Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 132
________________ प्रथमं परिशिष्टम् । वलाहारभुतिविवादविषयापन्ने केवलिनि । तस्मात्तत्र सास्तीति । न चाऽत्रासिद्धो हेतुः । यतः कवलाहारभुक्तद्विधा कारणं बाह्यमाभ्यन्तरं च । तत्र बाह्यमनशनादि । तत्तावदस्त्येव । न तत्र कस्यापि विवादः । आभ्यन्तरं पर्याप्तिवेद्यतैजसदीर्घायुष्ट्वोदयलक्षणम् । तदपि विद्यत एव । यतो हि शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्ति मकर्मविशेषः । वेद्यं सुखदुःखसम्पादक वेदनीयाख्यं कर्म । तैजसं भुक्तान्नपाकादिकारणोष्मस्वरूपान्तस्तैजसशरीरकारणं नामकर्मैव । दीर्घमायु श्चिरजीवनकारणं कर्म । एतेषामुदयात्क्षुद्वेदनोपजायते । अस्ति चैतदुदयो भगवति स च भुक्तिकारणमिति । यदाह शाकटायन : अस्ति च केवलिभुक्तिः समग्र हेतुर्यथा पुरा भुक्तेः । पर्याप्तिवेद्यतैजसदीर्घायुष्कोदयो हेतुः।" [केवलिभुक्ति १] इति।”—पृ० ४७२-४७५ । "अपि च । उत्कर्षेण देशोनपूर्वकोटि विहरतः सयोगिकेवलिनस्तावत्कालं शरीरस्थिति(क्ति" विना कथं घटेत । अथाऽनन्तवीर्यत्वात्तां विनाऽप्यस्य तत्स्थितिः तायुःकर्मणाऽपि विना तत्स्थितिप्रसङ्गान्न कदाचिच्छरीराद्यपायः स्यादिति मोक्षाय दत्तो जलाञ्जलि: । तत्स्थितेरायुःकर्मापेक्षणे वाहारापेक्षणमप्यस्तु । उभयस्यापि तत्कारणत्वाविशेषात् । किं च, प्रदीपज्वालाजलधारासमानं शरीरम् । तत्र च यथा तैलक्षये सति न प्रदीपज्वालाऽवतिष्ठते जलागमनमन्तरेण वा जलधारा । तथा शरीरमपि भुक्त्यभावे न स्थितिमास्कन्दति । अथ भुक्तिर्दोषो यदुपवासादि प्रत्याख्यानं क्रियते, निर्दोषे च केवलिनि दोषो विरुद्धः । तर्हि निषद्या गमनं चाहति न प्राप्नोति । स्थानयोगादिना निषद्यादेः प्रत्याख्यानात् । वचनं च न प्राप्नोति । मौनव्रतिकोपलम्भात् । अथ मतमशेषज्ञस्य मांसादिकं पश्यतः कथं भक्तिरन्तरायोपपत्तेरिति । एतदप्यनल्पतमोविलसितम् । यतोऽन्तरायकर्मोदयजन्यः परिणामविशेष एवाऽन्तरायशब्देनोच्यते । न च भगवत्यन्तरायकर्मसम्भवः । प्रक्षीणघातिकर्मत्वात्तस्य । भवतु वा कश्चित्स्वकल्पनाशिल्पिनिर्मितोऽन्तरायः । तथाप्यवधिज्ञानिभिः परमर्षिभिरनेकान्तः । ते हि सकलं त्रैलोक्यं पश्यन्ति, अथ च भुञ्जते । अथः यदैवावधिज्ञानोपयोगमवधिज्ञानी करोति तदैवाऽसाववधिज्ञानी तद्विषयभूतमशेष वस्तु पश्यति नाऽन्यदेति भोजनकाले यद्यसावुपयोगं करोति तस्यान्तरायो भवत्येव, न चायं प्रकारः केवलज्ञाने सम्भवति । तस्य सदोपयुक्तत्वादिति चेत् । एवं तर्हि दिव्यपरमाणुरूपं निरन्तराहारग्रहणमप्यस्य न प्राप्नोति । सततोपयोगित्वेन निरन्तरमन्तरायसद्भावात् । अपि च महासामायिकपरिणामवतो भगवतः का नाम पिशितादिदर्शने १. तु० -पृ० ३९ ॥ २. तु०-पृ० ४८ ॥ ३. तु० - पृ० ४९ ॥ ४. तु०--पृ० ५० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146