Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 107
________________ ७२ स्त्रीनिर्वाणप्रकरणे त्रयस्याभावः, परचेतोवृत्तीनां दुरन्वयत्वात् । नाप्यनुमानेन, प्रत्यक्षाभावे तस्याप्यभावात् । तदेवं प्रत्यक्षानुमानागमाबाधितं ज्ञानदर्शनचारित्रलक्षणं रत्नत्रयमविकलं कारणं निर्वाणस्य स्त्रीष्वस्तीति कथमनिर्मोक्ष इति । प्रयोगः – यदविकलं कारणं तदवश्यमेव कार्यमुत्पादयति यथा अन्त्या बीजादिसामग्री अङ्कुरादिकम् । अविकलं च निःश्रेयसकारणं योषित्स्विति । अथाधस्तादुत्कृष्टगमनवद् उपरिष्टादप्युत्कृष्टगमनासंभवः तासामिति स्त्रीत्वेनैव विरुद्धं रत्नत्रयमित्यसिद्धो हेतुरिति चेत् ; · न, प्रतिबन्धाभावात् । न हि सप्तमपृथ्वीगमनाभावो मोक्षाभावेन व्याप्तो विपर्यये व्याप्तेरसिद्धः । इह यद्यत्र नियम्यते तद्विपर्ययेण तद्विपक्षस्य व्याप्ती नियमः सिध्यति, यथा वह्निना धूमस्य व्याप्तौ घूमाभावेन वह्नयभावस्य व्याप्तिः । यथा वा शिशपात्वस्य वृक्षत्वेन व्याप्तौ वृक्षत्वाभावस्य शिशपात्वाभावेन व्याप्तिरिति । न चैवं सप्तमपृथ्वीगमनं कारणं मोक्षगमनस्य, नापि तदात्मकम येन विपर्ययव्याप्तिः स्यादिति। न चाव्यापकनिवृत्तावपि व्याप्यस्य निवृत्तिरतिप्रसंगात् । न च स्त्रीत्वेनाविकलकारणं भवनिर्वाणकारणं निवर्त्यमानमुपलब्धम्, येन विरोधादसिद्धो हेतुः स्यादिति ।। न चोत्कृष्टाशुभपरिणामेन उत्कृष्टशुभपरिणामस्य व्याप्तिः येन तदभावे तस्याप्यभावतः प्रकृष्टाशुभार्जनायोग्यत्वे प्रकृष्टशुभार्जनायोग्यत्वं तासां स्यादिति । उक्तं च । " विषमगतयोप्यधस्तात् उपरिष्टात्तुल्यमासहस्रारम् । गछन्ति च तिर्यञ्चस्तदधोगतिन्यूनताऽहेतुः ।।" [३स्त्रीनिर्वाण. ६ | ४ " श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः ।।" [ तत्त्वार्थसं० का० २७ ] इति वचनात् नोत्कृष्टश्रुताभावेन सिद्धयभावः स्त्रीणामिति । न च वस्त्रेण व्यवधानं निर्वाणस्य, अन्यथा तद्रहितानां तस्य सत्त्वं स्यात् । मोहयुक्तत्वात् [न] इति चेत् ; स एव तहि परिग्रहोऽस्तु न वस्त्रादिरिति । अन्यथा “ कप्पइ निग्गंथाणं निग्गंथीणं समणीणं” पति व्यपदेशो न स्यात् । तेन मूच्छी परिग्रहं वर्णयन्ति नोपकरणम् । तेन पुंसामपि वस्त्रपात्रादि धर्मोपकरणं न परिग्रह इति । तदुक्तम् - " यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोन्यदधिकरणमाहार्हन् ॥” [स्त्रीनिर्वाण० १२] तु०-पृ० १३ ॥ २. तु०-पृ० १५॥ ३. पृ० १५ ॥ ४. पृ० १६ ।। ५. तु० -पृ० १९॥ ६. पृ० १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146