Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 117
________________ स्त्रीनिर्वाणप्रकरण दिगम्बराचार्यश्रीप्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे स्त्रीनिर्वाणसम्बन्धी पूर्वपक्ष:__ " नन्विदमस्ति तत्प्रसाधकं प्रमाणम् – 'अस्ति स्त्रीणां निर्वाणम् अविकलकारणत्वात् पुंवत् । निर्वाणस्य हि कारणं रत्नत्रयम्, “ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [तत्त्वार्थसू० १-१] इत्यभिधानात् । तच्च स्त्रीषु विद्यते, तथाहि - सर्वज्ञोक्तार्थानाम् ‘इदमित्थमेव' इति श्रद्धानं सम्यग्दर्शनम्, यथावदवगमः सम्यग्ज्ञानम्, तदुक्तव्रतस्य यथावदनुष्ठानं सम्यक्चारित्रम्, एतद्रत्नत्रयम् । एतच्च स्त्रीषु सिद्धयत् सर्वकर्मविप्रमोक्षलक्षणं मोक्षं साधयति । नहि स्त्रीषु रत्नत्रयस्य केनचिद्विरोधोऽस्ति यतोऽविकलकारणत्वासिद्धिः स्यात् । अथोच्यते - स्त्रियो रत्नत्रयविरुद्धाः पुंसोऽन्यत्वात् देवादिवत् । सुप्रसिद्धो हि देवनारकतिर्यग्भोगभूमिजानां पुंसोऽन्येषां देवादित्वेन रत्नत्रयस्य विरोधः, एवं स्त्रीणां स्त्रीत्वेनैव अस्य विरोधः सिद्ध इति । तदसमीक्षिताभिधानम्, यतोऽविकलकारणस्य भवतोऽन्यभावेऽभावात् विरोधगतिर्भवति । स्त्रीत्वसद्भावे च रत्नत्रयाभावः प्रत्यक्षतः, अनुमानात्, आगमाद्वा प्रतीयेत? न तावत् प्रत्यक्षतः, रत्नत्रयस्य अतीन्द्रियत्वात् । नाप्यनुमानतः, तदभावाऽविनाभाविनो लिङ्गस्य कस्यचिदभावात् । नाप्यागमात्, तत्र तदभावावेदिनः तस्याप्यसंभवात् । नहि सुरनारकादिवत् तत्र तदभावप्रतिपादकं किञ्चित् प्रवचनवचनं संभवति । नन्वस्तु रत्नत्रयमानं तत्र न तदस्माभिनिषिध्यते तस्य मोक्षाऽप्रसाधकत्वात्, यत्तु मोक्षप्रसाधकं प्रकर्षपयन्तप्राप्तम् तस्य तत्राभावात् मोक्षाभावः इति, तदयुक्तम्, अदृष्टे विरोधप्रतिपत्तेरनुपपत्तेः । न खलु प्रकर्षपर्यन्तं प्राप्तं रत्नत्रयम् अस्माकं दृश्यम्, न चादृश्यस्य विरोधः प्रतिपत्तुं शक्यः अतिप्रसङ्गात् । न चाप्रतिपन्नविरोधस्य तस्य तत्राभावो ग्रहीतुं शक्यः अतिप्रसक्तेरेव । अथ मतम् – अनुमानतः स्त्रीणां निर्वाणाभावप्रतीतेर्न तत्र तत्सद्भावाभ्युपगमो युक्तः, तथाहि-नास्ति स्त्रीणां निर्वाणम् सप्तमपृथिवीगमनाभावात् सम्मूच्छिमादिवत् इति, तदसङ्गतम्, विपर्ययव्याप्तेरसिद्धितः तद्गमनाभावस्य निर्वाणाभावेनाऽव्याप्तेः । इह यद् यत्र नियम्यते तद्विपर्ययेण तद्विपक्षस्य व्याप्तौ नियमो दृष्टः, यथा अग्निना धूमस्य व्याप्तौ धूमाभावेन अग्न्यभावस्य, शिंशपान्वस्य च वृक्षत्वेन व्याप्तौ वृक्षत्वाभावस्य शिंशपात्वाभावेन व्याप्तिः । न चैवमत्र विपर्ययव्याप्तिरस्ति, तदभावश्च सप्तमपृथिवीगमनादे: निर्वाणं प्रत्यकारणत्वात् अव्यापकत्वाच्च सिद्धः । नहि सप्तमपृथिवीगमनं निर्वाणस्य रत्नत्रयवत् कारणं सिद्धम् गुणाष्टकवद्वा व्यापकम् येन तदभावे निर्वाणाभावः स्यात् । नचाकारणाऽव्यापकस्य निवृत्तौ अकार्य १. तु० -पृ० १३ पं० ३॥ २. तु० -पृ० १४ पं० १०॥ ३. तु० - पृ० १३ पं० ६॥ ४. तु० -पृ० १३-१४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146