Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha
________________
केवलिभुक्तिप्रकरणे सति भोजनकरणेऽपि करुणायाः खण्डनेति परिभाव्यतां मध्यस्थेनाऽन्तरात्मना । अथ भुक्तौ जिह्वायां रसप्राप्तेः केवलिनो मतिज्ञानानुषङ्ग इत्युच्यते । तन्न वाच्यम् । यतो नेन्द्रियविषयसम्बन्धमात्रेण मतिज्ञानं भवति । किं तहि सम्बन्धे मतिज्ञानावरणक्षयोपशमे च सति । एतच्च क्षीणाशेषावरणे केवलिनि नास्तीति न तज्ज्ञानानुषङ्गः । अन्यथा श्रोत्रादीन्द्रियाणां दिव्यतूर्यादिरवेण गणधरदेवादिरूपेण सुगन्धिकुसुमधूपवासादिगन्धेन मरुत्सिहासनस्पर्शेन सम्बधेऽपि मतिज्ञानमनुषज्यते ।" --पृ० ४८० - ४८१ ।
दिगम्बराचार्यप्रभाचन्द्रविरचिते न्यायकुमुदचन्द्र केवलिभुक्ते: पूर्वपक्षः
" नन्विदमस्ति – ३यदा भुक्तिः अविकलकारणा तदाऽसौ भवत्येव यथा छद्मावस्थायाम्, तथाभूता चासौ सयोगिकेवल्यवस्थायामिति ! द्विविधं हि भुक्त: कारणम् – बाह्यम् आभ्यन्तरम् च । तत्र बाह्यम् – आहारादि, तत्तावदविकलमास्ते न तत्र विप्रतिपत्तिः । आभ्यन्तरमपि पर्याप्ति-वेद्य-तैजस-दीर्घायुष्कोदयलक्षणं भगवति अविकलमेव । यतो हि शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्तिः । वेद्यं सुखदुःखसाधकं कर्म । तैजसम् अन्तस्तेजः शरीरोष्मा, यतो भुक्ताऽन्नादिपाको भवति इति । दीर्घमायुः चिरजीवनकारणं कर्म । एतदुदयात् क्षुद्वेदना उपजायते, अस्ति च तदुदयो भगवति, अतो भुक्तिसिद्धिः । तदनभ्युपगमे वा तत्र क्षुदभावः प्रमाणात् प्रतिपत्तव्यः । तच्च प्रमाणम् आगमः, अन्यद्वा स्तात् ? न तावदागमः, सिद्धवत् सयोगकेवलिनि क्षुदभावप्रतिपादकस्य आगमस्याऽसंभवात् ।।
प्रमाणान्तराच्च निषेधः स्वभावानुपलभ्भात्, अन्यतो वा स्यात् ? न तावत् स्वभावानुपलम्भात्, 'केवलिनो विप्रकृष्टस्वभावत्वात् । न च विप्रकृष्टस्वभावे भावे स्वभावानुपलम्भो युक्तः, एकज्ञानसंसर्गिपदार्थान्तरोपलम्भलक्षणत्वात्तस्य । अन्यतोऽपि विधीयमानात् निषिध्यमानाद्वा तनिषेधः स्यात् ? यदि विधीयमानात्, तदा तेन विरोधिना भवितव्यम्, अविरुद्धविधेरभावाऽसाधकत्वात् । न च क्षुद्विरोधि केवलिनि किञ्चित् प्रतीयते । न च ज्ञानादिगुणा एव तत्र तद्विरोधिनः इत्यभिधातव्यम्, यतो ज्ञानादिमात्रस्य क्षुधा विरोधः, तद्विशेषस्य वा । यदि ज्ञानादिमात्रस्य, तर्हि यथा यथा तद्गुणा विवर्द्धन्ते तथा तथा क्षुधो हानितारतम्येन भवितव्यम् प्रकाशविवृद्धाविव तमसः, न चैवमस्ति । नहि बालादौ ज्ञानाद्यपचये क्षुदुपचयः, ततः प्रभृति च ज्ञानाद्युपचये तारतम्येन क्षुदपचयो लक्ष्यते । तन्न ज्ञानादिमात्रस्य क्षुधा विरोधः । अथ ये
१. तु० --पृ० ५१ ॥ २. तु० -पृ० ५१ पं० १० ॥ ३. तु०-पृ० ३९ ॥ ४. तु० -पृ. ३९-४० ॥ ५. तु० -पृ० ४० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146