावाच्च' इति तदप्यपर्यालोचिताभिधानम् तस्य प्रामाण्ये तदियत्तानियमस्यापि तत एव सिद्धेः तदधिकनिराहारतच्छरीरस्थिते: सूत्रे निषेधान्निरशनकालस्य तावत एवोत्कृष्टताप्रतिपादनात् । यदपि ' सूत्रभेदकरणकारणासंभवात्' इत्यादि तदप्यसङ्गतम्, चिरतरकालस्थितिरेव तच्छरीरस्य सूत्रभेदकरणकारणं प्रकृताहारमन्तरेण तत्स्थितेरसंभवस्य प्रतिपादनात् । भूयांसि च प्रकृताहारप्रतिपादकानि केवलिनः सूत्राण्यागम उपलभ्यन्ते प्रतिनियतकालप्रकृताहारनिषेधकानि च । यथा प्रथमतीर्थकृत एव चतुर्दशभक्तनिषेधेनाष्टापदनगे दशसहस्र केवलिसहितस्य निर्वाणगतिप्रतिपादकानि सूत्राणि । यदपि ' अतिशयदर्शनान्निरवशेषदोषावरणहाने : ' इत्याद्याशङ्कय विकल्पद्वयमुत्थाप्य परिहृतम् तत्रापि नास्माभिः सर्वज्ञत्वादेरभावः साध्यते येन धर्मिणोऽ Jain Education International For Private & Personal Use Only 1 www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146