Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 116
________________ द्वितीयं परिशिष्टम् । अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकर्षः । सोऽपि किमाध्यात्मिकी समृद्धिमाश्रित्य, बाह्यां वा । नाऽऽध्यात्मिकीम्, सम्यग्दर्शनादिरत्नत्रयादेस्तासामपि सद्भावात् । नापि बाह्याम्, एवं हि महत्यास्तीर्थकरादिलक्ष्म्या गणधरादयः, चक्रधरादिलक्ष्म्याश्चेतरक्षत्रियादयो न भाजनम्, इति तेषामप्यमहद्धिकत्वेनापकृष्यमाणत्वाद् मुक्त्यभावो भवेत । अथ याऽसौ पुरुषवर्गस्य महती समृद्धिस्तीर्थकरत्वलक्षणा, सा स्त्रीषु नास्तीत्यमहद्धिकत्वमासां विवक्ष्यते । तदानीमप्यसिद्धता, स्त्रीणामपि परमपुण्यपात्रभूतानां कासाञ्चित् तीर्थकृत्त्वाविरोधात्, तद्विरोधसाधकप्रमाणस्य कस्याऽप्यभावात्, एतस्याऽद्यापि विवादास्पदत्वात्, अनुमानान्तरस्य चाभावात् ।। __मायादिप्रकर्षक्त्वेनेत्यप्यशस्यम्, तस्य स्त्रीपुंसयोस्तुल्यत्वेन दर्शनाद्, आगमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम् । तन्न पुरुषेभ्यो हीनत्वं स्त्रीनिर्वाणनिषेधे साधीयान् हेतुः । यत् पुनः “निर्वाणकारणं ज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्वात्, सप्तमपृथ्वीगमनकारणाऽपुण्यपरमप्रकर्षवत्" न्यायकु० पृ० ८७०] इति तेनैवोक्तम् । तत्र मोहनीयस्थितिपरमप्रकर्षेण स्त्रीवेदादिपरमप्रकर्षेण च व्यभिचारः । “नास्ति स्त्रीणां मोक्षः, परिग्रहवत्त्वात् गृहस्थवद् " [न्यायकु० पृ० ८७२] इत्यपि न पेशलम्, धर्मोपकरणचीवरस्यापरिग्रहत्वेन प्रसाधितत्वात् । इति स्त्रीनिर्वाणे संक्षेपेण बाधकोद्धारः ।। ___ साधकोपन्यासस्तु-मनुष्यस्त्री काचिद् निर्वाति, अविकलतत्कारणत्वात्, पुरुषवत् । निर्वाणस्य हि कारणमविकलं सम्यग्दर्शनादिरत्नत्रयम् तच्च तासु विद्यते एवेत्यादित एवोक्तम्, इति नासिद्धमेतत् । विपक्षाद् नपुंसकादेरत्यन्तव्यावृत्तत्वाद् न विरुद्धमनैकान्तिकं वा । तथा मनुष्यस्त्रीजातिः कयाचिद् व्यक्त्या मुक्त्यविकलकारणवत्या तद्वती, प्रवज्याधिकारित्वात्, पुरुषवत् । न चैतदसिद्ध साधनं " गुम्विणी बालवच्छा य पव्वावेउं न कप्पइ" [निशीथ भा० गा० ३५०८, पञ्चकल्पभा० गा० २००] इति सिद्धान्तेन तासां तदधिकारित्वप्रतिपादनात्, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानान्तरीयकत्वात् । दृश्यन्ते च सांप्रतमप्यताः कृतशिरोलुञ्चना उपात्तपिच्छकाकमण्डलुप्रमुखयतिलिङ्गाश्च, इति कुतो नैतासां प्रवज्याधिकारित्वसिद्धिः यतो न मुक्तिः स्यात् ?" एतान् पूर्वनिर्दिष्टान् ग्रन्थान् मुख्यतयाऽवलम्ब्य वैक्रमे पञ्चदशे शतके विद्यमानैः श्रीगुणरत्नसूरिभिः श्रीहरिभद्रसूरिविरचितषड्दर्शनसमुच्चयस्य [५२तमकारिकायाः] बृहद्वत्तौ [भारतीयज्ञानपीठप्रकाशितायां पृ० ३०१-३०८] अधिकं चाप्यपरमुत्प्रेक्ष्य वैक्रमे सप्तदशे शतके विद्यमानर्वाचकवरश्रीयशोविजयः श्रीहरिभद्रसूरिरचितशास्त्रवार्तासमुच्चयस्य स्याद्वादकल्पलताभिधायां वृत्तौ [पृ० ४२५-४३० ], उपाध्यायश्रीमेघविजयादिभिः युक्तिप्रबोध[पृ० ११४]प्रभृतिषु ग्रन्थेषु स्त्रीनिर्वाणसम्बन्धिनी चर्चा विस्तरेण विहितास्ति । जिज्ञासुभिस्तत्रैव विलोकनीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146