Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 131
________________ केवकिभुक्तिप्रकरणे तु सर्वथा । कारणमात्रस्य कार्याभावेऽपि भावाविरोधात् । कारणमपि निवर्तमान कार्य निवर्तयति, यथा वह्निर्धूमम् । व्यापकं वा निवर्तमानं व्याप्यम्, यथा वृक्षः शिशपाम् । न चात्र क्षुधः कारणस्य व्यापकस्य वा कस्यचिन्निवृत्तिरस्ति । न च मोहनीयाभावात्क्षुधोऽभावः । तस्यास्तत्कार्यत्वस्य तत्स्वभावत्वस्य चासम्भवात् । न हि क्षुद् मोहनीयकार्या । वेदनीयप्रभवत्वात् । अन्यथा "वेदनीये शेषाः” | तत्त्वार्थ० ९-१६] इत्यागमविरोधापत्ते: । ननु नास्ति विरोधः । न हि वयं वेदनीयस्य क्षुत्कारणत्ववारणं विदध्महे किन्तु मोहनीयमपि तत्र सहकारितया व्यापिपर्तीति ब्रूमहे । न च सहकारिकारणविरहेऽपि कार्योत्पत्तिर्दृष्टचरी । न खलु बीजजलानिलातपसम्पर्के पृथिवीविरहेऽङ्करो जायत इति चेत् । नैवम् । मोहनीयस्य सहकारित्वासिद्धेः । न हि स्वाभिप्रायानुरोधेन किंचित् क्वचित्सहकारितया कल्पयितुमुचितम् । किन्तु यस्यान्वयव्यतिरेको कार्येणानुविधीयते । न चात्र क्षद् मोहनीयव्यतिरेकमनविदधती क्वापि निश्चिता । ननु सिद्धेषु तनिश्चयो भविष्यतीति । मैवम् । सन्देहात् । तथा हि सिद्धेषु किं वेदनीयाभावात् क्षुन्न भवति, आहोस्विन्मोहनीयाभावादिति । भवस्थकेवलिनि क्षुदभावो मोहनीयाभावप्रयुक्तो निश्चितो वेदनीयसद्भावादिति चेत् । न । तत्र क्षुदभावस्याऽद्यापि विवादास्पदत्वात् । नन्वेवं मोहनीयवदेव वेदनीयस्यापि क्षुत्कारणत्वं न स्यात् । मैवम् । क्षुत्कारणत्वेन तस्योभयसम्प्रतिपन्नत्वात् । नापि मोहनीयस्वभावा क्षुत् । प्रतिपक्षभावनानिवर्त्यत्वप्रसङ्गात् । यो हि मोहस्वभावः स प्रतिपक्षभावनया निवर्त्यते । यथा क्षमादिभावनया क्रोधादिः । मोहस्वभावा च क्षुद् भवद्भिरिष्टेति । तथा च क्षुद्वेदनाप्रतीकारार्थं शास्त्र प्रतिपक्षभावनैवोपदिश्येत । न क्लेशभूयिष्ठा ध्यानाध्ययनविघातकारिणी पिण्डैषणा । ३शीतोष्णबाधातुल्यत्वाच्च क्षुधो न मोहस्वभावत्वम् । अन्यथा तद्बाधाया अपि मोहस्वभावत्वं स्यात् । ननु भगवतः क्षुदुपगमेऽशेषज्ञत्वादिविरोधः क्षुदुदयेऽस्मदादिवत्तत्र ज्ञानदर्शनचेष्टादेः प्रक्षयात् । तदसमीचीनम् । ज्ञानावरणादिप्रक्षये जातायामपि क्षुधि तत्क्षयायोगात् । तत्क्षयो हि ज्ञानावरणादिकर्मोदयनिबन्धनोऽतोऽस्मदादौ तदुदयातिशयात्तत्क्षयातिशयो युक्तो भगवति तु तदावरणादेरशेषस्यापगमात्सत्यामपि क्षुधि न ज्ञानादिक्षयः । न ह्यग्न्यभावे सत्यपीन्धने धूमो भवति । तदेवं प्रमाणोपपन्नत्वादिति क्षुदभावसाधको हेतुरसिद्धः । तथा च कथं मुक्तिप्रतिषेधः । मुक्तिसाधकञ्चैतत्प्रमाणम् ---विवादविषयापन्ने केवलिनि "कदाचित् कवलाहारभुक्तिरस्ति, अविकलकारणत्वात् । यद्यत्राविकलकारणं तत्तत्रास्ति, यथा क्वचित्प्रदेशेऽङ्करः । तथाभूता च कदाचित्क १. तु० -पृ० ४० पं० ११ ॥ २. तु० - पृ० ४३ ॥ ३. तु० -पृ० ४३ ॥ ४. तु० -पृ० ४४ ।। ५. तु० -पृ० ३९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146