Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha
________________
२
केवलिभुक्तिप्रकरणे भावात् प्रकृतसाध्यसिद्धिर्न भवेत्, किन्तु यद्यतिशयदर्शनान्नैर्मल्यप्रतिपत्तिवद् आन्त्यन्तिको शरीरस्थितिस्तस्य साध्येत तदा मुक्तेरभावः प्रसज्यते एवेति प्रसङ्गसाधनं भवदभिप्रेतव्याप्तिबलात् क्रियत इति न प्रागुक्तदोषावकाशः । द्वितीयपक्षेऽपि न केवलिभुक्तिः सिध्यति नाप्यनाहारौदारिकशरीरस्य चिरतरकालस्थायित्वं विरुध्यते' इति यद्दषणमुक्तम् तदनुक्तोपालम्भरूपम्, न ह्येवं केवलिभुक्त्यादिकमस्माभिः साध्यते, किन्तु प्रदर्शितप्रमाणात् सर्वज्ञप्रणीतागमाच्च । 'न च यदतिशयवत्' इत्याद्यप्यसंगतम् संवत्सरमात्रशरीरस्थितिसिद्धावपि केवलिनामतोऽतिशयात् प्रभूततरकालस्थित्यसिद्धेः । न च तावत्कालप्रकृताहारविरहप्रतिपादकमपि केवलिनां सूत्रमुपलभ्यते । यच्च ‘संयोगस्यावस्थानमात्यन्तिकं न भवति' इत्यादि तत् सिद्धमेव साधितम् । यच्च सुनिश्चितासंभवबाधकप्रमाणत्वं प्रकृताहारविरहेऽपि चिरतरमौदारिकशरीरस्थितेः प्रतिपादकस्य सूत्रस्यास्त्येव' इत्युक्तम् तदपि प्रकृताहारविरहे केवलिप्रकृतशरीरस्थितेः प्रतिपादकस्य सूत्रस्यैवाभावादयुक्तम् । यदपि 'आहारविरहातिशयप्रतिपादकं सूत्रं प्रथमतीर्थकृदादेः' तदपि तच्छद्मस्थावस्थायां न पुनः केवल्यवस्थायाम्, असंभवद्बाधकप्रमाणत्वं चासिद्धमनुमानस्य तदाहारप्रतिपादकस्य बाधकस्य प्रदर्शितत्वात् सूत्रसमूहस्य च व्याख्याप्रज्ञप्त्याद्यङ्गेषु तद्बाधकस्योपलम्भात् ।
किञ्च, सुनिश्चितासंभवद्बाधकप्रमाणत्वं न प्रमाणलक्षणं तस्य ज्ञातुमशक्यत्वात् । तथाहिबाधकप्रमाणाभावो यद्यन्यतः प्रमाणादवसीयते तहि तत्रापि बाधकप्रमाणाभावनिश्चयात् प्रामाण्यनिश्चयस्तदभावनिश्चयश्चान्यतोऽबाधितप्रमाणादित्यनवस्थाप्रसक्तिः । अथ बाधानुपलम्भाद् बाधकाभावनिश्चयः, न; उत्पत्स्यमानबाधकेऽपि बाधकोत्पत्तेः प्राग् बाधानुपलब्धिसंभवान्न बाधकानुपलम्भाद् बाधाभावनिश्चयः । न चानिश्चितलक्षणं प्रमाणं प्रमेयव्यवस्थानिबन्धनम् अतिप्रसङ्गात् । अथ संवादादसंभवद्बाधकप्रमाणत्वनिश्चयस्तर्हि संवादित्वमेव प्रमाणलक्षणमभ्युपगमाई किमबाधितत्वलक्षणप्रतिज्ञानेन तच्च संवादित्वमतीन्द्रियार्थविषयस्यागमस्याप्तप्रणीतत्वान्निश्चीयते तत्प्रणीतत्वनिश्चयश्चागमैकवाक्यतया व्यवस्थितस्य केवलिभुक्तिप्रतिपादकसूत्रसमूहस्य सिद्ध एवेति भवत्यागमादपि केवलिभुक्तिसिद्धिः । तेन 'सूत्रभेदप्रक्लप्तिः कवलाहारपरिकल्पनायां केवलिनः' इति दोषाभावः, यथोक्तन्यायात् तत्सिद्धेः । यदपि 'केवली प्रकृतमाहारमश्नन्' इत्यादिपक्षत्रयमुत्थाप्य तत्र दोषाभिधानम् तदप्यसंगतम्, यतः प्रथमपक्षे बुभुक्षयाऽश्नतो दुःखिताप्रसक्तिर्दोषः उद्भावितः, स चादोष एव असातानुभवस्य वेदनीयकर्मप्रभवस्यायोग्यवस्थाचरमक्षणं यावत् संभवात् तत्कारणस्यासातवेदनीयकर्मोदयस्याप्रतिबद्धत्वात् अविकलकारणस्य च कार्यस्योत्पत्त्यप्रतिषेधात् अन्यथा तस्य तत्कारणत्वायोगात्, न च दग्धरज्जुसंस्थानीयत्वात् तस्य स्वकार्याजनकत्वम् तत एव सातवेदनीयस्यापि स्वकार्याजनकत्वप्रसक्तेः सुखानुभवस्यापि भगवत्यभावप्रसङ्गात् । यथा च दग्धरज्जुसंस्थानीयायुष्ककर्मोदयकार्य प्राणादिधारणं भगवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146