Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं केवलिभुक्तिप्रकरणम् ननु च 'आहारकाः' इति वचनादाहारसामान्यं सिध्यति, न भुक्तिर्नामाहा[61a]रविशेषः, द्विविधो ह्याहारः - आभोगाहारोऽनाभोगाहारश्चेति । सामान्योक्तौ विशेषस्य बाधकाभावे कः प्रसङ्गं निवारयेत् ? नहि सर्वविशेषाभावे सामान्यं सम्भवति । कस्यचिद् विशेषस्य भावे तद्वदितरस्यापि भावो विशेषाभावात् ।
[नाऽ]नाभोगाहारो निरन्तरः, सो[5]विशेषितो नञ्वत् ।
न चासावनाभोगाहार एवोक्तो विशेषानभिधानात् । आहारका इति हि सामान्येनोच्यते, न तत्र 'अनाभोगाहारकाः' इति विशेषोऽभिधीयते, तत्र यथा 'अनाहाराः' इति प्रतिषेधे सामान्येन आभोगाहारस्यानाभोगाहारस्य च प्रतिषेधः, अन्यथा अन्यतरभावप्रसङ्गा[61b]त्, तथा विधिरपि विशेषाभावात् । न चाभोगाहारो नास्त्येव, प्रत्यक्षेणोपलम्भात् । न चाहारशब्दवाच्यताऽस्य नास्ति, लोके प्रतीतत्वात् । न चागमे नास्ति,
आभोगओ अणाभोगतो य निव्वत्तिओ दुहाहारो। अणुसमयमणाभोगो नेओ पज्जत्ति आहारो॥ पक्खेवो लेवो वि य तसतिरियनराणमेवमाहारो। लेवाहारो चेव य नेरइएगेंदियसुराणं॥ लेवाहारो दुविहो ओजो मणभक्खणत्ति देवाणं । लेवो खलु ओजमओ सेसाणं देववज्जाणं ॥ [ मणसाहारा देवा वोंदाहारा अ नरयनरतिरिया।
एगेंदियाइजीवा काएण रसं अवहरंति ॥ [ इति प्रपञ्चेन वर्णना
[युक्त्याऽभेदे नाङ्गस्थिति-पुष्टि-क्षुच्छमास्तेन ॥ ३६॥ तस्य विशिष्टस्य स्थितिरभविष्यत् तेन सा विशिष्टेन । यद्य भविष्यदिहैषां शाली-तरभोजनेनेव ॥ ३७॥
इति केवली[य]भुक्तिप्रकरणम् ]
] ति।
मा
............
१. इतः परं S प्रतौ अवशिष्टानि पत्राणि नोपलभ्यन्ते। अतोऽस्य ग्रन्थस्यावशिष्टा सार्धा कारिका समाप्त्युल्लेखसहिता N.P. प्रती अवलम्ब्यात्र [ ] एतादृशे कोष्ठके उपन्यस्यते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146