Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 121
________________ भुक्तिप्रकर यदपि दग्धरज्जुसंस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसंगतं च । आग ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते । युक्तिरपि - यदि घातिकर्मक्षयाज्ज्ञानादयस्तस्याभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं येनासौ न भवति ? न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद् विरोधोऽस्तीति । सातासातयोश्चान्तमुहूर्त परिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव । न चाहारग्रहणे तस्य किञ्चित् क्षूयते, केवलमाहोपुरुषिकामात्रमेवेति । ८६ यदप्युच्यते ' वेदनीयस्योदीरणाया' अभावात् प्रभूततरपुद्गलोदयाभाव:, तदभावाच्चात्यन्तं वेदनीयपीडाऽभावः' इति [ तदपि ] वाङ्मात्रम्, तथाहि -- अविरतसम्यग्दृष्ट्यादिष्वेकादशसु स्थानकेषु वेदनीयस्य गुणश्रेणीसद्भवात् प्रभूतपुद्गलोदयसद्भाव:, ततः किं तेषु प्राक्तनेभ्योऽअधिकपीडासद्भाव इति । अपिच - यो जिने सातोदयस्तीत्रः किमसौ प्रचुरपुद्गलोदयेनेति । अतो यत् किञ्चिदेतदिति । तदेवं सातोदयवदसातोदयोऽपि केवलिन्यवारित इति तयोरन्तमुहूर्त कालेन परिवर्तमानत्वात् । यदपि क्वचित् कैश्चिदभिधीयते विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एव' इति असावपि यदि स्याद् न नो बाधा केवलिनां भुक्तेरनिवारितत्वात् । यदप्युच्यते ‘"आहारविषयकांक्षारूपा क्षुद् भवति, अभिकाङ्क्षा चाहारपरिग्रहबुद्धिः, सा च मोहनीयविकारः, तस्य चापगतत्वात् केवलिनो न भुक्तिः' इति एतदप्यसमीचीनम्, यतो मोहनीयविपाकः क्षुद् न भवति, तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् । तथाहि - कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम् - 'उवसमेण हणे कोहं माणं मद्दवया जिणे । मायं चज्जवभावेण लोभं संतुट्ठिए जिणे || ' [ दशवे० ८ - ३९] मिथ्यात्व-सम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव । वेदोदयोऽपि विपरीतभावनया निवर्तते । तदुक्तम् - -- " काम ! जानामि ते मूलं संकल्पात् किल जायसे । ततस्तं न करिष्यामि ततो मे न भविष्यसि ॥ ' हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते । क्षुद्वेदनीयं तु रोगशीतोष्णादिवज्जीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्तते, अतो न मोहविपाकस्वभावा क्षुदिति । १. तु० पृ० ४५ ।। २. तु० - ५० ४२ । ३. तु० पृ० ४३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146