Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 122
________________ प्रथमं परिशिष्टम् । तदेवं व्यवस्थिते यत् कश्चिदाग्रहगृहीतैरभिधीयते यथा - — अपवर्त्यतेऽकृतार्थं नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्यं किं गततृषो भुक्तिः ।।' [ केवलिभुक्ति० १६] इति, तदेतत् प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुङ्क्ते ? तत्र समस्तवीर्यान्तरायक्षयाभावाद् भुक्तिसद्भाव इति चेत्, तदयुक्तम्, यतः किं तत्रायुषोऽपवर्तनं स्यात् किं वा चतुर्णां ज्ञानानां काचिद्धानिः स्याद् येन भुक्तिरिति । तस्माद् यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारोऽपि, यथा सिद्धिगतेयुपरतक्रियस्य ध्यानस्य चरमक्षणः कारणमेवं सम्यक्त्वादिकमपीति । अनन्तवीर्यतापि तस्याहारग्रहणे सति न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमन-निषीदनानि च भवन्त्येवमाहारक्रियापि विरोधाभावात्, न ह्यत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षदिति । एवं च स्थिते यत् किञ्चिदेतत् । अपिच -- एकादश परीषहा वेदनीयकृता जिने प्रादुष्ष्यन्ति, अपरे तु एकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्ति साधयति । तथाहि - क्षुत् -पिपासा -शीतोष्ण-दंशमशक-नाग्न्या-ऽरति-स्त्री-चर्या-निषद्या-शय्या-ऽऽक्रोश-वध-याच्जा-ऽलाभरोग-तृणस्पर्श-मल-सत्कारपुरस्कार - प्रज्ञा-ज्ञान-दर्शनानीत्यते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परीषहाः, तेषां च मध्ये ज्ञानावरणीयोत्थौ प्रज्ञा-ज्ञानाख्यौ, दर्शनमोहनीयसंभवो दर्शनपरिषहः, अन्तरायोत्थोऽलाभपरिषहः, चारित्रमोहनीयसंभूतास्त्वमी - नागन्या-ऽरति-स्त्री-निषद्या-ऽऽक्रोशयाच्ञा-सत्कार-पुरस्काराः। एते चैकादशापि जिने केवलिनि न संभवन्ति तत्कारणानां कर्मणामपगतत्वात्, न हि कारणाभावे क्वचित् कार्योपपत्तिः। शेषास्त्वेकादश जिने सम्भवन्ति तत्कारणस्य वेदनीयस्य विद्यमानत्वात् । ते चामीक्षुत्-पिपासा-शीतोष्ण-दंशमशक-चर्या-शय्या-वध-रोग-तृणस्पर्श-मलाख्याः, एते च वेदनीयप्रभवाः, तच्च केवलिनि विद्यते, न च निदानानुच्छेदे निदानिन उच्छेदः सम्भाव्यते, अतः केवलिनि क्षुद्वेदनीयादिपीडा सम्भाव्यते, केवलमसावनन्तवीर्यत्वाद् न विह्वलीभवति, न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते । न च शक्यते वक्तुम -- एवंभूतमेव तस्य भगवत: शरीरं यदुत क्षुत्पीडा न बाधते, आहारमन्तरेण च वर्तते, यथा स्वभावेनैव प्रस्वेदादिरहितमेवं पक्षेपाहाररहितम् इति, एतच्चाप्रमाणकत्वादपकर्णनीयम् । अपिच-केवलोत्पत्तेः प्राग् भुक्तेरभ्युपगमात् केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपसंस्कार्यम् । अथान्यथाभावः कश्चिदुच्यते असावपि युक्तिरहितत्वादभ्युपगममात्रक एवेति । १. पृ० ४५ ॥ २. तु०-पृ० ४९-५०। ३. तु० -पृ. ४८ पं० १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146